भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 849, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 849

[header] खं. ८ अ. १७ | पान ४० [/header]

नार्थं ददौ मंत्रान् प्रजापतिः ॥२६॥ तं प्रणम्य ययुः सर्वे तपसे वनमुत्तमम् । गणेशं चेतसि ध्यात्वा जेपुर्मंत्रं युगानि च ॥२७॥ निराहारप्रभावेण परितुष्टो गजाननः । भक्त्या तेषां ययौ वर्षसहस्रे वरदः पुरः ॥२८॥ तमागतं समालोक्य प्रणेमुस्ते गणाधिपम् । पूज्य ते तुष्टुवुः सर्वे हर्षगद्गदभाषणाः ॥२९॥ युगपुरुषा ऊचुः । गणेशाय नमस्तुभ्यं भक्तसंरक्षकाय च । नानारूपभृते तुभ्यं हेरंबाय नमो नमः ॥३०॥ भक्तेभ्यः सर्वदायैवाभक्तानां नाशनाय च । परेशाय पराणां ते पराय च नमो नमः ॥३१॥ स्वानंदवासिने तुभ्यं नानामायाप्रचारिणे । सदा स्वानंदभोगस्थ पालकाय नमो नमः ॥३२॥ अमेयशक्तये तुभ्यं नानामायाप्रहारिणे । मायिभ्यो मोहदात्रे वै मायिने ते नमो नमः ॥३३॥ लंबोदराय लोकानामुदरस्थाय ते नमः । एकदंताय शूर्पाकारकर्णाय नमो नमः ॥३४॥ त्रिनेत्राय गजाकारवक्त्राय परमात्मने । चतुर्भुजाय सर्वेषामादिपूज्याय वै नमः ॥३५॥ देवाय देवरूपाय देवदेवाय ते नमः । देवदेवेशकार्याय विघ्नेशाय नमो नमः ॥३६॥ सर्वेषां ज्येष्ठरूपाय मात्रे पित्रे नमो नमः । सततं सर्वपूज्याय ब्रह्मनिष्ठाय ते नमः ॥३७॥ ब्रह्मणे ब्रह्मणां नाथ ब्रह्मभूयप्रदाय च । ब्रह्मभ्यो ब्रह्मदात्रे ते शांति- स्थाय नमो नमः ॥३८॥ किं स्तुमस्त्वां गणेशान यत्र वेदाः शिवादयः । योगरूपा भवंति स्म ततस्ते नमनं शुभम् ॥३९॥ एवमुक्त्वा प्रणेमुस्ते युगा गणपतिं द्विज । स तानुवाच प्रीतात्मा भक्तवात्सल्ययंत्रितः ॥४०॥ श्रीगणेश उवाच । स्तोत्रं भवत्कृतं मे यत् सर्वदं प्रभविष्यति । पठनाच्छ्रवणात् नृभ्यो मत्प्रीतिदायकं भवेत् ॥४१॥ यं यमिच्छति तं तं तु दास्यामि स्तोत्र- तोषितः । भुक्तिमुक्तिप्रदं भावि सर्वमान्यं युगाः किल ॥४२॥ वरान् ब्रूत महाभागा ददामि मनसेप्सितान् । तपसा स्तोत्र- मुख्येन तुष्टो भक्त्या विशेषतः ॥४३॥ युगा ऊचुः । यथा संरचिता देव गजानन वयं त्वया । सामर्थ्यमतुलं देहि तथा ते भक्तिमुत्तमाम् ॥४४॥ कृत उवाच । सदा सत्त्वयुतं मां त्वं कुरु कर्मपरायणम् । स्वधर्मरुचिसंयुक्तं प्रभो मोक्षार्थमुद्यतम् ॥४५॥ त्रेतोवाच । भुक्तिमुक्तिप्रियां मां च कुरु सत्त्वरजोयुताम् । तदर्थं धर्मनिष्ठत्वं गजानन नमोऽस्तु ते ॥४६॥ द्वापर उवाच । भुक्ति- सौख्ययुतं मां त्वं कुरु धर्मपरायणम् । भोगबुद्धिपरार्थं च रजस्तमोयुतं प्रभो ॥४७॥ कलिरुवाच । तामसं देहभोगार्थमुद्यतं सततं प्रभो । विकर्मरुचिसंयुक्तं मां कुरुष्व गजानन ॥४८॥ पुनस्ते तं वदंति स्म युगा हर्षसमन्विताः । एकैकाश्रितभावेन भो कुरुष्व निरंतरम् ॥४९॥ तेषां तद्वचनं श्रुत्वा गणेशस्तानुवाच ह । मेघगंभीरया वाचा सर्वेभ्यः सुखदायकः ॥५०॥ श्रीगणेश उवाच । लक्षांशेन कृते प्राप्ते कलिस्तत्र भविष्यति । शतांशेन च सा त्रेता द्वापरस्त्वयुतांशतः ॥५१॥ यदा