मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 852, कुल 1023 में से
संदर्भ में पढ़ें[हेडर: खं. ८ अ. १९ | पान ४३]
॥ श्रीगणेशाय नमः ॥ शौनक उवाच । मासानां चरितं ब्रूहि सूत सर्वार्थकोविद । मलमासे गणेशस्य पूजनं कीदृशं भवेत् ॥१॥ सूत उवाच । ब्रह्मणोऽगसमुत्पन्नः संवत्सरः प्रतापवान् । मासा द्वादश तस्यांऽगात् समुत्पन्नाः पुरा मुने ॥२॥ छायाया मलमासश्च समुत्पन्नः शुभप्रदः । सह तैर्गणपं ध्यात्वा तपस्तेपे स वत्सरः ॥३॥ षडक्षरं महामंत्रं जजाप ब्रह्मणोदितम् । गणेशस्य सदा ध्यानं चकार हर्षसंयुतः ॥४॥ एवं वर्षसहस्रेण प्रसन्नो वरदोऽभवत् । तमाययौ गणाधीशो भक्तं भक्तजनप्रियः ॥५॥ उवाच तं समाधिस्थं संवत्सरं गजाननः । समास त्वं वरान् ब्रूहि परान् मत्तो हृदीप्सितान् ॥६॥ गणेशवचनं श्रुत्वा संवत्सरो बुबोध तम् । समुत्थाय गणेशानं ननाम भक्तिसंयुतः ॥७॥ समासः पूजयामास यथाविध्युपचारतः । पुनः प्रणम्य विघ्नेशं तुष्टाव करसंपुटः ॥८॥ समाससंवत्सर उवाच । नमस्ते धूम्रवर्णाय वक्रतुंडाय ढुंढये । हेरंबाय परेशाय विघ्नेशाय नमो नमः ॥९॥ शूर्पकर्णाय सर्वेषां पूज्याय परमात्मने । लंबोदराय सर्वादिपूज्याय तु नमो नमः ॥१०॥ अनाथानां सुनाधाय पात्रे हत्र्त्रे नमो नमः । कर्त्रे त्रिगुणरूपाय गुणहीनाय ते नमः ॥११॥ आदिमध्यांतसंस्थायादिमध्यांतविवर्जित । गणेशाय गणानां ते चालकाय नमो नमः ॥१२॥ ब्रह्मणां पतये तुभ्यं ब्रह्मभ्यो ब्रह्मदायिने । ब्रह्मणे ब्रह्मभूताय ब्रह्मिष्ठाय नमो नमः ॥१३॥ सिद्धिवुद्धिप्रदात्रे ते सिद्धिवुद्धिमयाय च । सिद्धिवुद्धिपते तुभ्यं सर्वेशाय नमो नमः ॥१४॥ अनंतविभवायैवानंतमाया- प्रचारिणे । मायिने मायिनां मोहदात्रे मायास्वरूपिणे ॥१५॥ शांतियोगमयायैव शांतियोगधराय ते । शांतियोगप्रदात्रे च योगेशाय नमो नमः ॥१६॥ किं स्तौमि त्वां गणाधीश चिंतामणिस্বরূপिणे । योगिनः शांतिमापन्ना वेदा यत्र विशेषतः ॥१७॥ अतो नमाम्यहं नाथ तेन तुष्टो भव प्रभो । वरान् देहि स्वकार्याणां सिद्धिदान् सुखदायकान् ॥१८॥ भक्तिं ते चरणे नित्यं देहि सर्वभयापहाम् । कालमानकरं ढुंढे वीर्यं देहि स्वभावजम् ॥१९॥ कर्म मासादिषु प्राज्ञैः कृतं तच्छुभदं भवेत् । साक्षित्वं कर्मणां देहि साधुपादप्रपूजनम् ॥२०॥ एवमुक्तवा प्रणेमुस्ते मासाः संवत्सरान्विताः । तानुवाच गणाध्यक्षो वचः स्तोत्रेण तोषितः ॥२१॥ श्रीगणेश उवाच । यद्यत् संप्राथितं मासाः संवत्सर तथास्तु वै । सर्वगाः कालरूपस्था भविष्यथ न संशयः ॥२२॥ सूर्येण संयुताः सर्वे द्वादशदेहधारिणा । फलदाः कर्मणां चैव भविष्यथ विशेषतः ॥२३॥ ब्रह्मार्पणतया कर्म यद्भवत्सु कृतं नरैः । अंते सलोकतां तेभ्यो दातारश्च भविष्यथ ॥२४॥ याथातथ्यविभागेन साक्षिणः सर्वजन्मिनाम् । भविष्यथ तथा भक्ता मयि मोहविवर्जिताः ॥२५॥ आदित्येन परित्यक्तोऽधिमासस्त्वं भविष्यसि । देवताऽहं त्वदीये तु