भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 850, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 850

खं. ८ अ. १८ पान ४१ त्रेतायुगं प्राप्तं शतांशेन तदा कृतम् । सहस्रांशेन तत्रैव द्वापरः प्रभविष्यति ॥५२॥ अयुतांशेन पापिष्ठः कलिस्तेन समन्वितः । चरिष्यति न संदेहः परस्परप्रवेशनात् ॥५३॥ द्वापरे समनुप्राप्ते शतांशेन भविष्यति । कलिः सहस्रभागात्रेतायुतांशं कृतं भवेत् ॥५४॥ कलौ शतांशरूपेण द्वापरः प्रभविष्यति । सहस्रभागात्रेता च लक्षांशेन कृतं भवेत् ॥५५॥ धर्माधर्मविचारोण मोहदः स कलिः स्मृतः । धर्मज्ञो मोहकर्माऽसौ द्वापरः परिकीर्तितः ॥५६॥ यशाः प्रिया स्वधर्मस्थात्रेता सर्वत्र संमता । मुक्तिप्रियं कृतयुगं स्वधर्मस्थं प्रकीर्तितम् ॥५७॥ एवं क्रमेण सर्वत्र भविष्यथ युगाः प्रियाः । मां ज्ञात्वा बंधहीनाश्च वाञ्छितार्थप्रदायकाः ॥५८॥ एवमुक्त्वाऽंतर्दधेऽसौ गणेशो गणवल्लभः । युगा हर्षसमायुक्ताः स्वस्वकर्मपराः बभुः ॥५९॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते युगवरप्रदानं नाम सप्तदशोऽध्यायः ॥ ॥श्रीगणेशाय नमः ॥ सूत उवाच । कृते कलिमुखाश्चैव युगाः संति महर्षयः । कृताज्ञापालकाः सर्वे कृतमानभयार्दिताः ॥१॥ तत्रायुः कृततुल्यं वै सर्वेषां जन्मिनां सदा । पापाचारादियुक्तानां सर्वं कृतसमं भवेत् ॥२॥ शापादिकं नराणां तु सफलं कृतभावतः । भवते पापिनामेव यथा सुकृतिनां वचः ॥३॥ तत्र भेदं प्रवक्ष्यामि नरोऽपराधसंयुक्तः । न भवेच्छापभीतः सन् कृते युगप्रमाणतः ॥४॥ तद्वत् त्रेतायुगे विप्र युगास्त्रयः कृतादयः । वर्तते भयसंयुक्तास्त्रेतायां नात्र संशयः ॥५॥ पापिनां सुकृतिनां चायुरादि तत् समं भवेत् । त्रेतायुगप्रमाणेण ज्ञातव्यं द्विजसत्तम ॥६॥ द्वापरे द्वापराज्ञायां संस्थितास्ते युगास्त्रयः । तेन सर्वं तदाकारं फलं भवति कर्मजम् ॥७॥ आयुरादि नराणां च द्वापरेण समं भवेत् । नानाभावास्तदाकारा मया वक्तुं न शक्यते ॥८॥ कलौ युगास्त्रयस्ते तु तदाज्ञावशवर्तिनः । वर्तते तेन कर्मादिफलं कलिसमं भवेत् ॥९॥ आयुरादि महर्षे तु कलितुल्यं न संशयः । सुकृतिनां महापापिनां युगस्य प्रमाणतः ॥१०॥ अतो लेशमयी सिद्धिः कलौ सत्कर्मकारिणाम् । भविष्यति तथा सर्वमासुरेण हतं भवेत् ॥११॥ योगः शांतिप्रदः प्रोक्तः स एव मुनिसत्तम । चतुर्षु युगधर्मेषु समरूपो भविष्यति ॥१२॥ कृते कर्म कृतं चैकफलदं शास्त्रसंमते । त्रेतायां तद्दशाधिक्यं द्वापरे तु शता-