मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
खं. ८ अ. २१ पान ४५ समाख्यातो मया नाम्नाऽधुना महान् ॥१३॥ अमाचिह्नेन संयुक्तः श्रावणो मे प्रियोऽधिकः । नानासिद्धिप्रदो भावी ह्यनुष्ठानवतां नृणाम् ॥१४॥ उपासते श्रावणे मां नानायत्नपरायणाः । उपोषणयुता भाद्रे चतुर्दिनानि मानवाः ॥१५॥ समारभ्य प्रतिपदं चतुर्थ्यंतं मदर्चनम् । चतुर्थ्यां जागरं कुर्यात् पंचम्यां पारणं तथा ॥१६॥ यथाशक्ति द्विजान् भोज्य दद्याद्विपुलदक्षिणाम् । स सर्वसुखमाभोज्यांते स्वानंदमवाप्नुयात् ॥१७॥ मुख्यं पंचसु वै स्नानं मासेषु सर्वभावतः । प्रातःकाले विशेषेणानुष्ठानं श्रावणे मतम् ॥१८॥ एवं मासा भवंतोऽपि भविष्यंति जनैः सदां । सत्कर्मभिर्महाभागाः सेविताः सततं पराः ॥१९॥ मयि भक्तियुता नित्यं सर्वदेवपरायणाः । भविष्यथ मदीयेन वरेणैव विशेषतः ॥२०॥ एवमुक्त्वाऽंतर्दधेऽसौ गणेशो भक्तवत्सलः । मासा हर्षसमायुक्ताः स्वस्वकार्यरता बभुः ॥२१॥ शृणोति मासचारित्रमेवं पठति यो नरः । स मासफलसंयुक्तो गाणेशो भवतीत्यहो ॥२२॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते मलमासादिमासेभ्यो वरप्रदानं नाम विंशतितमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ शौनक उवाच । षट्सु मासेषु विघ्नेशः पूजनीयो नरैः कथम् । तेषु मुख्यप्रकारेण तुष्टः केन गजाननः ॥१॥ के के सिद्धिं गतास्तेषु गणेशभजनेन वै । तेषां चरित्रकं ब्रूहि सर्वसिद्धिप्रदायकम् ॥२॥ सूत उवाच । अरुणोदयकाले वै स्नानं कुर्यान्नरः सदा । तीर्थेषु व्रतसंयुक्तः स्वस्वशाखाप्रमाणतः ॥३॥ स्वशाखोक्तेन मार्गेण संध्यादिकं समाचरेत् । वैदिकै- स्तांत्रिकैर्मंत्रैः पूजयेद्गणनायकम् ॥४॥ पुराणसंभवैर्वाऽपि यथोपचारसंयुतः । एकभुक् स भवेन्नित्यं नक्तभुक् वा भवेन्मुने ॥५॥ हविष्यान्नं फलहारो निराहारोऽथवा पुनः । ब्रह्मचर्यसमायुक्तो नखलोमयुतो भवेत् ॥६॥ पृथ्व्यां शयनकारी स सत्यवाङ् मौनधारकः । यथा स्वधर्मसंयुक्तो व्रतं मासात्मकं चरेत् ॥७॥ ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वाऽपि महामुने । स्वस्वधर्मयुतो भूत्वा व्रतं मासात्मकं चरेत् ॥८॥ स्त्रीणां व्रतमिदं पुण्यं सधवानां सुखप्रदम् । विधवानां विशेषेण परं मासात्मकं भवेत् ॥९॥ तेषु पंचकमानंदाच्चरेन् मुख्यं सदा जनः । गणेशपूजनं विप्र भोजनं दीपदानकम् ॥१०॥ शमीमंदारसेवां च प्रदक्षिणपरा-
खं. ८ अ. २१ पान ४६
यणाम् । गवां शुश्रूषणं तद्वत् सर्वसिद्धिप्रदं भवेत् ॥११॥ एवमादि गणेशस्य प्रियं नानाविधं चरेत् । सदा तन्निष्ठभावेन तिष्ठेन् मासव्रती मुने ॥१२॥ अन्यान् शंभुमुखान् देवान् पूजयेन् मानवो मुने । स्वस्वेच्छायुतभावेन व्रतं मासमयं चरेत् ॥१३॥ आवश्यकैन भावेन मासाः सेव्या इमे नरैः । धर्मार्थकामामोक्षाणां ब्रह्मभूयस्य दायकाः ॥१४॥ यं यमिच्छति तं तं वै लभते नात्र संशयः । मासात्मकेन मुख्येन व्रतेन मानवः सदा ॥१५॥ अत्रेतिहासमुख्यं ते कथयामि समासतः । मासव्रतेन ये सिद्धिं लेभिरे भक्तिसंयुताः ॥१६॥ शंखासुरो महादैत्यो ब्रह्मांडाधिपतिः पुरा । बभूव स जहारैव वेदान् स्मृतिसमन्वितान् ॥१७॥ ततो हाहा कृतं सर्वैः कर्महीनप्रभावतः । वर्णसंकरजं कर्म बभूवे सर्वमंडले ॥१८॥ ततो मुनिगणैर्युक्ता देवा विधिमुखा ययुः । विष्णुं च शरणं सर्वे तुष्टुवुर्वेदहेतवे ॥१९॥ ततो विष्णुः स्वयं शंभुं जगाम तान् विसृज्य सः । तं जगाद महाभागं विनयेन समन्वितः ॥२०॥ विष्णुरुवाच । शंखं वेदहरं शंभो दुर्जयं देवतादिभिः । जेष्यामि त्वत्प्रसादेन तत्रोपायं वदस्व मे ॥२१॥ श्रीशिव उवाच । समीपे कार्त्तिको मासो जनार्दन समागतः । तत्र मासव्रतेन त्वं तोषयस्व गजाननम् ॥२२॥ तेन विघ्नविहीनस्त्वं विजेष्यसि महाबलम् । शंखासुरं न संदेहो नान्यथा पुरुषोत्तम ॥२३॥ श्रुत्वा तं शंकरं नत्वा विष्णुः परपुरंजयः । गतो बदरिकाण्यं व्रतार्थं भक्तिसंयुतः ॥२४॥ तत्रैकाक्षर- मंत्रस्य पुरश्चरणमुत्तमम् । चकार गणनांथं स तोषयामास यत्नतः ॥२५॥ कार्त्तिके पंचकं सेव्यं गाणेशं सर्वसिद्धिदम् । मार्गशीर्षे गणेशानं प्रणम्य प्रययौ सुरान् ॥२६॥ ततो बुद्धिपतिं स्मृत्वा विचारमकरोत् हृदि । केनोपायेन दैत्येशं विजेष्यामि सुदारुणम् ॥२७॥ तत्र स्फूर्तिः समुत्पन्ना गणेशकृपया हृदि । मात्स्येनैव स्वरूपेण विजयो मे भविष्यति ॥२८॥ एतस्मिन्नंतरे तत्र बभूवाऽऽकांशजां पराम् । वाणीं शुश्राव देवेशः केशवः परवीरहा ॥२९॥ मात्स्यरूपेण शंखं तं जहि सर्वभयंकरम् । मां स्मृत्वा नात्र संदेहो विजयस्ते भविष्यति ॥३०॥ ततो गणपतिं स्मृत्वा मत्स्यो भूत्वा जनार्दनः । घोरं युद्धं स कृत्वा तं जघान शंखमुल्बणम् ॥३१॥ सांगान् वेदान् समानाय्य ददौ तान् ब्रह्मणे प्रभुः । स्तुतः संपूजितो देवैर्मुनिभिः स्वस्थलं ययौ ॥३२॥ एवं कार्त्तिकमासे तु स्नानादिव्रततेजसा । हतः शंखासुरस्तेन विष्णुना मत्स्यरूपिणा ॥३३॥ अन्यच्च शृणु विप्रेंद्र कथां पापप्रणाशिनीम् । कार्त्तिकव्रतसंयुक्तां पुरातनभवां पराम् ॥३४॥ पौलस्त्यो ब्राह्मणः कश्चित् सोमदत्त इति श्रुतः । स्वधर्मनिरतो नित्यं तपस्वी शुचिमानसः ॥३५॥ जगाम स गणेशस्य भक्त्यर्थं गौतमं मुनिम् ।
खं. ८ अ. २१ पान ४७ पप्रच्छ विनतो भूत्वा भक्त्यर्थं योगिनां वरम् ॥३६॥ सोमदत्त उवाच । केनोपायेन विघ्नेशः सद्यो वै दृष्टिगो भवेत् । क्षणभंगुरदेहत्वात्तदुपायं वद प्रभो ॥३७॥ गौतम उवाच । समीपे कार्तिको मासः समायातो महामुने । व्रतं मासात्मकं कार्यं दर्शनार्थं महाप्रभोः ॥३८॥ एवमुक्त्वा विधिं तस्मै कथयित्वा ददौ परम् । स्थानं स्वस्याश्रमे सोऽपि तत्रारंभं चकार ह ॥३९॥ एकनिष्ठः स्वभावेन परं गाणेशपंचकम् । सेवयामास भक्त्या स कार्तिकव्रतसंयुतः ॥४०॥ उपोषणयुतस्तत्र ध्यात्वा हृदि गजाननम् । जजाप मंत्रराजं स षडक्षरं शुभप्रदम् ॥४१॥ तत्र चित्रं समभवत् समाप्तिसंभवे दिने । तच्छृणुष्व महाविप्र दृढनिश्चयदं भवेत् ॥४२॥ पूजायां संस्थितो विप्रः सोमदत्तो महायशाः । कार्तिकां पूर्णिमायां स एकासनविधौ रतः ॥४३॥ तत्र दूर्वाशमीमंदारपुष्पाणि स्थितानि तु । अकस्माद्ब्राह्मणः कश्चित्तानि गृह्य पपाल ह ॥४४॥ सोमदत्तः स्वयं तत्र मौनवानासने स्थितः । नोत्थितो नियमे संस्थः शुशोच गणपं स्मरन् ॥४५॥ ततस्तेन विचारेण तदर्थं ज्ञातमद्भुतम् । लोमानि देहसंस्थानि सर्वौषधिमयानि च ॥४६॥ अतो लोमानि सर्वाणि त्वचायुक्तानि भावतः । दास्यामि गणनाथाय दूर्वा शम्यादिकारणात् ॥४७॥ ततः शस्त्रं समागृह्य शिरश्छेत्तुं समुद्यतः । शिखायुक्तं गणेशाय दूर्वार्थं स्वस्य चार्पयन् ॥४८॥ स्वकंठे शस्त्रघातं स चकार गणनायकः । तावत् समाययौ तत्र ब्राह्मणस्य स्वरूपधृक् ॥४९॥ शमीमंदार- दूर्वादीन् गृह्य तस्मै ददौ पुनः । उवाच पूजय त्वं तु गणेशं हठतत्पर ॥५०॥ दृष्ट्वाऽतिहर्षसंयुक्तः सोमदत्तो महायशाः । नियमं स्वं चकारैव तमुवाच प्रणम्य तु ॥५१॥ सोमदत्त उवाच । त्वं कोऽसि वद मां नाथ हृत्वा दूर्वादिकं पुरा । समायातः पुनः सर्वं दत्तं मे नियमात्मकम् ॥५२॥ न त्वं विप्रोऽसि देवेश साक्षाद्विघ्नेश्वरो भवान् । निश्चयं मे हठं दृष्ट्वा परीक्षार्थं समागतः ॥५३॥ दर्शयस्व निजं रूपं नोचेद्देहं त्यजाम्यहम् । सत्यं वद महाभाग तेन तृप्तो भवामि च ॥५४॥ ततो व्रतप्रभावेण भक्त्या नियमयुक्तया । संतुष्टो गणराजः स दर्शयामास स्वं वपुः ॥५५॥ चतुर्भुजं त्रिनेत्रं च शुंडादंडविराजितम् । सिद्धिवुद्धिसमायुक्तं परश्वादिसुचिह्नितम् ॥५६॥ नानाभूषणशोभाढ्यं शेषनाभिधरं परम् । चिंतामणिं मणिं हृत्स्थं लंबोदरैक- दंतकम् ॥५७॥ मूषकोपरि संस्थं तं दृष्ट्वा वस्त्रविराजितम् । ननाम सोमदत्तः स हर्षनिर्भरमानसः ॥५८॥ सरोमांचो ननर्ताऽसौ साश्रुनेत्रः प्रतापवान् । न विवेद विधिं किंचिद्देहातीत इवाबभौ ॥५९॥ ततो हर्षं समागृह्य पूजयामास तं प्रभुम् । पुनः प्रणम्य हेरंबं तुष्टाव स कृतांजलिः ॥६०॥ सोमदत्त उवाच । गणेशाय परेशाय सदा शांतिप्रदायिने । योगिनां
खं. ८ अ. २१ | पान ४८ योगरूपाय हृदिस्थाय नमो नमः ॥६१॥ विघ्नेशाय महाविघ्नविघ्नदाय परात्मने । विघ्नहर्त्रे स्वभक्तानां सत्ताधाराय ते नमः ॥६२॥ अनादये महाकाल कालाय कालरूपिणे । अंते विहारयुक्तायादिनाथाय नमो नमः ॥६३॥ विनायकाय देवाय सर्वेषां नायकाय च । नायकेभ्यः पदादीनां दात्रे तुभ्यं नमो नमः ॥६४॥ लंबोदराय सर्वेषामुदरस्थाय ते नमः । अपारोदारभावाय ब्रह्मेशाय नमो नमः ॥६५॥ आदिमध्यांतहीनाय तदाकारस्वरूपिणे । स्वानंदपतये तुभ्यं खसंवेद्याय ते नमः ॥६६॥ सिद्धि- दात्रे सुभक्तेभ्यो दुष्टानां सिद्धिहारिणे । सिद्धिपते महासिद्धिरूपाय ते नमो नमः ॥६७॥ बुद्धिपते सुबुद्धीनां दात्रे साधु- जनप्रिय । दुर्बुद्धिदायिने तुभ्यं दुष्टेभ्यो वै नमो नमः ॥६८॥ संप्रज्ञातस्वरूपायथासंप्रज्ञातं महाशिरः । तयोर्योगे नराकार गजाकाराय ते नमः ॥६९॥ किं स्तौमि गणनाध त्वां सदा योगस्वरूपिणे । अतस्ते नमनं कृत्वा कृतकृत्यो भवाम्यहम् ॥७०॥ धन्योऽहं सर्वभूतेषु त्वां दृष्ट्वा गणनायकम् । कुलं शीलं यशो धन्यं जनकौ तप आश्रमः ॥७१॥ धन्यं व्रतं गणाधीश महत् कार्तिकमासगम् । तस्याचरणमात्रेण त्वं मे दृष्टिगतः प्रभो ॥७२॥ भक्तिं त्वदीयपादेषु देहि मे द्विरदानन । नान्यद्याचे भ्रमैर्युक्तं गाणपत्यपरायणः ॥७३॥ तस्य तद्वचनं श्रुत्वा गणेशस्तमुवाच ह । यद्यदिच्छसि तत्तत्ते सफलं प्रभवष्यिति ॥७४॥ गाणपत्यप्रियोऽत्यंतं भविष्यसि महामुने । भक्तो मदीयपादस्य सर्वमान्यो भविष्यसि ॥७५॥ त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् । भविष्यति नृणां विप्र पठतां शृण्वतां सदा ॥७६॥ एवमुक्त्वाऽन्तर्दधेऽसौ विघ्नेशः करुणानिधिः । सोमदत्तो महाभागो गौतमं प्रणनाम ह ॥७७॥ तदादि स मुनिः ख्यातो बभूव गणपप्रियः । योगी योगविदां श्रेष्ठः सर्ववेदार्थतत्त्ववित् ॥७८॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते धूम्रमहिमावर्णनं नाम एकविंशतितमोऽध्यायः ॥
खं. ८ अ. २२ पान ४९ ॥ श्रीगणेशाय नमः ॥ सूत उवाच । कर्णाटे ब्राह्मणः कश्चिदत्रिगोत्रसमुद्भवः । नाम्ना सर्वप्रियः सोऽपि कार्तिकव्रतमाचरत् ॥१॥ प्रातः स्नानं स कृत्वा तु गणेशपूजने रतः । नियमेन समाविष्टो गाणपत्यप्रियोऽभवत् ॥२॥ तत्रैकः क्षत्रियः शुद्धः स्नानं कृत्वा शमीं पराम् । जलेनासिच्य भीमाख्यः प्रदक्षिणपरोऽभवत् ॥३॥ अन्यः कैवर्तकस्तत्र तथा मंदारकं मुने । पूज्य मेघप्रियः स्नात्वा प्रदक्षिणपरोऽभवत् ॥४॥ वैश्यो गवां पुष्पवाहः शुश्रूषायां रतोऽभवत् । स्नात्वा गणपतिं ध्यात्वा गोरूपधरमादरात् ॥५॥ शूद्रः श्यामलसंज्ञस्तु दीपदानं चकार ह । गणेशप्रीतये नित्यं स्नात्वा मासव्रते रतः ॥६॥ अन्यो वैश्यो महाबाहुर्नाम्ना स्नात्वा व्रते स्थितः । ब्राह्मणान् भोजयामास नित्यं भावपरायणः ॥७॥ कारुकः पद्मनामा वै स्नात्वा नित्यं नमाम ह । गणेशं भावसंयुक्तः कार्तिकव्रतसंस्थितः ॥८॥ शूद्रः कश्चिन्महीपालो नाम्ना गुणयुतोऽभवत् । तीर्थं कार्तिकमासे स जग्राह गणपस्य तु ॥९॥ एवं नाना जनास्तत्र गणेशप्रीतये मुने । स्नात्वा किंचित् स्वभावेनाभजंस्तं गणनायकम् ॥१०॥ रोगवंध्यादिदोषैस्ते मुक्ता जाता विशेषतः । समाप्ते व्रतमुख्ये तु धनधान्ययुता बभुः ॥११॥ अंते स्वानंदगाः सर्वे गणेशं नम्य तत्क्षणात् । ब्रह्मभूता बभूवुश्च कार्तिकव्रतपुण्यतः ॥१२॥ अतः कार्तिकमासस्थं व्रतं कार्यं विशेषतः । गणेशप्रीतये विप्र सर्वसिद्धिप्रदायकम् ॥१३॥ नियमेन समा भक्तिर्न भूता न भविष्यति । किंचिन्नियम- संयुक्तो गणेशं वशमानयेत् ॥१४॥ नियमेन कृतं किंचिद्गणेशप्रीतये नरैः । भवेत् कोटिगुणं विप्र सर्वसिद्धिप्रदायकम् ॥१५॥ कार्तिके स्नानमत्यंतं मुख्यं विघ्नेशसेवनम् । यथाशक्ति कृतं सर्वसिद्धिदं प्रभवष्यिति ॥१६॥ करोति यः कार्तिके चेत् पंचकं गणपप्रियम् । स गणेशप्रियोऽत्यंतं भवत्यत्र न संशयः ॥१७॥ दानं होमादिकं किंचित् कार्तिकेऽनंतपुण्यदम् । भवेत्तु गणनाधाय चार्पितं कर्मजं फलम् ॥१८॥ बहुनात्र किमुक्तेन कार्तिके नमनं सकृत् । गणेशाय कृतं नित्यं तदक्षयप्रदं भवेत् ॥१९॥ इदं कार्तिकमासस्य माहात्म्यं कथितं मया । गणेशलोकदं पुण्यं इह सौख्यप्रदं परम् ॥२०॥ यः शृणोति नरो भक्त्या पठते भावसयुतः । सोऽपि कामानवाप्यैव गाणपत्यप्रियो भवेत् ॥२१॥ अन्यदेवपरा ये वै कार्तिकव्रतसंस्थिताः । तेषां लोकसुखं सर्वमंते भुंजंति निश्चितम् ॥२२॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते कार्तिकमासमाहात्म्ये नानानियमनिरूपणं नाम द्वाविंशोऽध्यायः ॥
