मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 847, कुल 1023 में से
संदर्भ में पढ़ेंखं. ८ अ. १६ पान ३८ ❀❀❀❀❀❀❀❀❀❀- ❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀❀ विविधां सेनां नानाशास्त्रसमन्विताम् ॥२८॥ नानावाहनगां पूर्णतेजोयुक्तां महर्षयः । तया युक्तो जनान् सर्वान् जघान मलिनान् प्रभुः ॥२९॥ म्लेच्छप्रायांश्च विविधान् म्लेच्छान् कलिमलैर्युतान् । स्वयं संत्रासयामास कलिं धर्मवधे रतम् ॥३०॥ तस्यांगवायुना स्पृष्टा जना धर्मपरायणाः । भययुक्ता गणेशं ते शरणं जग्मुरादरात् ॥३१॥ कलिर्गुप्तस्वरूपेण युयुधे जनसंश्रितः । गणैशैः संहतः सोऽपि बभूव ह हतोद्यमः ॥३२॥ ततो भयसमायुक्तं त्यक्त्वा हृज्जन्मिनां कलिः । देहधारी समागत्य धूम्रवर्णं ननाम सः ॥३३॥ तुष्टाव पूज्य तं नत्वा धूम्रवर्णं महाबलम् । ज्ञात्वा विघ्नेश्वरं भक्त्या हृष्टरोमा महायशाः ॥३४॥ कलिरुवाच । धूम्रवर्ण नमस्तुभ्यं सर्वेभ्यः सुखदायक । नानारूपधरायैव विघ्नेशाय नमो नमः ॥३५॥ अनंतपादहस्तायानंतबाहुधराय ते । अनंतमायया गुप्तचारिणे नमो नमः ॥३६॥ हेरंबाय नमस्तुभ्यं भक्तसंरक्षकाय च । अभक्तभयदात्रे ते गणेशाय नमो नमः ॥३७॥ आदिमध्यांतहीनायादिमध्यांतभयाय ते । आनंदेभ्यः सदानंददायिने वै नमो नमः ॥३८॥ मायाहीनाय मायाया आधाराय परात्मने । मायिभ्यो मायया मोहदायिने ते नमो नमः ॥३९॥ कर्मणां फलदात्रे ते ज्ञानिभ्यो ज्ञानदायिने । आनंदेभ्यः सदानंददायिने वै नमो नमः ॥४०॥ सहजाय नमस्तुभ्यं स्वानंदाय समाधये । योगाय योगनाथाय ब्रह्मेशाय नमो नमः ॥४१॥ कस्त्वां स्तोतुं समर्थः स्याद्यत्र शांतिं गताः प्रभो । वेदादयो नमाम्येव तेन तुष्टो भवाधुना ॥४२॥ रक्ष मां गणनाथ त्वं दासं शरणमागतम् । अज्ञानयुद्धजं दोषं क्षमस्व करुणानिधे ॥४३॥ एवमुक्तवा कलिस्तस्य पादं गृह्य पपात ह । तमुवाच गणाध्यक्षः स्वभक्तं शरणार्थिनम् ॥४४॥ धूम्रवर्ण उवाच । मा भयं कुरु धर्मघ्न न हन्मि त्वां कदाचन । शरणं मां प्रपन्नं च शृणु मे वच नोहतम् ॥४५॥ स्तोत्रं त्वया कृतं मे यत् कलेर्मलहरं भवेत् । पठते शृण्वते नित्यं सर्वकामफलप्रदम् ॥४६॥ अंते स्वानंददं पूर्णं भविष्यति कले परम् । दृढभक्तिकरं नित्यं योगिभ्यो योगदायकम् ॥४७॥ तिष्ठ त्वं द्वेषमुत्सृज्य धर्मस्य स्वाधिकारात । कृतप्राप्तिं विजानीहि मदाज्ञावशगो भव ॥४८॥ तथेति तं नमस्कृत्य कलिः स्वस्थानगोऽभवत् । धूम्रवर्णो द्विजान् मुख्यान् वसिष्ठादीन् समानयत् ॥४९॥ पुनस्तान् स्थाप्य सर्वेशः कृतं तैः संप्रवर्तयत् । स्वयमंतर्हितो देवः सर्वेभ्यः सुखदायकः ॥५०॥ धूम्रवर्णावतारस्य चरितं कथितं मया । सर्वसिद्धिप्रदं पूर्णं पठनाच्छ्रवणाद्भवेत् ॥५१॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते धूम्रवर्णकलिनिर्जयवर्णनं नाम षोडशोऽध्यायः ॥