मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 848, कुल 1023 में से
संदर्भ में पढ़ेंखं. ८ अ. १७ पान ३९ ॥ श्रीगणेशाय नमः ॥ शौनक उवाच । सूत सूत महाभाग कथां पापापहारिणीम् । वदसे योगदां पूर्णां श्रुत्वा तृप्ता वयं द्विज ॥१॥ पुराणेषु युगानां तु श्रुत्वा चिह्नानि विस्मिताः । महासंशयसंयुक्ता वयं जाता विशेषतः ॥२॥ कृते स्त्रीणां च स्वातंत्र्यं त्रेतायां ब्रह्मणा कृतम् । द्वापरे संस्कृतं श्वेतकेतुनैकपतिश्रितम् ॥३॥ गौतमेन कथं शप्ता कृतेऽहल्या महासती । इत्यादिबहवोऽस्माभिर्मार्गा दृष्टाः कृते युगे ॥४॥ अन्यत् कृतयुगे प्रोक्तं वर्णाश्रमो न विद्यते । एकवर्णाऽऽश्रमस्थास्ते भवन् संकीर्तिता जनाः ॥५॥ त्रेतायां क्षात्रधर्मं तु चकार प्रपितामहः । ततोऽभवन्नरा वर्णाश्रमस्थास्ते प्रकीर्तितम् ॥६॥ सौरचांद्रभवौ विप्र द्वापरा॑ते स्थितौ नृपौ । पुनः कृतयुगे प्राप्ते राज्यं तौ च करिष्यतः ॥७॥ वर्णाश्रमविभागेन वर्तयिष्यंति मानवाः । किमिदं कौतुकं तत्र विरुद्धवाचकं परम् ॥८॥ युगधर्मेण नष्टास्ताः कलौ पापमये क्रियाः । वर्णाश्रमविभागास्तत्र सिद्धिः कुतो भवत् ॥९॥ कलौ चतुर्गुणेनैव कर्मणा सिद्धिमाप्नुयात् । नरः सर्वत्र संप्रोक्तं कथं तच्च भविष्यति ॥१०॥ अतो युगभवं सर्वं कथयस्व विशेषतः । याथातथ्यं महाभाग सुलभं सुगमार्थकम् ॥११॥ सूत उवाच । युगा नानाविधाः प्रोक्ता मुनिभिस्तत्त्वदर्शिभिः । तदर्थज्ञो न मुह्येत मतभेदप्रमाणतः ॥१२॥ तुरीयदेहगं केचित् कृतं वदंति निश्चितम् । त्रेता सुषुप्तिगा स्वाप्नं द्वापारं जागृतं कलिम् ॥१३॥ तत्रात्मा गुणपः प्रोक्तो सर्वत्रैको महर्षयः । माया सुषुप्तिरूपा सा नानाकारा प्रकीर्तिता ॥१४॥ तस्यां नानाविधायां न व्यभिचारो भविष्यति । यत्र तत्र स्थितं खस्य पतिं पश्यति सा शुभा ॥१५॥ सूक्ष्मं स्थूलं विभिन्नं यत्तया सृष्टं विभागतः । तयोर्गुणेशजं रूपं तदाकारं विभाति च ॥१६॥ भिन्नभावात् समुत्पन्ने जागृत्स्वप्ने न संशयः । तयोः पतिकलत्रादि व्यभिचारयुतं भवेत् ॥१७॥ तत्र संस्थापिता तेन मर्यादा श्वेतकेतुना । श्वेतं स्वप्नं ध्वजो यस्य श्वेतकेतुः स वै स्मृतः ॥१८॥ अनेन युगमानेन ज्ञातव्यं तद्विचक्षणैः । नेमे युगा महाविप्राः कथिता मुनिभिः पुरा ॥१९॥ ध्यानं कृतयुगं केचित् यज्ञं त्रेतां वदंति च । आचारं द्वापरं देहविषयं कलिमेव च ॥२०॥ तत्र ध्याने महाभागा एकवर्णा- श्रमो भवेत् । ज्ञानं तदेव ज्ञातव्यमेकरूपधरं सदा ॥२१॥ यज्ञः कर्ममयः प्रोक्तस्तत्र वर्णाश्रमो भवेत् । अतो वर्णाश्रमा- चारस्त्रेतायां परिकीर्तितः ॥२२॥ एवं नाना विचारेण मुनिभिः कथितं पुरा । न तत्र संशयः कार्यों जनैस्तदर्थयुक्तिभिः ॥२३॥ अधुना युगमाहात्म्यं कथयामि समासतः । कलौ सिद्धिकरं चैव कर्म येन प्रजायते ॥२४॥ आदौ ब्रह्माऽसृजत् कालं धर्मा- धर्मव्यवस्थया । स चतुर्धाऽभवत्तत्र युगरूपः पुरातनः ॥२५॥ कृतं त्रेता द्वापरश्च कलिश्चेति महर्षयः । तेभ्यः सिद्धिप्रदा-