खं. ८ अ. २३ पान ५० ॥ श्रीगणेशाय नमः ॥ शौनक उवाच । संक्षेपेण महाभाग मार्गशीर्षभवं परम् । माहात्म्यं वद सूत त्वं गणेशभक्तिदायकम् ॥१॥ सूत उवाच । अंधकासुरनामा वै दैत्यः परमदारुणः । जित्वा त्रिभुवनं सर्वं चकार राज्यमुत्तमम् ॥२॥ देवा वनस्थिताः सर्वे भययुक्ताः विशेषतः । वधार्थं तस्य चोद्युक्ता लेभिरे न किमप्यहो ॥३॥ ततः शंभुः परां चिंतामापेदे मुनिभिः सह । जगाम सहसा तत्र नारदः करुणानिधिः ॥४॥ तं दृष्ट्वा हर्षसंयुक्ता देवाः शंकरमुख्यकाः । पप्रच्छुस्ते महाभागं दुःखशोक- युताः परम् ॥५॥ श्रीशिव उवाच । अंधकेन जिताः सर्वे वयं योगींद्रसत्तम । गृहीतुं पार्वतीं पत्नीं भावार्थमुद्यतोऽभवत् ॥६॥ कर्मनाशप्रभावेणोपोषणेन समन्वितान् । देवांस्तान् रक्ष विप्रेश द्विजान् कर्मपरायणान् ॥७॥ अंधकस्य वधोपायं वद त्वं सर्ववित्तम । करिष्यामो वयं तं तु भक्तियुक्ता महामते ॥८॥ नारद उवाच । समीपे मार्गशीर्षस्तु संप्राप्तः सर्वसिद्धिदः । व्रतं मासात्मकं कार्यं गणेशप्रीतये त्वया ॥९॥ ततो व्रतप्रभावेण जेष्यसे दैत्यपुंगवम् । अंधकं नाम संदेहो विघ्नेशस्य प्रसादतः ॥१०॥ एवमुक्त्वा महायोगी नारदो गणपं स्मरन् । वीणागानरतो विप्र नम्य तं स्वेच्छया ययौ ॥११॥ ततो देवगणैर्युक्तो मुनिभिः शंकरः स्वयम् । मार्गशीर्षभवं मुख्यं व्रतं चकार वैघ्नपम् ॥१२॥ गणेशपंचकं नित्यं सेवयामास यत्नतः । उषः स्नात्वा विशेषेण गणेशमभजत् प्रभुम् ॥१३॥ उपोषणसमायुक्तः शंकरोऽहर्निशं परम् । तमेव चिंतयन् भक्त्या ध्यानसंस्थो बभूव ह ॥१४॥ एवं मासव्रतं पूर्णं शिवः कृत्वा द्विजोत्तम । पूज्य भोज्य स्वयं देवश्चकार पारणं मुने ॥१५॥ ततो व्रतप्रभावेण संतुष्टो गणनायकः । आययौ शंकरं तत्र वरदानार्थमादरात् ॥१६॥ सिद्धिबुद्धियुतं वीक्ष्य मूषकोपरि संस्थितम् । विघ्नेशं हर्षसंयुक्तः शंकरः प्रणनाम तम् ॥१७॥ शिवः पूज्य गणाधीशं देवैर्मुनिभिरादरात् । तुष्टाव हृष्टरोमाऽसौ प्रबद्धकरसंपुटः ॥१८॥ श्रीशिव उवाच । गणेशाय नमस्तुभ्यं विघ्नराजाय ढुंढये । परेशाय च हेरंबाय पाशिने नमो नमः ॥१९॥ मूषकवाहनायैव नमः परशुपाणये । दंताभयधरायैव त्रिनेत्राय नमो नमः ॥२०॥ शूर्पकर्णाय वीराय चंद्ररेखाधराय ते । सिंदूरभूषणायैव रक्तरंगाय ते नमः ॥२१॥ हेरंबाय महाविघ्नवारणाय गजानन । आदिपूज्याय सर्वेषां पूज्याय ते नमो नमः ॥२२॥ स्वानंदवासिने तुभ्यं स्वानंदमयमूर्तये । सर्वाकाराय सर्वेषां मात्रे पित्रे नमो नमः ॥२३॥ अनंतोदरभावाय ब्रह्मणां पतये नमः । ब्रह्मभूताय देवाय दैत्यदानवमर्दिने ॥२४॥ अनंतविभवायैव भक्तपालनधर्मिणे । अभक्तानां विनाशाय खेलकाय नमो नमः ॥२५॥ योगाय योगनाथाय योगिने योगदायिने । सदा शांतिस्वरूपाय शांतिशाताय ते नमः ॥२६॥
किं स्तौमि त्वां गणेशान ब्रह्मणस्पतिरूपिणम्। योगिनो वेदवेदांताः शांतिं यत्र भजंति च ॥२७॥ धन्योऽहं देवपैर्देवै- र्मुनिभिर्गणनायक। दर्शनात्तेऽद्य पादस्य परात्परतरस्य च ॥२८॥ सामर्थ्यं देहि विघ्नेश ज्ञानरूपं त्वयि स्थितम्। आज्ञानां- धकनाशार्थं भक्तिं तेऽव्यभिचारिणीम् ॥२९॥ एवमुक्त्वा ननर्ताऽसौ महादेवः सुरर्षिभिः। तं जगाद गणाधीशो भक्तं भक्तजनप्रियः ॥३०॥ श्रीगणेश उवाच। वज्रपंजरकं मे त्वं गृह्ण दैत्येंद्रसत्तमम्। जहि ज्ञानमयं शंभो विजयी सर्वदा भव ॥३१॥ भक्तिं मदीयपादे त्वं लभसेऽनन्यवृत्तिजाम्। यद्यदिच्छसि तत्तत्ते सफलं तु भविष्यति ॥३२॥ त्वया कृतमिदं स्तोत्रं मदीयं यः पठेन्नरः। शृणुयात् स लभेत् सर्वं वाञ्छितं सर्वदा शिव ॥३३॥ भुक्तिं मुक्तिं पुत्रपौत्रधनधान्यादिकं लभेत्। भक्तिं मे ब्रह्मभूतत्वं श्रवणान्नात्र संशयः ॥३४॥ सूत उवाच। एवं गणेशवाक्यं स श्रुत्वा हर्षसमन्वितः। शिवः प्रणम्य तं वाक्यं जगाद भक्तिलालसः ॥३५॥ श्रीशिव उवाच। वज्रपंजरकं नाथ ब्रूहि मे गणप्रियम्। ज्ञानमयं महांधस्य नाशकं सुखदायकम् ॥३६॥ श्रीगणेश उवाच। आदौ नित्यविधिं कृत्वा पूजयित्वा गजाननम्। वज्रपंजरकं ग्राह्यं सर्वाज्ञानविनाशनम् ॥३७॥ त्रिनेत्रं गजास्यं चतुर्बाहुधारं परश्वादिशस्त्रैर्युतं भालचंद्रम्। नराकारदेहं सदा योगशांतं गणेशं भजे सर्ववंद्यं परेशम् ॥३८॥ एवं ध्यात्वा गणेशानं मानसैरुपचारकैः। पूजयेत्तं नमस्कृत्य धारयेद्वज्रपंजरम् ॥३९॥ बिंदुरूपो वक्रतुंडो रक्षतु मे हृदि स्थितः। देहांश्चतुर्विधांस्तत्वांस्तत्वाधारः सनातनः ॥४०॥ देहमोहयुतं ह्येकदंतः सोऽहं स्वरूपधृक्। देहिनं मां विशेषेण रक्षतु श्रमनाशकः ॥४१॥ महोदरस्तथा देवो नानाबोधान् प्रतापवान्। सदा रक्षतु मे बोधानंदसंस्थो ह्यहर्निशम् ॥४२॥ सांख्यान् रक्षतु सांख्येशो गजाननः सुसिद्धिदः। असत्येषु स्थितं मां स लंबोदरश्च रक्षतु ॥४३॥ सत्सु स्थितं सुमोहेन विकटो मां परात्परः। रक्षतु भक्तवात्सल्यात् सदैकामृतधारकः ॥४४॥ आनंदेषु स्थितं नित्यं मां रक्षतु समात्मकः। विघ्न- राजो महाविघ्नैर्नानाखेलकरः प्रभुः ॥४५॥ अव्यक्तेषु स्थितं नित्यं धूम्रवर्णस्वरूपधृक्। मां रक्षतु सुखाकारः सहजः सर्वपूजितः ॥४६॥ स्वसंवेद्येषु संस्थं मां गणेशः स्वस्वरूपधृक्। रक्षतु योगभावेन संस्थितो भवनायकः ॥४७॥ अयोगेषु स्थितं नित्यं मां रक्षतु गणेश्वरः। निवृत्तिरूपधृक् साक्षादसमाधिसुखे रतः ॥४८॥ योगशांतिधरो मां तु रक्षतु योगसंस्थितम्। गणाधीशः प्रसन्नात्मा सिद्धिबुद्धिसमन्वितः ॥४९॥ पुरो मां गजकर्णश्च रक्षतु विघ्नहारकः। वाह्यां याम्यां च नैरृत्यां चिंतामणिर्वरप्रदः ॥५०॥ रक्षतु पश्चिमे ढुण्ढिर्हेरंबो वायुदिक् स्थितम्। विनायकश्चोत्तरे तु प्रमोदश्चेशदिक् स्थितम् ॥५१॥ ऊर्ध्वं
सिद्धिपतिः पातु बुद्धीशोऽधः स्थितं सदा । सर्वांगेषु मयूरेशः पातु मां भक्तिलालसः ॥५२॥ यत्र तत्र स्थितं मां तु सदा रक्षतु योगपः । परशुपाशसंयुक्तो वरदाभयधारकः ॥५३॥ इदं गणपतेः प्रोक्तं वज्रपंजरकं परम् । धारयस्व महादेव विजयी त्वं भविष्यसि ॥५४॥ य इदं पंजरं धृत्वा यत्र कुत्र स्थितो भवेत् । न तस्य जायते कापि भयं नानास्वभावजम् ॥५५॥ यः पठेत् पंजरं नित्यं स ईप्सितमवाप्नुयात् । वज्रसारतनुर्भूत्वा चरेत् सर्वत्र मानवः ॥५६॥ त्रिकालं यः पठेन्नित्यं स गणेश इवापरः । निर्विघ्नः सर्वकार्येषु ब्रह्मभूतो भवेन्नरः ॥५७॥ यः शृणोति गणेशस्य पंजरं वज्रसंज्ञकम् । आरोग्यादिसमायुक्तो भवते गणपप्रियः ॥५८॥ धनं धान्यं पशून् विद्यामायुष्यं पुत्रपौत्रकम् । सर्वसंपत्समायुक्तमैश्वर्यं पठनाल्लभेत ॥५९॥ न भयं तस्य वज्रात्तु चक्राच्छूलाद्भवेत् कदा । शंकरादेर्महादेव पठनादस्य नित्यशः ॥६०॥ यं यं चिंतयते मर्त्यस्तं तं प्राप्नोति शाश्वतम् । पठनादस्य विघ्नेश पंजरस्य निरंतरम् ॥६१॥ लक्षावृत्तिभिरेवं स सिद्धपंजरको भवेत् । स्तंभयेदपि सूर्यं तु ब्रह्मांडं वशमा- नयेत् ॥६२॥ एवमुक्त्वा गणेशानोऽतर्दधे मुनिसत्तम । शिवो देवादिभिर्युक्तो हर्षितः संबभूव ह ॥६३॥ लक्षावृत्तिं चकाराऽसौ यथाविधि परायणः । सिद्धपंजरको भूत्वा ययावंधकदैत्यपम् ॥६४॥ गणेशं मनसा ध्यात्वा कृत्वा युद्धं सुदारुणम् । त्रिशूलेनांधकं सोऽपि विव्याध गर्वसंयुक्तम् ॥६५॥ एवमंधकदैत्येशं जित्वा शंभुः प्रतापवान् । देवान् संस्थापयामास स्वस्थानेषु सुनिर्भयान् ॥६६॥ विश्वं स्वधर्मसंयुक्तं चकार शंकरः स्वयम् । मार्गशीर्षव्रतेनैव पंजरेण समन्वितः ॥६७॥ इदमंधकनाशाख्यं चरितं यः शृणोति वा । पठेद्वा स लभेत् प्रीतिं गणेशे सर्वसिद्धये ॥६८॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते मार्गशीर्षमासमाहात्म्ये वज्रपंजरकथनं नाम त्रयोविंशोऽध्यायः ॥
