मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 854, कुल 1023 में से
संदर्भ में पढ़ेंखं. ८ अ. २१ पान ४५ समाख्यातो मया नाम्नाऽधुना महान् ॥१३॥ अमाचिह्नेन संयुक्तः श्रावणो मे प्रियोऽधिकः । नानासिद्धिप्रदो भावी ह्यनुष्ठानवतां नृणाम् ॥१४॥ उपासते श्रावणे मां नानायत्नपरायणाः । उपोषणयुता भाद्रे चतुर्दिनानि मानवाः ॥१५॥ समारभ्य प्रतिपदं चतुर्थ्यंतं मदर्चनम् । चतुर्थ्यां जागरं कुर्यात् पंचम्यां पारणं तथा ॥१६॥ यथाशक्ति द्विजान् भोज्य दद्याद्विपुलदक्षिणाम् । स सर्वसुखमाभोज्यांते स्वानंदमवाप्नुयात् ॥१७॥ मुख्यं पंचसु वै स्नानं मासेषु सर्वभावतः । प्रातःकाले विशेषेणानुष्ठानं श्रावणे मतम् ॥१८॥ एवं मासा भवंतोऽपि भविष्यंति जनैः सदां । सत्कर्मभिर्महाभागाः सेविताः सततं पराः ॥१९॥ मयि भक्तियुता नित्यं सर्वदेवपरायणाः । भविष्यथ मदीयेन वरेणैव विशेषतः ॥२०॥ एवमुक्त्वाऽंतर्दधेऽसौ गणेशो भक्तवत्सलः । मासा हर्षसमायुक्ताः स्वस्वकार्यरता बभुः ॥२१॥ शृणोति मासचारित्रमेवं पठति यो नरः । स मासफलसंयुक्तो गाणेशो भवतीत्यहो ॥२२॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते मलमासादिमासेभ्यो वरप्रदानं नाम विंशतितमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ शौनक उवाच । षट्सु मासेषु विघ्नेशः पूजनीयो नरैः कथम् । तेषु मुख्यप्रकारेण तुष्टः केन गजाननः ॥१॥ के के सिद्धिं गतास्तेषु गणेशभजनेन वै । तेषां चरित्रकं ब्रूहि सर्वसिद्धिप्रदायकम् ॥२॥ सूत उवाच । अरुणोदयकाले वै स्नानं कुर्यान्नरः सदा । तीर्थेषु व्रतसंयुक्तः स्वस्वशाखाप्रमाणतः ॥३॥ स्वशाखोक्तेन मार्गेण संध्यादिकं समाचरेत् । वैदिकै- स्तांत्रिकैर्मंत्रैः पूजयेद्गणनायकम् ॥४॥ पुराणसंभवैर्वाऽपि यथोपचारसंयुतः । एकभुक् स भवेन्नित्यं नक्तभुक् वा भवेन्मुने ॥५॥ हविष्यान्नं फलहारो निराहारोऽथवा पुनः । ब्रह्मचर्यसमायुक्तो नखलोमयुतो भवेत् ॥६॥ पृथ्व्यां शयनकारी स सत्यवाङ् मौनधारकः । यथा स्वधर्मसंयुक्तो व्रतं मासात्मकं चरेत् ॥७॥ ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वाऽपि महामुने । स्वस्वधर्मयुतो भूत्वा व्रतं मासात्मकं चरेत् ॥८॥ स्त्रीणां व्रतमिदं पुण्यं सधवानां सुखप्रदम् । विधवानां विशेषेण परं मासात्मकं भवेत् ॥९॥ तेषु पंचकमानंदाच्चरेन् मुख्यं सदा जनः । गणेशपूजनं विप्र भोजनं दीपदानकम् ॥१०॥ शमीमंदारसेवां च प्रदक्षिणपरा-