मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 853, कुल 1023 में से
संदर्भ में पढ़ेंकर्मणां फलदायकः ॥२६॥ सर्वेषु मलरूपं यत् कृतं मासेषु मानवैः । नानाभावयुतं तेभ्योऽहं भवामि फलप्रदः ॥२७॥ त्वदीये कालभावे तु कर्म यन् मानवैः कृतम् । नानाभावयुतं तेभ्योऽहं भवामि फलप्रदः ॥२८॥ भवत्कृतमिदं स्तोत्रं सर्वसिद्धि- प्रदं भवेत् । पठतां शृण्वतां नृणां भावपूरं न संशयः ॥२९॥ कालदोषभवं पापं कालस्योल्लंघनादिकम् । हराभ्येनेन स्तोत्रेण तुष्टोऽहं भुक्तिमुक्तिदः ॥३०॥ एवमुक्त्वाऽन्तर्दधेऽसौ गणेशो गणवल्लभः । संवत्सरः प्रसन्नात्मा स्वकार्यनिरतोऽभवत् ॥३१॥ मासाः स्वकार्यसामर्थ्ययुक्ता हृष्टा बभूविरे । कालभावधराः सर्वे साक्षिणः सर्वकर्मणाम् ॥३२॥ एतत् संवत्सरस्यैव समासस्य चरित्रकम् । यः पठेच्छृणुयाद्वाऽपि स कालसुखमाप्नुयात् ॥३३॥ ॥ ओमिति श्रीमदंत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते समासवत्सरचरितं नामैकोनविंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ सूत उवाच । ततो बहौ गते काले मासाः षट् तपसि स्थिताः । निराहारपराः सर्वे गणेशं समतोषयन् ॥१॥ कार्त्तिको मार्गशीर्षश्च माघो वैशाखश्रावणौ । अधिमासस्तथा विप्र गणेशध्यानतत्परः ॥२॥ दशवर्षेषु विघ्नेशस्तान् ययौ वरदायकः। स्तुतः संपूजितस्तैस्तु वरान् ब्रूत स चाब्रवीत् ॥३॥ गणेशवचनं श्रुत्वा मासास्तं प्रणिपत्य च । ऊचुः प्रहृष्टचित्तास्ते भक्त्या नम्रात्मकंधराः ॥४॥ मासा ऊचुः । यदि विघ्नेश सर्वेश वरदोऽसि तदा प्रभो । अस्मासु यत्कृतं कर्म बहुलं कुरु सर्वदा ॥५॥ तेनास्मत्कालसंप्राप्तौ नरा यत्नपरायणाः । भविष्यंति विशेषेण सदा सत्कर्मकारिणः ॥६॥ तद्भक्तिनिलयान्नित्यं कुरु नो गणनायक । त्वद्दासप्रवणांस्तद्भूत् कर्मदोषविवर्जितान् ॥७॥ श्रीगणेश उवाच । अन्येषु सर्वमासेषु कृतं कर्म तदात्मकम्। फलदं संमतं शास्त्रे मदीयवरदानतः ॥८॥ तेभ्यो दशाधिकं कर्म फलदं प्रभविष्यति । मार्गशीर्षे कृतं मासाः शुभदं मानवैः किल ॥९॥ तस्माद्वैशाखमासे तद्भविष्यति दशाधिकम् । तस्मात् कार्त्तिकिके मासे दशाधिकफलप्रदम् ॥१०॥ तस्माद्दशाधिकं माघे कर्म यन्मानवैः कृतम् । तस्माद्दशाधिकं भावि श्रावणे फलदं भवेत् ॥११॥ तस्माद्दशाधिकं प्रोक्तं ढौँढे मासे फलप्रदम् । एवं क्रमेण श्रेष्ठा वै भविष्यथ यथा तपः ॥१२॥ अधिमासस्य देवोऽहं ढुंढिराजो न संशयः । ढौँढमासः