❧
॥ श्रीगणेशाय नमः ॥ सूत उवाच । भारद्वाजो द्विजः कश्चिन्नाम्ना साधुरिति स्मृतः । गणेशभजने प्रीतिसंयुक्तोऽभू- न्निरंतरम् ॥१॥ जगाम मुनिमुख्यं स एकदा भक्तिसंयुतः । भरद्वाजं प्रणम्यादौ पप्रच्छ विनयान्वितः ॥२॥ साधुरुवाच । गणेश- प्राप्तये स्वामिन् वदोपायं सुसिद्धिदम् । येनात्मानं गणाधीशो दर्शयेन् मे महामुने ॥३॥ भरद्वाज उवाच । मार्गशीर्षव्रतं
खं. ८ अ. २४ पान ५३ पुत्र कुरु शीघ्रं समागतम् । तेन त्वं गणनाथस्य प्रियोऽत्यंतं भविष्यसि ॥४॥ एवमुक्त्वा भरद्वाजो कथयामास भावतः । विधियुक्तं व्रतं पूर्णं गणेशपंचकैर्युतम् ॥५॥ साधुस्तं नम्य तत्रस्थश्चकार व्रतमुत्तमम् । उपोषणपरो भूत्वा तोषयामास विघ्नपम् ॥६॥ समाप्तिसंभवे तत्र दिवसे गणनायकः । द्विजस्वरूपधरो भूत्वा ययौ तस्याश्रमं शुभम् ॥७॥ उवाच तं महाभागं पूजांते मुनिमुख्यकम् । भोजनं देहि मे विप्र तृप्तिकारकमुत्तमम् ॥८॥ तथेति तं प्रणम्यादौ पूपुज भक्तिसंयुतः । भोजया- मास भक्त्या स नानारसयुतान्नकैः ॥९॥ स भुक्त्वा सकलान्नं तमुवाच क्षुधितो भृशम् । देहि तृप्तिकरं भक्ष्यं व्रजामि विमुखो न चेत् ॥१०॥ श्रुत्वाऽतिविस्मयाविष्टो विचारमकरोद् हृदि । शतप्रस्थमितं चान्नं भक्षितं मे द्विजेन ह ॥११॥ तथापि तृप्तिहीनोऽयं स्थितः कुर्वे किमप्यहो । स्वयं मां छलतुं यातो गणेशो द्विजस्वरूपधृक् ॥१२॥ पुराणेषु महाविप्रैः कथितं तृप्तिकारकम् । गणेशस्यैकदूर्वाया भक्षणं नात्र संशयः ॥१३॥ अत एनं करिष्यामि तृप्तं दूर्वासमन्वितः । एवं विचार्य साधुः स दूर्वां चिक्षेप चांधसि ॥१४॥ गणेशं हृदि संचिंत्य पायसं गृह्य सत्वरः । दूर्वया संयुतं तस्मै ददावन्नं सुभक्तितः ॥१५॥ तृप्तो द्विजः प्रसन्नात्मा तमुवाच सुहर्षितः । ज्ञातं भक्तिरहस्यं तु गणेशस्य त्वया मुने ॥१६॥ तेनाऽहं तृप्तिसंयुक्तः संशयो न कृतस्त्वया । वरं ब्रूहि महाभाग दास्यामि विनयाच्च ते ॥१७॥ साधुरुवाच । यदि त्वं वरदो मेऽसि तदात्मानं प्रदर्शय । गणेशस्त्वं न संदेहो मम भाग्यात् समागतः ॥१८॥ तस्य तद्वचनं श्रुत्वा ब्राह्मणो गणपोऽभवत् । तं दृष्ट्वा हर्षितोऽत्यंतं साधुः साधुगुणान्वितः ॥१९॥ प्रणम्य पूजयामास तुष्टाव स कृतांजलिः । गणेशभक्तिसंयुक्तः साश्रुनेत्रो महायशाः ॥२०॥ साधुरुवाच । हेरंबाय नमस्तुभ्यं त्रिनेत्राय परात्मने । अनाकाराय देवाय साकराय नमो नमः ॥२१॥ लंबोदराय वीराय शूर्पकर्णाय ढुंढये । अनादये परेशाय गणेशाय नमो नमः ॥२२॥ स्वानंदवासिने तुभ्यं भक्तभावस्वरूपिणे । भक्तेशाय सुभक्त्या वै संतुष्टाय नमो नमः ॥२३॥ सर्वाकाराय सर्वादिपूज्याय परमात्मने । ब्रह्मेशाय गणानां ते पालकाय नमो नमः ॥२४॥ निराकाराय सर्वेषां पूज्याय परमप्रिय । विघ्नेशाय महाविघ्नहारिणे ते नमो नमः ॥२५॥ मात्रे पित्रे समस्तानां तत्त्वरूपाय ते नमः । ब्रह्मणे विष्णवे तुभ्यं शंकराय नमो नमः ॥२६॥ शक्तये सूर्यरूपायेंद्राय वायुस्वरूपिणे । चंद्राय वरुणायैव यमाय ते नमो नमः ॥२७॥ अग्नये नैर्ऋतायैव कुबेराय धराधर ।
खं. ८ अ. २४ पान ५४
नराय पशुरूपाय नमो नागासुराय ते ॥२८॥ चराचरमयायैव चराचरविवर्जित । समाय सहजायैव स्वसंवेद्याय ते नमः ॥२९॥ योगाय शांतिनाथाय शांतिदाय नमो नमः । किं स्तौमि त्वां गणाधीश योगाकार नमो नमः ॥३०॥ धन्योऽहं सर्वभावेन तवांघ्रियुगदर्शनात् । वरं देहि गणेशान तव भक्तिं दृढात्मिकाम् ॥३१॥ एवं स्तुत्वा गणाधीशं साधुस्तं प्रणनाम च । तमुवाच गणेशानो भक्तं भक्तजनप्रियः ॥३२॥ श्रीगणेश उवाच । मदीया भक्तिरुग्रा ते भविष्यति महामते । यद्यदिच्छसि तत्तत्ते सफलं प्रभवष्यिति ॥३३॥ त्वया कृतं मदीयं यत् स्तोत्रं भक्तिविवर्धनम् । भविष्यति महाभाग पठतां शृण्वतां सदा ॥३४॥ सर्वसिद्धिप्रदं पूर्णं मत्प्रसादादिदं परम् । नानाकार्यकरं भावि अंते स्वानंददायकम् ॥३५॥ एवमुक्त्वाऽन्तर्दधेऽसौ गणेशो ब्रह्मनायकः । साधुस्तं हृदि सं ध्यात्वाऽभवत्तत्रैव संस्थितः ॥३६॥ एवं नाना जना विप्र सिद्धिं प्राप्ता विशेषतः । मार्गशीर्षव्रतेनैव गाणपत्यपरायणाः ॥३७॥ अन्यच्च शृणु विप्रेन्द्र चरित्रं सर्वसिद्धिदम् । मार्गशीर्षभवं चित्रं श्रवणात् पठनान्नृणाम् ॥३८॥ एकः कैवर्तकः कश्चिन्नाम्ना शंबुरिति स्मृतः । स मार्गशीर्षमाहात्म्यं शुश्राव गणपाश्रितम् ॥३९॥ समागते मार्गशीर्षे स्नानं कृत्वा महामतिः । गणेशं प्रणनामाऽथ नित्यं कुटुंबपोषकः ॥४०॥ ततः परं नृपस्यैव चकार सेवनं सदा । पौषे मृतश्च तं धृत्वा गाणेशाः स्वपदं ययुः ॥४१॥ तत्र विघ्नेश्वरं दृष्ट्वा ब्रह्मभूतो बभूव ह । मार्गशीर्षव्रतं तेन कृतमंशप्रकारतः ॥४२॥ तदपि ब्रह्मभूतः स बभूव व्रतसेवनात् । एवं नाना जना ब्रह्मन् सिद्धिं प्राप्ता व्रतेन वै ॥४३॥ इह भुक्त्वाऽखिलान् भोगानंते स्वानंदगामिनः । किंचिन्नियमसंयुक्ताः किं पुनर्विधिचारिणः ॥४४॥ इदं यः शृणुयान्नित्यं मार्गशीर्षे नरोत्तमः । पठेत् स सिद्धिसंयुक्तो भविष्यति निरंतरम् ॥४५॥ मार्गशीर्षव्रतस्यैव माहात्म्यं लेशतो मया । कथितं किं पुनः श्रोतुमिच्छसि मुनिसत्तम ॥४६॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते मार्गशीर्षमासमाहात्म्यसाधुचरितवर्णनं नाम चतुर्विंशोऽध्यायः ॥
[Header] खं. ८ अ. २५ पान ५५
