मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 861, कुल 1023 में से
संदर्भ में पढ़ेंसिद्धिपतिः पातु बुद्धीशोऽधः स्थितं सदा । सर्वांगेषु मयूरेशः पातु मां भक्तिलालसः ॥५२॥ यत्र तत्र स्थितं मां तु सदा रक्षतु योगपः । परशुपाशसंयुक्तो वरदाभयधारकः ॥५३॥ इदं गणपतेः प्रोक्तं वज्रपंजरकं परम् । धारयस्व महादेव विजयी त्वं भविष्यसि ॥५४॥ य इदं पंजरं धृत्वा यत्र कुत्र स्थितो भवेत् । न तस्य जायते कापि भयं नानास्वभावजम् ॥५५॥ यः पठेत् पंजरं नित्यं स ईप्सितमवाप्नुयात् । वज्रसारतनुर्भूत्वा चरेत् सर्वत्र मानवः ॥५६॥ त्रिकालं यः पठेन्नित्यं स गणेश इवापरः । निर्विघ्नः सर्वकार्येषु ब्रह्मभूतो भवेन्नरः ॥५७॥ यः शृणोति गणेशस्य पंजरं वज्रसंज्ञकम् । आरोग्यादिसमायुक्तो भवते गणपप्रियः ॥५८॥ धनं धान्यं पशून् विद्यामायुष्यं पुत्रपौत्रकम् । सर्वसंपत्समायुक्तमैश्वर्यं पठनाल्लभेत ॥५९॥ न भयं तस्य वज्रात्तु चक्राच्छूलाद्भवेत् कदा । शंकरादेर्महादेव पठनादस्य नित्यशः ॥६०॥ यं यं चिंतयते मर्त्यस्तं तं प्राप्नोति शाश्वतम् । पठनादस्य विघ्नेश पंजरस्य निरंतरम् ॥६१॥ लक्षावृत्तिभिरेवं स सिद्धपंजरको भवेत् । स्तंभयेदपि सूर्यं तु ब्रह्मांडं वशमा- नयेत् ॥६२॥ एवमुक्त्वा गणेशानोऽतर्दधे मुनिसत्तम । शिवो देवादिभिर्युक्तो हर्षितः संबभूव ह ॥६३॥ लक्षावृत्तिं चकाराऽसौ यथाविधि परायणः । सिद्धपंजरको भूत्वा ययावंधकदैत्यपम् ॥६४॥ गणेशं मनसा ध्यात्वा कृत्वा युद्धं सुदारुणम् । त्रिशूलेनांधकं सोऽपि विव्याध गर्वसंयुक्तम् ॥६५॥ एवमंधकदैत्येशं जित्वा शंभुः प्रतापवान् । देवान् संस्थापयामास स्वस्थानेषु सुनिर्भयान् ॥६६॥ विश्वं स्वधर्मसंयुक्तं चकार शंकरः स्वयम् । मार्गशीर्षव्रतेनैव पंजरेण समन्वितः ॥६७॥ इदमंधकनाशाख्यं चरितं यः शृणोति वा । पठेद्वा स लभेत् प्रीतिं गणेशे सर्वसिद्धये ॥६८॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते मार्गशीर्षमासमाहात्म्ये वज्रपंजरकथनं नाम त्रयोविंशोऽध्यायः ॥
❧
॥ श्रीगणेशाय नमः ॥ सूत उवाच । भारद्वाजो द्विजः कश्चिन्नाम्ना साधुरिति स्मृतः । गणेशभजने प्रीतिसंयुक्तोऽभू- न्निरंतरम् ॥१॥ जगाम मुनिमुख्यं स एकदा भक्तिसंयुतः । भरद्वाजं प्रणम्यादौ पप्रच्छ विनयान्वितः ॥२॥ साधुरुवाच । गणेश- प्राप्तये स्वामिन् वदोपायं सुसिद्धिदम् । येनात्मानं गणाधीशो दर्शयेन् मे महामुने ॥३॥ भरद्वाज उवाच । मार्गशीर्षव्रतं