भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 846, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 846

यहाँ दिए गए पृष्ठ का पंक्ति-दर-पंक्ति लिप्यंतरण (Transcription) प्रस्तुत है:

[Header] खं. ८ अ. १६ | पान ३७

॥ श्रीगणेशाय नमः॥ शिव उवाच । वर्णाश्रमे कलौ नष्टे देवा दुःखसमन्विताः । प्रार्थयिष्यंति विघ्नेशमुपोषणपरायणाः ॥१॥ नानातपोन्वितान् वीक्ष्य प्रादुर्भावं गजाननः। करिष्यत्यमरान् विप्राः पुरः परमभक्तितः ॥२॥ समागतं गणेशानं धूम्रवर्णधरं प्रभुम् । द्विभुजं वाजिसंस्थं तं खड्गचर्मप्रधारिणम् ॥३॥ नानापुष्पमयीं मालां दधानं गंधचर्चितम् । दृष्ट्वा सुराः प्रणेमुस्तं नत्वा पूज्य प्रतुष्टुवुः ॥४॥ नमस्ते धूम्रवर्णाय नानाखेलकराय च । अमेयशक्तये तुभ्यं मायिने धर्मरक्षिणे ॥५॥ अनाथानां प्रणार्थाय नाथनाथाय ते नमः । सगुणाय नमस्तुभ्यं निर्गुणाय नमो नमः ॥६॥ सगुणनिर्गुणाभ्यां च हीनाय योगरूपिणे । योगाकारेण सर्वत्र संस्थिताय नमो नमः ॥७॥ नरकुंजररूपाय धूम्रवर्णधराय च । द्विभुजायाश्ववाहाय हेरंबाय नमो नमः ॥८॥ खड्गचर्मधरायैव नाना चंदनचर्चित । नाना पुष्पधरायैव सर्वाध्यक्षाय ते नमः ॥९॥ पूर्णाय पूर्णरूपाय गणेशाय परात्मने । धर्मरक्ष महाभाग गजानन नमोऽस्तु ते ॥१०॥ धर्मान्ना अमराः सर्वे सुरेश्वर कृतास्त्वया । नष्टे धर्मेऽधुना नाथ मरिष्यामस्त्व- दग्रतः ॥११॥ बुद्धमायासहायने कलिना निर्जिता वयम् । विष्णुशंभुमुखा देवास्तान् पालय महोदर ॥१२॥ सार्धेन द्विसहस्रेण प्रभो वर्षेर्विनिर्जिताः । क्षुद्रदेवाः स्वग्रामस्थाः कलिना पप्लुश्च ते ॥१३॥ ततः पंचसहस्रेण वर्षैस्तास्तीर्थदेवताः । तीर्थानि कलिना नाथ जितानि पप्लुस्तथा ॥१४॥ ततो दशसहस्रेण जिता विष्णुशिवादयः । कलिना पृथिवीं त्यक्त्वा पप्लुर्देवसत्तमाः ॥१५॥ कर्माकर्मविकर्माख्या शक्तिस्तत्र स्थिता भवेत् । विकर्मगुणसंयुक्ता बुद्धमायात्मिका प्रभो ॥१६॥ त्वमपि त्वादृशो भूत्वा फलदाता स्थितः स्वयम् । देवरूपधरः स्वामिन् सदा कलिप्रवर्तकः ॥१७॥ न ते देवस्वरूपं तु कलिः क्रोधसमन्वितः । छेत्तुं समुद्यतः क्वापि त्वां चिंतयति सर्वदा ॥१८॥ तव चिंतनभावेन वयं सर्वे पराजिताः । कलिना देवदेवेश उपोषणयुताः कृताः ॥१९॥ अधुना लेशमात्रेण धर्मस्तिष्ठति विघ्नप । तं हनिष्यति वेगेन कलिः परमदारुणः ॥२०॥ नष्टे धर्मे गणाधीश अधर्मः केवलो महान् । भविष्यति पुनर्धर्मं किं स्रक्ष्यसि च देवप ॥२१॥ अतो लेशमयं धर्मं रक्षस्व गणनायक । नोचेद्धर्मशरीरास्तु वयं नष्टा भवामहे ॥२२॥ रक्ष रक्ष दयासिंधो धूम्रवर्ण गजानन । मृत्युप्रायाननाथांश्च देवान् धर्मप्ररक्षकान् ॥२३॥ एवमुक्त्वा गणाधीशं प्रणेमुरमराः पुनः । रुरुदुः दुःखसंयुक्तां- स्तान् जगाद गजाननः ॥२४॥ धूम्रवर्ण उवाच । मा भयं कुरुत प्राज्ञा धर्मं संरक्षयाम्यहम् । सर्वैरजेयमुग्रं तं कलिं हत्वा विशेषतः ॥२५॥ भवत्कृतमिदं स्तोत्रं कलिदोषहरं भवेत् । पठते शृण्वते देवाः सर्वसिद्धिप्रदायकम् ॥२६॥ धनधान्यप्रदं चैवारोग्यसंपत्प्रवर्धनम् । पुत्रपौत्रकलत्रादिदायकं प्रभविष्यति ॥२७॥ एवमुक्त्वा स्वदेहात् स धूम्रवर्णः प्रतापवान् । निर्ममे