[Main Text] ॥ श्रीगणेशाय नमः ॥ शौनक उवाच । माघमासव्रतं ब्रूहि गणेशप्रीतिवर्धनम् । न तृप्यामि कथां शृण्वन् गाणेशीं सर्वसिद्धि- दाम् ॥१॥ सूत उवाच । प्रह्लादस्य महातेजाः पुत्रोऽभूद्दैत्यपालकः । विरोचनः समाख्यातः तेजस्विनां शिरोमणिः ॥२॥ स शुक्रमुपसंगम्य प्रणम्य मुनिसत्तमम् । जगाद दुःखसंयुक्तो निःश्वस्यासुरनायकः ॥३॥ विरोचन उवाच । दैत्या देवार्दिताः स्वामिंस्तिष्ठंति भयसंकुलाः । पातालेषु ततो मह्यं शाधि तेषां हिताय भोः ॥४॥ शुक्र उवाच । आकृष्णेनेति मंत्रेण सूर्य- माराधय प्रभुम् । तेन त्वं दानवानां तु पालकः प्रभविष्यसि ॥५॥ तं प्रणम्य महाबाहुर्विरोचनः प्रतापवान् । कामं वनं समाश्रित्य तताप परमं तपः ॥६॥ ध्यात्वा रविं विशेषेणार्घ्यदानं तु चकार ह । उपस्थानपरो भूत्वा सूर्यमाराधयत् सदा ॥७॥ दिव्यवर्षसहस्रेण प्रसन्नः सविता ययौ । वरं दातुं महातेजा विरोचनाश्रमं मुने ॥८॥ तमागतं समालोक्य ननाम ह विरोचनः । पूज्य तुष्टाव देवेशमथर्वशिरसा प्रभुम् ॥९॥ तुष्टो भानुरुवाचेदं वाक्यं भक्तवरप्रदः । वरं ब्रूहि महादैत्य मनसीप्सितमुत्तमम् ॥१०॥ विरोचन उवाच । सर्वेभ्यो मरणं नाथ न भवेत् मे दिवाकर । चराचरमयेभ्यश्च राज्यं देहि त्रिलो- कजम् ॥११॥ विस्मितः सविता तस्मै ददौ स्वमुकुटं परम् । जगाद भावगंभीरो वचनं जगदीश्वरः ॥१२॥ भानुरुवाच । मस्तके धारयस्वैनं तेन मृत्युविवर्जितः । भविष्यसि यदाऽन्यस्य हस्तः शिरसि नो पतेत् ॥१३॥ परहस्तः स्पृशेदैत्य मस्तके चेन् मरि- ष्यसि । यदा मुकुटहीने ते सावधानस्ततो भव ॥१४॥ राज्यं त्रैलोक्यसंभूतं दत्तं तुभ्यं मयाऽधुना । यद्यदिच्छसि तत्तत्ते सफलं प्रभविष्यति ॥१५॥ एवमुक्त्वाऽन्तर्दधेऽसौ भानुः सर्वार्थकोविदः । विरोचनः प्रसन्नात्मा स्वगृहं प्रययौ ततः ॥१६॥ ततः शुक्रेण दैत्येशोऽभिषिक्तो राज्यकर्मणि । दैत्यैः समावृतः सोऽपि जिग्ये भूमिं महाबलः ॥१७॥ ततः शेषं विनिर्जित्य ययौ स ह्यमरावतीम् । देवेंद्रं वशमानाय्य वैकुंठमगमत्ततः ॥१८॥ विष्णोर्विरोचनस्यैव युद्धं बभूव दारुणम् । जित्वा विष्णुं महादैत्यो हर्षितः संबभूव ह ॥१९॥ विष्णुना संयुता देवाः पप्लुर्वनमाश्रिताः । दैत्याः स्वर्गभुजः सर्वे कृतास्तेन महात्मना ॥२०॥ ततः स दैत्यपान् स्थाप्य वैकुंठादिपदेषु च । आययौ नगरं स्वीयं दैत्यवृंदसमन्वितः ॥२१॥ ततः स दैत्यपैर्युक्तो भोगान्नानाविधान् परान् । बुभुजे पापसंनिष्ठः स्त्रीमांसादिषु लोलुपः ॥२२॥ ततो बहौ गते काले दैत्येशैः प्रेरितः खलः । कर्म वर्णाश्रमस्थं स खंडयामास भूतले ॥२३॥ आसुरं कर्म सर्वत्र कारयामास मानवैः । ततो हाहाकृतं सर्वैर्मुने त्रैलोक्यवासिभिः ॥२४॥ एवं बहौ गते काले देवाश्चोपोषणान्विताः । मुनिभिः केशवं सर्वे तुष्टुवुस्तद्वधाय तम् ॥२५॥
[खंड. ८ अ. २५] [पान ५६]
सोऽपि निःश्वस्य देवेशो विचारमकरोत् हृदि । नावाप दैत्यनाशार्थं स्वयं खिन्नो बभूव ह ॥२६॥ ततो विघ्नेश्वरं विष्णुः सस्मार दुःखमुक्तये । गणेशकृपया तत्राऽऽजगाम देवलो मुनिः ॥२७॥ तं प्रणम्यामराः सर्वे पप्रच्छुः कार्यसिद्धये । विरोचनवधार्थाय तानुवाच स हर्षितः ॥२८॥ समीपे ह्यधुना प्राप्तो मासो माघः सुपुण्यदः । तत्र स्नानसमायुक्ताः सेवध्वं गणनायकम् ॥२९॥ एवमुक्त्वा महायोगी देवलोऽकथयत् परम् । विधिं माघभवं सर्वं गणेशपंचकात्मकम् ॥३०॥ उपदिश्य व्रतं योगी ययौ स्वेच्छापरायणः । देवलः केशवाद्यांश्च गणेशभजने रताः ॥३१॥ माघमासव्रतं चक्रुर्गाणेशं सर्वसिद्धिदम् । यथाशास्त्रं विधानेन विघ्नेशमभजन् परम् ॥३२॥ संपूर्णे तद्व्रते तत्र खवाणी तानुवाच ह । विष्णो स्त्रीवेषगो भूत्वा जहि दैत्यं महा- बलम् ॥३३॥ गणेशं मनसि स्मृत्वा गच्छ तं दैत्यनायकम् । तवाधीनो महादैत्यो भविष्यति विरोचनः ॥३४॥ श्रुत्वाऽति- हर्षिता देवास्तुष्टुवुर्गणनायकम् । ततो विष्णुं महाभागाः प्रेरयामासुरादरात् ॥३५॥ गच्छ गच्छ महाविष्णो जहि दैत्यं महाबलम् । चराचरं सदा हर्षयुक्तं कुरु जनार्दन ॥३६॥ तथेति तानुवाचाथ विष्णुर्ध्यात्वा गजाननम् । स्त्रीरूपः प्रययौ तत्र यत्र दैत्याधिपोऽभवत् ॥३७॥ पुष्पवृक्षयुतायां स वाटिकायां स्थितोऽभवत् । तत्र नारायणं दैत्या ददृशुः स्त्रीस्वरू- पिणम् ॥३८॥ मोहितास्तां समागम्य पप्रच्छुर्विनयान्विताः । काऽसि कस्याऽसि रंभोरु किमर्थं त्वागता वद ॥३९॥ आज्ञां कुरु महाभागे वयं दासा न संशयः । तव पादस्य वामाक्षि पश्य सर्वान् शुचिस्मिते ॥४०॥ एवं तेषां वचः श्रुत्वा तान् जगाद सुरूपिणी । हावभावसमायुक्ता मोहिनी मोहकारिणी ॥४१॥ मोहिन्युवाच । अहं स्वेच्छामयी रम्या नावृता स्वेच्छया गता । मोहिनी सर्वविख्याता चरामि ह्यकुतोभया ॥४२॥ विश्वस्य नायकः कोऽपि भविष्यति महाबलः । वरिष्यामि पतिं दैत्या नान्यं गच्छत मा चिरम् ॥४३॥ तस्यास्तद्वचनं श्रुत्वा क्षुभिता दैत्यदानवाः । तेषु केचिद्ययुस्तत्र विरोचनं सदा- न्वितम् ॥४४॥ तं प्रणम्य महात्मानं जगुर्वृत्तांतमादरात् । श्रुत्वा सोऽपि महामोहयुक्तो बभूव तत्क्षणात् ॥४५॥ गणेशमायया भ्रांतः प्रययौ तामनिंदिताम् । विरोचनो महादैत्यः संवृतस्तां ददर्श ह ॥४६॥ समागतं महादैत्यं दृष्ट्वा विष्णुः प्रहर्षितः । सस्मार गणपं चित्ते ध्यात्वा तत्रैव संस्थितः ॥४७॥ ततो गणेश्वरः साक्षात्तयोर्हृदि व्यवस्थितः । बुद्धि- भेदं चकारासौ तादृशौ तौ बभूवतुः ॥४८॥ अथो विरोचनो देवीं दृष्ट्वा मोहयुतोऽभवत् । समीपे प्रययौ तस्या एकाकी हर्षसंयुतः ॥४९॥ तामुवाच महादैत्यो विनयेन समन्वितः । कृत्वा करपुटं विप्र महामायाप्रमोहितः ॥५०॥ विरोचन उवाच ।
खं. ८ अ. २६ पान ५७ ॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐ ब्रह्मविष्णुमहेशेंद्राद्या जिताः सचराचराः। मया ब्रह्मांडनाथेन तव दासेन भामिनि ॥५१॥ तवाज्ञावशगोऽहं तु भविष्यामि निरंतरम्। पत्नी भव मदीया त्वं गृहमागच्छ मे प्रिये ॥५२॥ एवं तस्य वचः श्रुत्वा तमुवाच सुमोहिनी। यदा वचो- ऽन्यथा मे त्वं करिष्यसि त्यजाम्यहम् ॥५३॥ तथेति तां समागृह्य ययौ स्वगृहमुत्तमम्। तन्निष्ठस्तत्परः सोऽपि बभूव समीपस्थितः ॥५४॥ नानाचातुर्यभावेन मोहयामास तं हरिः। मोहिनीरूपसंस्थश्च खलं यभितुमुद्यतम् ॥५५॥ तमुवाच महाभागा मोहिनी सर्वमोहिनी। अभ्यंगं कुरु नाथ त्वं मद्हस्तेन महामते ॥५६॥ पश्चात् स्नानं च कृत्वा तु भोजनं कुरु सुव्रत। ततो मां स्पृश दैत्येंद्र तवाधीनां निरंतरम् ॥५७॥ गणेशमायया भ्रांतस्तामुवाच तथेति सः। सुवासितेन तैलेना- भ्यंगं कर्तुं समुद्यतः ॥५८॥ प्रगृह्य मोहिनी तैलमुत्तार्य मुकुटं परम्। मस्तकात्तस्य हस्ताभ्यां मूर्ध्नि हृष्टा व्यमर्दयत् ॥५९॥ हस्तयोः स्पर्शमात्रेण शतचूर्णोऽभवत्तदा। मस्तकस्तस्य दैत्यस्य मोहिनी हर्षिताऽभवत् ॥६०॥ जय लंबोदरेत्युक्त्वाऽंतर्दधे सा तु मोहिनी। दैत्या मृतं समालोक्य विविशुस्ते रसातलम् ॥६१॥ देवर्षिभिस्ततो विष्णुः स्वलोकमगमच्च तैः। स्वस्वधर्म- युतान् लोकान् कारयामास माधवः ॥६२॥ एवं माघव्रतेनैव गानेशेन जनार्दनः। जघान दैत्यनाथं तं त्रैलोक्यजयकारिणम् ॥६३॥ इदं यः शृणुयात् जंतुः पठेद्वा गणपं स्मरन्। स सर्वसुखसंयुक्तो भविष्यति निरंतरम् ॥६४॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते माघमासमाहात्म्ये विरोचनवधो नाम पंचविंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ सूत उवाच। मौद्गलो ब्राह्मणः कश्चिन्नाम्ना विश्वसहोऽभवत् । गाणपत्यप्रियोऽत्यंतं सदा सत्संग- लालसः ॥१॥ स कदाचिन् महाभागो माघव्रतपरोऽभवत्। गणेशपंचकं नित्यमसेवद्भक्तिसंयुक्तः ॥२॥ प्रातः काले समुत्थाय स्नानार्थं चागतं द्विजम्। तत्रैका राक्षसी घोरा तं दृष्ट्वा भक्षितुं ययौ ॥३॥ विकरालमुखीं तां स दृष्ट्वा भयसम- न्वितः। गणेशेति समुच्चार्य जलं चिक्षेप दूर्वया ॥४॥ दूर्वायुक्तं जलं तस्या देहे लग्नं महामुने। तेन शुद्धा विश्वसहं ननामैव जगाद ह ॥५॥ राक्षस्युवाच। अहं त्वां शरणं प्राप्ता तारयस्व भवार्णवात्। तव दर्शनमात्रेण जाताऽहं शुद्धमानसा ॥६॥ ॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐ
