मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 860, कुल 1023 में से
संदर्भ में पढ़ेंकिं स्तौमि त्वां गणेशान ब्रह्मणस्पतिरूपिणम्। योगिनो वेदवेदांताः शांतिं यत्र भजंति च ॥२७॥ धन्योऽहं देवपैर्देवै- र्मुनिभिर्गणनायक। दर्शनात्तेऽद्य पादस्य परात्परतरस्य च ॥२८॥ सामर्थ्यं देहि विघ्नेश ज्ञानरूपं त्वयि स्थितम्। आज्ञानां- धकनाशार्थं भक्तिं तेऽव्यभिचारिणीम् ॥२९॥ एवमुक्त्वा ननर्ताऽसौ महादेवः सुरर्षिभिः। तं जगाद गणाधीशो भक्तं भक्तजनप्रियः ॥३०॥ श्रीगणेश उवाच। वज्रपंजरकं मे त्वं गृह्ण दैत्येंद्रसत्तमम्। जहि ज्ञानमयं शंभो विजयी सर्वदा भव ॥३१॥ भक्तिं मदीयपादे त्वं लभसेऽनन्यवृत्तिजाम्। यद्यदिच्छसि तत्तत्ते सफलं तु भविष्यति ॥३२॥ त्वया कृतमिदं स्तोत्रं मदीयं यः पठेन्नरः। शृणुयात् स लभेत् सर्वं वाञ्छितं सर्वदा शिव ॥३३॥ भुक्तिं मुक्तिं पुत्रपौत्रधनधान्यादिकं लभेत्। भक्तिं मे ब्रह्मभूतत्वं श्रवणान्नात्र संशयः ॥३४॥ सूत उवाच। एवं गणेशवाक्यं स श्रुत्वा हर्षसमन्वितः। शिवः प्रणम्य तं वाक्यं जगाद भक्तिलालसः ॥३५॥ श्रीशिव उवाच। वज्रपंजरकं नाथ ब्रूहि मे गणप्रियम्। ज्ञानमयं महांधस्य नाशकं सुखदायकम् ॥३६॥ श्रीगणेश उवाच। आदौ नित्यविधिं कृत्वा पूजयित्वा गजाननम्। वज्रपंजरकं ग्राह्यं सर्वाज्ञानविनाशनम् ॥३७॥ त्रिनेत्रं गजास्यं चतुर्बाहुधारं परश्वादिशस्त्रैर्युतं भालचंद्रम्। नराकारदेहं सदा योगशांतं गणेशं भजे सर्ववंद्यं परेशम् ॥३८॥ एवं ध्यात्वा गणेशानं मानसैरुपचारकैः। पूजयेत्तं नमस्कृत्य धारयेद्वज्रपंजरम् ॥३९॥ बिंदुरूपो वक्रतुंडो रक्षतु मे हृदि स्थितः। देहांश्चतुर्विधांस्तत्वांस्तत्वाधारः सनातनः ॥४०॥ देहमोहयुतं ह्येकदंतः सोऽहं स्वरूपधृक्। देहिनं मां विशेषेण रक्षतु श्रमनाशकः ॥४१॥ महोदरस्तथा देवो नानाबोधान् प्रतापवान्। सदा रक्षतु मे बोधानंदसंस्थो ह्यहर्निशम् ॥४२॥ सांख्यान् रक्षतु सांख्येशो गजाननः सुसिद्धिदः। असत्येषु स्थितं मां स लंबोदरश्च रक्षतु ॥४३॥ सत्सु स्थितं सुमोहेन विकटो मां परात्परः। रक्षतु भक्तवात्सल्यात् सदैकामृतधारकः ॥४४॥ आनंदेषु स्थितं नित्यं मां रक्षतु समात्मकः। विघ्न- राजो महाविघ्नैर्नानाखेलकरः प्रभुः ॥४५॥ अव्यक्तेषु स्थितं नित्यं धूम्रवर्णस्वरूपधृक्। मां रक्षतु सुखाकारः सहजः सर्वपूजितः ॥४६॥ स्वसंवेद्येषु संस्थं मां गणेशः स्वस्वरूपधृक्। रक्षतु योगभावेन संस्थितो भवनायकः ॥४७॥ अयोगेषु स्थितं नित्यं मां रक्षतु गणेश्वरः। निवृत्तिरूपधृक् साक्षादसमाधिसुखे रतः ॥४८॥ योगशांतिधरो मां तु रक्षतु योगसंस्थितम्। गणाधीशः प्रसन्नात्मा सिद्धिबुद्धिसमन्वितः ॥४९॥ पुरो मां गजकर्णश्च रक्षतु विघ्नहारकः। वाह्यां याम्यां च नैरृत्यां चिंतामणिर्वरप्रदः ॥५०॥ रक्षतु पश्चिमे ढुण्ढिर्हेरंबो वायुदिक् स्थितम्। विनायकश्चोत्तरे तु प्रमोदश्चेशदिक् स्थितम् ॥५१॥ ऊर्ध्वं