मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 845, कुल 1023 में से
संदर्भ में पढ़ेंखं. ८ अ. १५ पान ३६ स शरीरं पीडयेत् कदा ॥३९॥ देहो भोगार्थमानंदाद्रचितस्तेन ब्रह्मणा । नानायत्नैः शरीरं तत् पोषणीयं निरंतरम् ॥४०॥ शरीरे कष्टमापन्ने बुद्धिः खेदयुता भवेत् । तत्स्थबुद्धिपतिः साक्षाद् दुःखितश्च तथा भवेत् ॥४१॥ अहं ब्रह्मेति संधार्य सदा स्वेच्छापरो भवेत् । पापपुण्यविहीनः स देहपोषणकारकः ॥४२॥ नानापदार्थभावेषु मनस्तस्य प्रवर्तते । भोक्तव्यास्ते नरेणैव त्यज्य वर्णाश्रमाश्रमम् ॥४३॥ जीवहिंसामयं कर्म कर्तव्यं न कदाचन । तृणांकुरादिकं तद्वन्नच्छेत्तव्यं विचारतः ॥४४॥ देवार्चनादिकं कर्म न कर्तव्यं मनीषिभिः । न स्वाहा न स्वधाद्यं यदहं ब्रह्मेति बोधतः ॥४५॥ ब्राह्मणेभ्यो न दातव्यं दानभोज्यादिकं कदा । सर्वे समानरूपाश्च कथं तत्र द्विजादिकम् ॥४६॥ यत्र चित्तस्य संप्रीतिर्जायते मुनि- सत्तमाः । तदेव पात्रमुख्यं वै ज्ञातव्यं श्रेष्ठभावतः ॥४७॥ एवं नानामर्तैर्युक्तं शास्त्रं बौद्धं महर्षयः । ज्ञातव्यं कलि- दोषैश्च युक्तं नरकदं भवेत् ॥४८॥ वर्णाश्रमस्थकं धर्मं त्यक्त्वा स्वेच्छापरो भवेत् । अहिंसा परमो भावी ह्येतद्बौद्ध- रहस्यकम् ॥४९॥ सर्वान् संमोह्य विश्वात्मा बुद्धः कलिप्रवर्तकः । संस्थितः कैकटे देशे गुप्तरूपेण मानदाः ॥५०॥ गणेश- ध्यानसंयुक्तः समर्प्य ढुंढये कृतम् । कर्मयोगयुतः सोऽपि तदाऽऽज्ञापालकोऽभवत् ॥५१॥ तथापि पूजया हीनो बभूवे बुद्धरूपधृक् । विष्णुर्वेदविरुद्धस्थमार्गसंसर्जनात् किल ॥५२॥ कलिप्रांते दुराचारा बौद्धमाया विमोहिताः । वर्णाश्रम- परिभ्रष्टा भविष्यंति गृहे गृहे ॥५३॥ लेशमात्रेण धर्मस्तु स्थितस्तत्र महर्षयः । अधर्मेण जितः सोऽपि सदोपोषणसंयुतः ॥५४॥ ततो बुद्धः स्वयं ढुंढिं परं ध्यात्वा तपोन्वितः । प्रार्थयिष्यति विघ्नेशं धर्मसंस्थापनाय वै ॥५५॥ ततो गणेश्वरः साक्षात् प्रसन्नोऽवतरिष्यति । धूम्रवर्ण इति ख्यातो धर्मं संस्थापयिष्यति ॥५६॥ दृष्टो बुद्धश्च तं नत्वा पूज्य स्तुत्वा विशेषतः । अंतर्धानं स्वयं कृत्वा खमहिम्न्नि स्थितो भवेत् ॥५७॥ इदं बुद्धस्य माहात्म्यं कथितं स्वल्पभावतः । पठनाच्छ्रवणात् सद्यो मोहघ्नं कामदं भवेत् ॥५८॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते बुद्धावतारवर्णनं नाम पंचदशोऽध्यायः ॥