खं. ८ अ. २६ पान ५८ तस्यास्तद्वचनं श्रुत्वा रुदतीं दुःखसंयुताम् । उवाच दयया युक्तो विश्वसहः प्रतापवान् ॥७॥ विश्वसह उवाच । काऽसि त्वं वद पापिष्ठे कर्म किं पापरूपकम् । कृतं त्वया महाघोरे किं रोदिषि सुदुःखिता ॥८॥ राक्षस्युवाच । पूर्वजन्मनि विप्रेश ब्राह्मण्यहं सुरूपिणी । पातिव्रत्यं परित्यज्य देहभोगयुताऽभवम् ॥९॥ यथेष्टं विषये सक्ताऽऽचरं पापपरायणा । मृता यामैर्हता तत्र यातनायां स्थिताऽभवम् ॥१०॥ भुक्त्वा दुःखमपारं तु कृता राक्षस्यहं पुनः । सदा क्षुधा समाविष्टा अभ्रमं यत्र तत्र ह ॥११॥ नीचोच्चमांसमत्यंतमभक्षं नित्यमेव च । तथापि मां पिपीडासौ जठराग्निः समुत्थितः ॥१२॥ अपारं भक्षयाम्येव तथापि क्षुधया युता । विप्रजन्मन् आरभ्य न तृप्ताऽहं कदाऽभवम् ॥१३॥ अधुना त्वां समालोक्य भक्षितुं सहसाऽऽगता । जलस्पर्शेन ते तात जातिस्मरा भवाम्यहम् ॥१४॥ तारयस्व महाभाग त्वं समर्थो न संशयः । नोचेद्देह- परित्यागं करिष्यामि त्वदग्रतः ॥१५॥ तस्यास्तद्वचनं श्रुत्वा विश्वसहो महामतिः । विचार्य दयया युक्तः तां जगाद प्रहर्षितः ॥१६॥ विश्वसह उवाच । गणेशनाममाहात्म्यं कथयितुं न शक्यते । मया श्रुतं पुराणेषु सत्यमेव तदंजसा ॥१७॥ दूर्वायुक्तजलेन त्वं कृता जातिस्मराऽधुना । अधुना तारणार्थं ते ददामि पुण्यमुत्तमम् ॥१८॥ माघस्नानभवं पुण्यमेकाहेन समुद्भवम् । ददामि त्वां महाभागे गच्छ त्वं नगरं निजम् ॥१९॥ एवमुक्त्वा ददौ तस्यै पुण्यं हस्तजलेन सः । एकस्नानभवं पूर्णं माघमासे स मौद्गलः ॥२०॥ ततो गणेश्वरस्यैव दूतास्तत्र समाययुः । तां विमाने विनिक्षिप्य ययुः स्वानंदकं पुरम् ॥२१॥ तत् दृष्ट्वा परमाश्चर्यं विश्वसहो महामुनिः । स्नानं कृत्वा ययौ स्थानमभजद्गणनायकम् ॥२२॥ समाप्ते तद्व्रते तत्राऽऽययौ विनायकः प्रभुः । वरं दातुं द्विजायैव मौद्गलाय विशेषतः ॥२३॥ समागतं गणाध्यक्षं दृष्ट्वोत्थाय नमाम तम् । संभ्रमेण समायुक्तो ननर्ते प्रेमविह्वलः ॥२४॥ तं तादृशं समालोक्य जगाद द्विरदाननः । वरान् वृणु महाभाग दास्यामि मनसीप्सितान् ॥२५॥ गणेशवचनं श्रुत्वा प्रतिबुद्धो महामुनिः । जगाद तं प्रपूज्यैव हर्षं संयम्य शौनक ॥२६॥ विश्वसह उवाच । धन्यं मे जन्मकर्मादि जनकौ श्रुतमेव च । धन्यं माघव्रतं मुख्यं येन दृष्टो गजाननः ॥२७॥ त्वां वेदाः सोपनिषदो न जानंति गणेश्वर । योगिनः शंकराद्याः स कथं त्वं स्वयमागतः ॥२८॥ कृतकृत्योऽहमत्यंतं त्वदंघ्रियुगदर्शनात् । किं वृणोमि गणेशान भक्तिं देहि दृढां त्वयि ॥२९॥ विघ्नेशाय नमस्तुभ्यं परात्परतमाय च । हेरंबाय गणेशाय गणानां पतये नमः ॥३०॥ मायाकारशरीराय मायिकशिरसे नमः । तयोर्योगे
सुदेहाय गजानन नमोऽस्तु ते ॥३१॥ राजसाय नमस्तुभ्यं सृष्टिकर्त्रे कृपालवे । सात्त्विकाय सदा सर्वपालकाय नमो नमः ॥३२॥ तामसाय जनानां तु संहर्त्रे कालरूपिणे । कर्मणे त्रिस্বরূপाय नमोऽहंकृतिधारिणे ॥३३॥ चालकाय महामोहदायिने शक्तिरूपिणे । गुणेशाय गुणानां वै सत्ताधाराय ते नमः ॥३४॥ बिंदुमात्रशरीराय सोऽहंकाराय देहिने । बोधाय प्रकृतिस्थाय खेलकाय नमो नमः ॥३५॥ विदेहाय परेशाय स्वानंदाय नमोऽस्तु ते । अयोगाय सुशांताय योगेशाय नमो नमः ॥३६॥ किं स्तौमि त्वां गणाध्यक्ष योगशांतिस्वरूपिणम् । तव दर्शनजेनैव बोधेन स्तुतवानहम् ॥३७॥ एवमुक्त्वा विश्वसहो ननामैव गजाननम् । तमुत्थाप्य गणाधीशस्तं जगाद हितं वचः ॥३८॥ श्रीगणेश उवाच । त्वया कृतं मदीयं तु स्तोत्रं सर्वप्रदं भवेत् । पठतां शृण्वतां नित्यं भक्तिवर्धनमुत्तमम् ॥३९॥ यं यमिच्छति तं तं तु दास्यामि स्तोत्रपाठतः । भुक्ति- मुक्तिप्रदं ब्रह्मदायकं श्रवणाद्भवेत् ॥४०॥ मयि भक्तिर्दृढा ते वै भविष्यति सुखप्रदा । यद्यदिच्छसि तत्तत्ते सफलं ह्यस्तु सर्वदा ॥४१॥ एवमुक्त्वा गणाधीशोऽन्तर्दधे तस्य पश्यतः । विश्वसहो गणेशस्य भजने तत्परोऽभवत् ॥४२॥ गाणपत्याग्रणीः सोऽपि बभूव मुद्गलोपमः । सदा माघव्रते संस्थो गाणेशपंचके रतः ॥४३॥ अन्यच्छृणु महच्चित्रं चरित्रं माससंभवम् । सर्वपापहरं विप्र श्रवणात् सुखदं भवेत् ॥४४॥ चांडालः कोऽपि नीलाख्यः श्रुत्वा गणपतेः कथाम् । माघस्नानपरो भूत्वा व्यवसायं चकार ह ॥४५॥ स्नात्वा प्रातस्ततः सोऽपि व्यवसायपरोऽभवत् । रात्रौ गीतं गणेशस्य गायति स्म निरंतरम् ॥४६॥ एवं गीतं माघमासे गणेशं देवमंदिरे । गत्वा गायन् पुनः सोऽपि कुटुंबभरणे रतः ॥४७॥ एकदा कार्यसंस्थः स माघमासे बभूव ह । याममात्रगतायां तु ययौ रात्रौ गणेश्वरम् ॥४८॥ प्रणम्य विघ्नहर्त्तारं गीतं गीत्वा स्वमंदिरम् । जगाम मार्गमध्यस्थं पिशाचाः पंच तं ययुः ॥४९॥ दृष्ट्वा क्रूरतरांस्तान् स सस्मार गणनायकम् । गणेशस्मृतिमात्रेण पिशाचाः स्तंभिता बभुः ॥५०॥ ततोऽतिविस्मिताः सर्वे पिशाचास्तमलोकयन् । अवलोकनपुण्येन शुद्धांतरा बभूविरे ॥५१॥ जगुस्तं नीलकं वाक्यं पिशाचा दुःखसंयुताः । तारयस्व महाभाग संसारान्नः पिशाचकान् ॥५२॥ तव दर्शनमात्रेण शुद्धा जाता वयं किल । तव गानफलं देहि तेन मुक्ता भवामहे ॥५३॥ तेषां तद्वचनं श्रुत्वा हर्षयुक्तो जगाद तान् । नीलः परमभावज्ञः पिशाचान् पापनिश्चयान् ॥५४॥ नील उवाच । गणेशगीतसंभूतं फलं वो न ददाम्यहम् । एकगीतफलेनैवोद्धरिष्यति चराचरम् ॥५५॥ अत एकस्य पादस्य फलं दास्यामि शाश्वतम् । तेन मुक्ता भवंतोऽपि भविष्यंति न संशयः ॥५६॥ एवमुक्त्वा ददौ
खं. ८ अ. २७ पान ६०
