मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 851, कुल 1023 में से
संदर्भ में पढ़ें[Header] खं. ८ अ. १८ | पान ४२
[Body] धिकम् ॥१३॥ सहस्रगुणसंयुक्तं भवते सर्वमंजसा । कलौ युगेन संदेहो गणेशवरदानतः ॥१४॥ कलौ तावन्मयं प्रोक्तं विकर्मकृतमंजसा । फलदं द्वापरे तच्च दशाधिक्यं भवेत् परम् ॥१५॥ त्रेतायां तच्छताधिक्यं कृते साहस्रकं भवेत् । युगमानस्य माहात्म्यान्निश्चितं मुनिभिः पुरा ॥१६॥ एवं नानाप्रमाणानि युगेषु कथितानि च । कथितं तत् पुरा विप्राः पुराणेषु समासतः ॥१७॥ अथ सिद्धिं प्रवक्ष्यामि कलौ सर्वार्थदायिनीम् । यथाऽऽचारयुतं कर्म फलदं तत् क्षणाद्भवेत् ॥१८॥ आसुरेण स्वभावेन कलिना सर्वमावृतम् । फलं कर्मभवं विप्र तस्मात् न फलदं भवेत् ॥१९॥ कर्मसिद्धिं कलौ तत्र यदीच्छति जनो हृदि । सर्वादावयुतं कुर्यात् गायत्रीसंभवं जपम् ॥२०॥ हविष्यान्नं तु भुक्त्वा स एकभुक्तपरायणः । ब्रह्मचर्ययुतो जंतुः सत्यभाषी जितेंद्रियः ॥२१॥ शौचाचारसमायुक्तो द्वेषादि स परित्यजेत् । मनसाऽपि स्त्रियं नैव भोगार्थं संस्मरेत् कदा ॥२२॥ यदा देहं समागृह्य नरः कर्मपरायणः । मनसा विषयं चेच्छेत्तदा सिद्धिः कथं भवेत् ॥२३॥ एवमादि स्वधर्मस्थां क्रियां कृत्वा महायशाः । गायत्र्याश्च जपं कुर्यात्तेन विप्रत्ववान् भवेत् ॥२४॥ ततः कृच्छ्रं समा कुर्यात्ततः कर्म समाचरेत् । स सर्वकलिदोषेण मुक्तः सिद्धिमवाप्नुयात् ॥२५॥ यथोक्तविधिना कर्म कृतं येन महात्मना । चतुर्गुणं कलौ विप्राः सिद्धिदं तत् क्षणाद्भवेत् ॥२६॥ आसुरेण स्वभावेन कृतं कर्म द्विजादिभिः । कथं सिद्धिप्रदं तत्र भविष्यति कलौ युगे ॥२७॥ केवलासुरभावेन सत्कर्म मानवेन च । सहस्रगुणितं हर्षात् कृतमासुरगं भवेत् ॥२८॥ सुरासुरस्वभावेन कृतं कर्म शुभाशुभम् । सुरासुरभवं सौख्यप्रदं तच्च भवेत् नृणाम् ॥२९॥ एवं सर्वं समाख्यातं युगधर्मरहस्यकम् । संक्षेपेण कलौ तद्वत् सिद्धिदं मुनिसत्तम ॥३०॥ शृणुयादिदमाख्यानं युगानां मानवः परम् । पठेद्वा पाठयेत् सोऽपि दोषहीनो भवेत्ततः ॥३१॥
[Colophon] ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते युगप्रभावकर्मसिद्धिवर्णनं नाम अष्टादशोऽध्यायः ॥