तेभ्य एकगीतस्य पादजम् । फलं तेनाऽभवन् सर्वे दिव्यदेहधरा मुने ॥५७॥ विमानेषु समारुह्य गताः स्वानंदके पुरे । चांडालो विस्मितो नीलः स्वगृहं प्रययौ ततः ॥५८॥ ततोऽधिकां गणेशस्य भक्तिं चक्रे महामुने । अंते गणेश्वरं सोऽपि ययौ कोटिकुलैः सह ॥५९॥ एवमेकात्मकेनैव नियमेन विशेषतः । माघमासे गणेशानं प्राप्नुवांस्तंजंतवः ॥६०॥ माघमासभवं चित्रं व्रतजं कथितं मया । माहात्म्यं श्रवणांन्नृभ्यः पठनाद्भुक्तिमुक्तिदम् ॥६१॥ धनधान्यप्रदं पुत्रपौत्रसौभाग्यवर्धनम् । नानारोगहरं सद्यः किं भूयः श्रोतुमिच्छसि ॥६२॥ ॥ ओमिति श्रीमदान्ते पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते माघमासमाहात्म्ये नानाजनोद्धरणं नाम षड्विंशतितमोऽध्यायः ॥ ❧❖❧ ॥ श्रीगणेशाय नमः ॥ शौनक उवाच । वैशाखस्यैव माहात्म्यं श्रावणस्य वद प्रभो । मलमासस्य चित्रं त्वं सूत सर्वार्थकोविद ॥१॥ सूत उवाच । वृत्रासुरो महादैत्यो जित्वा त्रैलोक्यमोजसा । कर्मखंडनमार्गेण देवान् हंतुं समुद्यतः ॥२॥ ततो देवगणाः सर्वे भयभीता बभूविरे । शरणं स्वगुरुं जग्मुरुपोषणपरायणाः ॥३॥ तानुवाच महातेजा बृहस्पतिरुदारधीः । सेंद्रान् वैशाखजं देवाः कुरुध्वं व्रतमुत्तमम् ॥४॥ तेन व्रतप्रभावेण समर्थः सुरनायकः । दधीच्यस्थिजवज्रेण हनिष्यति महासुरम् ॥५॥ सुरर्षयस्ततस्ते तं नमस्कृत्य ययुर्वनम् । गुप्तरूपेण वैशाखव्रतं चक्रुः प्रहर्षिताः ॥६॥ गाणेशपंचकं नित्यं सिषेविरे सुरर्षयः । गणेशस्मरणं ध्यानं चक्रुः परमभाविकाः ॥७॥ वैशाखी पूर्णिमायां ते खेमे सर्वसुखावहम् । ददृशुर्गणराजं वै मूर्तिस्थं पूजने रताः ॥८॥ मूर्तिस्तान् प्रत्युवाचेदं वाक्यं वाक्यविशारदा । इंद्रदेहं समाश्रित्य हनिष्यामि महासुरम् ॥९॥ अमरा मुनयः सर्वे प्रबुद्धा विस्मिता जगुः । परस्परं विचार्यैवं सर्वैकस्वप्रभावतः ॥१०॥ ततः क्रोधसमायुक्तो बभूव देवनायकः । देवान् गृह्य ययौ तत्र दधीचिं मुनिभिः पुरा ॥११॥ तं प्रार्थ्य वज्रमादाय तदस्थिजं महाबलः । देवैः समावृत्तो युद्धं वज्रेणैव चकार सः ॥१२॥ वृत्रेंद्रयोर्महद्युद्धं देवानां दैत्यपैः सह । बभूव दारुणं विप्र मया वक्तुं न शक्यते ॥१३॥ इंद्रो गणपतिं स्मृत्वा तं वज्रेण महासुरम् । जघान तं मृतं दृष्ट्वा दैत्याः पातालमाविशन् ॥१४॥ देवा हर्षसमायुक्ता ब्रह्मणा गणपं पुनः ।
[header] खं. ८ अ. २७ पान ६१ [/header]
बदरारण्यदेशस्थं समाजग्मुः प्रतुष्टुवुः ॥१५॥ देवर्षय ऊचुः। नमो नमस्ते परमात्मने वै सदा गणानां पतये गणात्मने । अनंतमायामयखेलकारिणे परेश ब्रह्मेश नमो नमस्ते ॥१६॥ नमस्तुभ्यं महाविघ्ननाशनाय महात्मने । विघ्नेशाय सुभक्तानां पालकाय नमो नमः ॥१७॥ हेरंबाय महादीनपालकाय च हुंढये । लंबोदराय देवाय देवदेवेश ते नमः ॥१८॥ अनाथानां प्रनाथाय नाथहीनाय ते नमः । नाथानां नाथरूपाय वक्रतुंडाय वै नमः ॥१९॥ परात्परतमायैव योगशांति- प्रदाय ते । योगानां पतये तुभ्यं नमो योगाय ते नमः ॥२०॥ सगुणाय नमस्तुभ्यं निर्गुणाय नमो नमः । सगुणनिर्गुणाभ्यां च वर्जिताय नमो नमः ॥२१॥ अनंतमायया देव चारिणे ते नमो नमः । मायाहीनाय मायायै मायिनां मोहकारिणे ॥२२॥ मूषकोपरि संस्थाय मूषकध्वजधारिणे । सिद्धिबुद्धिपते तुभ्यं स्वानंदस्थाय ते नमः ॥२३॥ किं स्तुमस्त्वां गणाध्यक्ष शांतिरूपं परात्परम् । वेदादयः समर्था न योगिनः शास्त्रसंयुताः ॥२४॥ एवमुक्त्वा प्रणेमुस्तं देवर्षयो महामुने । स्वस्वस्थानं ययुः सर्वे हर्षयुक्तेन चेतसा ॥२५॥ वर्णाश्रमयुता लोका बभूवुर्विगतज्वराः । सर्वे देवर्षयस्तत्र भागयुक्ता बभूविरे ॥२६॥ एवं वैशाखमासस्य व्रतेन देवनायकः । हत्वा वृत्रासुरं विप्र देवैः सुखयुतोऽभवत् ॥२७॥ अन्यच्च शृणु माहात्म्यं वैशाखव्रत- संभवम् । सर्वपापहरं दुःखनाशनं श्रवणान्नृणाम् ॥२८॥ गार्ग्यः कोऽपि द्विजो नाम्ना शिवदत्तो बभूव ह । स गणेशपरो नित्यमभजद्गणनायकम् ॥२९॥ स्वधर्मसंयुतो नित्यं भार्यापुत्रसमन्वितः । अग्निहोत्रपरो भूत्वाऽतिष्ठत् स्वतेजसा युतः ॥३०॥ तत्रागतं स योगींद्रं गर्गं सर्वार्थकोविदम् । तं प्रणम्य महाभागं शिवदत्तः पूपुज ह ॥३१॥ नित्यं सेवापरं दृष्ट्वा सुतं विनय- संयुतम् । मुक्तिमिच्छंतमत्यंतं गर्गः संहर्षितोऽभवत् ॥३२॥ उवाच शिवदत्तं स पुत्र वाञ्छसि किं वद । तत्करिष्यामि ते शीलसंतुष्टोऽहं न संशयः ॥३३॥ तस्य तद्वचनं श्रुत्वा शिवदत्तः कृतांजलिः । तं प्रणम्य महात्मानं जगाद सुखदं वचः ॥३४॥ शिवदत्त उवाच । गुह्यं वेदरहस्यं मे वद योगींद्रसत्तम । येनाहं कृतकृत्यश्च भविष्यामि सुसेवनात् ॥३५॥ गर्ग उवाच । लक्षचतुरशीतिषु योनिषु मानवात्मिका । योनिः श्रेष्ठा महाभाग सुज्ञो यदुद्भवो भवेत् ॥३६॥ धर्मार्थकाम- मोक्षाणां ब्रह्मभूयस्य सर्वदा । पात्रता तस्य संभूता तस्माच्छ्रेष्ठं न विद्यते ॥३७॥ तेषु ब्राह्मणवर्णस्थः श्रेष्ठः शास्त्रेषु संमतः । सर्वकर्माधिकारित्वात्तेषु शास्त्रज्ञ एव च ॥३८॥ तेषु स्वधर्मसंयुक्तोऽधिकस्तेषु तपोयुतः । तेषु ज्ञानी महाश्रेष्ठः सर्वत्रात्म- प्रदर्शनात् ॥३९॥ तेषु योगी विशेषेणाधिकस्तेषु महामते । गाणपतयोऽधिको योगी परतस्तस्मान्न विद्यते ॥४०॥ यत्र तत्राऽपि
खं. ८ अ. २८ पान ६२ वर्णस्थो गाणपत्योऽधिको मतः । योगी वेदादिषु प्रोक्तं पश्य संशयनाशनम् ॥४१॥ इदं वेदांतसंभूतं सारं ते संप्रकाशितम् । तस्माद्भज गणेशानं कृतकृत्यो भविष्यसि ॥४२॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते वैशाखमासमाहात्म्ये शिवदत्तबोधो नाम सप्तविंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ शिवदत्त उवाच । वद तात महायोगिन् सर्वसंशयनाशकृत् । योगिनः प्रवदंतीह नानामतयुतं वचः ॥१॥ केचिच्छिवं तथा विष्णुं रविं शक्तिं गणेश्वरम् । कर्मज्ञानं विदेहं चात्मानं श्रेष्ठं वदंति च ॥२॥ योगं सांख्य- मथाऽनंदमव्यक्तं बोधसंज्ञितम् । अन्नं प्राणं मनो योगिन्नित्यादिबहवो मताः ॥३॥ श्रेष्ठं गणेश्वरं त्वं तु वदसे सर्वभावतः । सर्वमान्यं वद स्वामिंस्त्वमस्माकं परा गतिः ॥४॥ गर्ग उवाच । अत्र ते वर्णयिष्यामि चेतिहासं पुरा भवम् । शृणुष्वैकमना वत्स सर्वमान्यं वचो महत् ॥५॥ एकदा नैमिषारण्ये यज्ञं चकार हर्षतः । वसिष्ठस्तत्र विप्रेंद्रा देवेंद्रश्च समाययुः ॥६॥ नानावर्णाश्रमप्रज्ञाः श्रेष्ठाः त्रैलोक्यवासिनः । आययुर्हर्षसंयुक्ता वसिष्ठस्य महोत्सवे ॥७॥ योगिनः शुक- मुख्याश्च नागाः शेषादयोऽपरे । सर्वे संमिलितास्तत्र कथां चक्रुः परस्परम् ॥८॥ तत्र वेदांतवादेषु कुशला अवदन् मिथः । नानामतसमायुक्ताः श्रेष्ठं स्वस्वमते स्थिरम् ॥९॥ नानावादपराः सर्वे निश्चयं नैव लेभिरे । ततः शुकं नमस्कृत्योचुः सर्वे शांतिधारकम् ॥१०॥ सर्वश्रेष्ठा ऊचुः । भगवन् सर्वसारज्ञ योगींद्रेषु महामते । श्रेष्ठस्त्वं शास्त्रवादेषु वद सारं हिताय नः ॥११॥ योगींद्रेषु शुकश्रेष्ठो विभूतिपदगो भवान् । त्वयोक्तं निश्चयं सर्वे भजिष्यामो विशेषतः ॥१२॥ तेषां तद्वचनं श्रुत्वा शुको गणपतिं स्मरन् । जगाद सर्वसारज्ञः सभायां सर्वसन्निधौ ॥१३॥ श्रीशुक उवाच । अन्नकोशमयं ब्रह्मान्नसंज्ञं राजसंमतम् । जागृत् स्थूलस्वरूपस्थं ज्ञातव्यं वेदवादतः ॥१४॥ प्राणो ब्रह्म तथा प्राणकोशानां तत् प्रकाश- कम् । मनः कोशमयं ब्रह्म मनोमयं प्रकीर्तितम् ॥१५॥ विज्ञानकोशगं ब्रह्म विज्ञानपदवाचकम् । त्रिकोशस्थं क्रमात् सूक्ष्मं स्वाप्नमंतरगं मतम् ॥१६॥ आनंदकोशसंस्थं यद्ब्रह्मानंदमयं बुधैः । सौषुप्तमुभयत्रस्थं समं वेदविचारतः ॥१७॥
खं. ८ अ. २८ पान ६३ चैतन्यं चेतनासंस्थं ब्रह्मात्मप्रत्ययात्मकम् । तुरीयमस्मिताख्यं तन्नाददेहप्रकाशकम् ॥१८॥ बिंदुमयं समाख्यातं ब्रह्मदेहात्मधारकम् । चतुर्णां देहभूतानां संयोगे त्वंपदाश्रितम् ॥१९॥ उत्पत्तिस्थितिनाव्युक्तं ब्रह्म चतुर्विधं मतम् । प्रचुराख्यं चतुर्देह्रैः तस्मात् त्वंपदसंज्ञितम् ॥२०॥ चतुर्विधेषु देहेषु स्मृतो देही सदात्मकः । उत्पत्तिस्थितिनाशेभ्यो हीनः सोऽहंपदाश्रयः ॥२१॥ बिंदुमोहयुतो नित्यं भ्रांत्या नानाऽवभासते । एक एव स्वयं वेदे कथितस्तत्पदाश्रयः ॥२२॥ देहाभिमानयुक्तः स जीवः सर्वैः प्रकथ्यते । देहाभिमानहीनश्चेत् परमात्मा स एव तु ॥२३॥ देहदेहिसमायोगे योगोऽसि पदसंज्ञकः । मनोवाणीविहीनत्वात् बोधरूपोऽयमुच्यते ॥२४॥ न बाह्यो नांतरस्थो यन्न समो नास्मितात्मकः । न चतुर्णां हि संयोगे बिंदुमात्रात्मकः स्मृतः ॥२५॥ न सोऽहंकाररूपस्थः सदा भेदविवर्जितः । अतः किं कथनीयं स्यात्तत्रैवं बोधरूपिणि ॥२६॥ बोधेन ज्ञायते सर्वं बोधस्य बोधकं च न । अतो बोधमयं ब्रह्मासिपदार्थं प्रकीर्तितम् ॥२७॥ प्रकृति- संगतो बोधो बोधः पुरुषधारकः । प्रकृतिपुंभवं सौख्यं बोधो जानाति सर्वदा ॥२८॥ प्रकृतिपुंभवं सौख्यं ज्ञात्वा सृष्ट्वा स्वयं प्रभुः । द्वैधं तत्र विशेषेण खेलत्यसिपदात्मकम् ॥२९॥ तेनायं स्वत उत्थानवाचकः परिकीर्तितः । बोधादुत्थान- भावश्च जायते सुविचक्षणाः ॥३०॥ ततः परं विबोधाख्यं ब्रह्म खेलविवर्जितम् । बोधनाशेन योगेन लभ्यते योगिभिर्मुदा ॥३१॥ बोधनाशे प्रसंख्यातुं कः समर्थो भवेन्नरः । अतः सांख्यपरं ब्रह्म संख्यानाशात् प्रकथ्यते ॥३२॥ देहदेहिमये नित्यं ब्रह्मणि द्वैतमास्थितम् । स्वस्वभावविहीनेन तस्मात् परं विबोधकम् ॥३३॥ विषयादिषु बोधेनोत्थानं संजायते नृणाम् । बोधनाशाद्विबोधाख्यमुत्थानवर्जितं मतम् ॥३४॥ ब्रह्मणि ब्रह्मभूतस्योत्थानं नैव प्रवर्तते । उत्थानवर्जितं सांख्यं योगिभिर्ब्रह्म वर्ण्यते ॥३५॥ यदोत्थानयुतं ब्रह्म वर्तते सर्ववित्तमाः । तदोत्थानविहीनत्वं मते भवति योगिनाम् ॥३६॥ अतः परत उत्थानसंयुक्तं सांख्यसंज्ञितम् । ब्रह्मोत्थानविहीनत्वादुत्थानं जायतेऽन्यतः ॥३७॥ तयोः परं स्वसंवेद्यं ब्रह्म संयोगधारकम् । सर्वेषां ब्रह्मणां विप्राः संयोगस्तत्र तन्मयः ॥३८॥ स्वस्वरूपात् परं ब्रह्म संयोगाख्यं न वर्तते । तदेवो- त्थानहीनं न नैवोत्थानविवर्जितम् ॥३९॥ तदेव पंचधा जातं ब्रह्म स्वानंदवाचकम् । असत् सत् समनेतिस्वानंदभेदैः प्रकथ्यते ॥४०॥ अन्नं ब्रह्मेति यत् प्रोक्तं तन्नाद्ब्रह्ममयमुच्यते । नाम तस्य न संदेहोऽनोपाधित्वाद्विचक्षणाः ॥४१॥ तस्यानु- भवरूपं यद्योगिनां हृदि जायते । तदेव रूपकं तस्य नामरूपात्मकं ततः ॥४२॥ समाधिना महायोगी तत्यक्त्वा प्राण-
खं. ८ अ. २८ पान ६४ ब्रह्मणि। गच्छति चेत्तदान्नस्य लयस्तत्र भवत् स्वयम् ॥४३॥ तद्वत् क्रमेण योगींद्राः स्वानंदस्था भवंति हि। त्यक्त्वा ब्रह्माणि सर्वाणि प्राणाद्यानि समाधिना ॥४४॥ तदा तेषां लयस्तत्र जायते ब्रह्मणां किल। अत उत्पत्तिनाशाभ्यां तानि युक्तानि योगिनः ॥४५॥ उत्पत्तिनाशसंयुक्तमसद्रूपं प्रकथ्यते। अतो सन्मूलकानि स्युर्ब्रह्माणि स्वस्वमोहतः ॥४६॥ बोधसांख्यात्मके यस्माज्जायते स्वस्वरूपतः। तन्नांते योगभावेन गच्छतो लयमंजसा ॥४७॥ अतोऽसद्रूपस्वानंदो नानाब्रह्मसु संस्थितः। सा शक्तिर्वेदवादेषु शाक्तं ब्रह्म तदुच्यते ॥४८॥ असति जीवनं यच्च सदा खंडमयं परम्। सद्रूपं स्वस्वरूपं तदात्मा भानुः प्रकथ्यते ॥४९॥ तयोः स्रष्टा समः साक्षात् स्वानंदः परिकीर्तितः। विष्णुः स तत् प्रवेशात्तु ब्रह्म वेदे प्रकथ्यते ॥५०॥ त्रयाणां नेति कर्ता स्वस्वाधीनोऽव्यत्तकः शिवः। चतुर्णां मंत्रसंयोगे स्वानंदः पूर्ण उच्यते ॥५१॥ चतुर्विधं प्रसृष्टं तु स्थापितं संहृतं पुरा। स्वानंदेन सदा ब्रह्म तस्मात्तन् मायया युतम् ॥५२॥ ब्रह्मणां जगतां तस्माद्भावस्तेन प्रकथ्यते। भवप्रत्ययसंज्ञं तद्ब्रह्म यत् स्वस्वरूपकम् ॥५३॥ समाधिसंज्ञितं ब्रह्मान्वयात् सर्वत्र कीर्तितम्। भवप्रत्यय- योगस्थं स्वस्वरूपं महौजसः ॥५४॥ ततः परमयोगाख्यं ब्रह्म मायाविवर्जितम्। मायया वर्णनं सर्वं जायते तद्विवर्जितम् ॥५५॥ मायया जगतामत्र ब्रह्मणां खेल उच्यते। तेषां संयोगभावश्चायोगे किं तैः प्रकथ्यते ॥५६॥ यद्युत्थानयुतं ब्रह्म तदा बोधमयं भवेत्। उत्थानवर्जितं चैतद्भवेत् सांख्यविबोधगम् ॥५७॥ समाधिसंज्ञं यदि तत्तदा स्वानंद उच्यते। स्वस्य प्रवेशनाशाद् वै किमयोगे वदत्ययम् ॥५८॥ ब्रह्म ब्रह्मणि संस्थं तन्नागतं न गतं भवेत्। व्यतिरेकात्मयोगेन गतिर्ब्रह्मणि योगिनाम् ॥५९॥ सदा निवृत्तिसंज्ञं तद्ब्रह्म मायाविवर्जितम्। स्वस्वरूपेण हीनत्वान्निवृत्तिर्लभ्यते ततः ॥६०॥ मायाना- शार्थमत्यंतमुपायो ह्ययमेकलः। उपायप्रत्ययाख्यं तद्ब्रह्मायोगात्मकं परम् ॥६१॥ अयोगात् परं ब्रह्म योगाख्यं शांति- दायकम्। संयोगायोगयोर्योगे लभ्यते योगिनायकैः ॥६२॥ तदेव गणराजश्च ब्रह्मणस्पतिवाचकः। ब्रह्मणां ब्रह्मरूपः स शांत्या योगेन लभ्यते ॥६३॥ संयोगे गणराजस्तु गकाराक्षरगो मतः। अयोगे स णकाराख्यस्तयोः पतिः प्रकथ्यते ॥६४॥ इदं वेदांतसारं यत् कथितं योगमार्गतः। तं भजध्वं महाभागा यदि शांतिं समिच्छथ ॥६५॥ गर्ग उवाच। एवमुक्त्वा शुको योगी तूष्णीं भावेन संस्थितः। सर्वे विस्मितचित्तास्तं साधु साध्विति चाब्रुवन् ॥६६॥ निःसंशयाः कृतास्तेन त्यक्त्वा स्वस्वमतं ततः। गणेशभजने सक्ता वयं पुत्र महामते ॥६७॥ क्रमेण शांतिमापन्ना गाणपा अभवंश्च ते। गता गणेश्वरं