मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 862, कुल 1023 में से
संदर्भ में पढ़ेंखं. ८ अ. २४ पान ५३ पुत्र कुरु शीघ्रं समागतम् । तेन त्वं गणनाथस्य प्रियोऽत्यंतं भविष्यसि ॥४॥ एवमुक्त्वा भरद्वाजो कथयामास भावतः । विधियुक्तं व्रतं पूर्णं गणेशपंचकैर्युतम् ॥५॥ साधुस्तं नम्य तत्रस्थश्चकार व्रतमुत्तमम् । उपोषणपरो भूत्वा तोषयामास विघ्नपम् ॥६॥ समाप्तिसंभवे तत्र दिवसे गणनायकः । द्विजस्वरूपधरो भूत्वा ययौ तस्याश्रमं शुभम् ॥७॥ उवाच तं महाभागं पूजांते मुनिमुख्यकम् । भोजनं देहि मे विप्र तृप्तिकारकमुत्तमम् ॥८॥ तथेति तं प्रणम्यादौ पूपुज भक्तिसंयुतः । भोजया- मास भक्त्या स नानारसयुतान्नकैः ॥९॥ स भुक्त्वा सकलान्नं तमुवाच क्षुधितो भृशम् । देहि तृप्तिकरं भक्ष्यं व्रजामि विमुखो न चेत् ॥१०॥ श्रुत्वाऽतिविस्मयाविष्टो विचारमकरोद् हृदि । शतप्रस्थमितं चान्नं भक्षितं मे द्विजेन ह ॥११॥ तथापि तृप्तिहीनोऽयं स्थितः कुर्वे किमप्यहो । स्वयं मां छलतुं यातो गणेशो द्विजस्वरूपधृक् ॥१२॥ पुराणेषु महाविप्रैः कथितं तृप्तिकारकम् । गणेशस्यैकदूर्वाया भक्षणं नात्र संशयः ॥१३॥ अत एनं करिष्यामि तृप्तं दूर्वासमन्वितः । एवं विचार्य साधुः स दूर्वां चिक्षेप चांधसि ॥१४॥ गणेशं हृदि संचिंत्य पायसं गृह्य सत्वरः । दूर्वया संयुतं तस्मै ददावन्नं सुभक्तितः ॥१५॥ तृप्तो द्विजः प्रसन्नात्मा तमुवाच सुहर्षितः । ज्ञातं भक्तिरहस्यं तु गणेशस्य त्वया मुने ॥१६॥ तेनाऽहं तृप्तिसंयुक्तः संशयो न कृतस्त्वया । वरं ब्रूहि महाभाग दास्यामि विनयाच्च ते ॥१७॥ साधुरुवाच । यदि त्वं वरदो मेऽसि तदात्मानं प्रदर्शय । गणेशस्त्वं न संदेहो मम भाग्यात् समागतः ॥१८॥ तस्य तद्वचनं श्रुत्वा ब्राह्मणो गणपोऽभवत् । तं दृष्ट्वा हर्षितोऽत्यंतं साधुः साधुगुणान्वितः ॥१९॥ प्रणम्य पूजयामास तुष्टाव स कृतांजलिः । गणेशभक्तिसंयुक्तः साश्रुनेत्रो महायशाः ॥२०॥ साधुरुवाच । हेरंबाय नमस्तुभ्यं त्रिनेत्राय परात्मने । अनाकाराय देवाय साकराय नमो नमः ॥२१॥ लंबोदराय वीराय शूर्पकर्णाय ढुंढये । अनादये परेशाय गणेशाय नमो नमः ॥२२॥ स्वानंदवासिने तुभ्यं भक्तभावस्वरूपिणे । भक्तेशाय सुभक्त्या वै संतुष्टाय नमो नमः ॥२३॥ सर्वाकाराय सर्वादिपूज्याय परमात्मने । ब्रह्मेशाय गणानां ते पालकाय नमो नमः ॥२४॥ निराकाराय सर्वेषां पूज्याय परमप्रिय । विघ्नेशाय महाविघ्नहारिणे ते नमो नमः ॥२५॥ मात्रे पित्रे समस्तानां तत्त्वरूपाय ते नमः । ब्रह्मणे विष्णवे तुभ्यं शंकराय नमो नमः ॥२६॥ शक्तये सूर्यरूपायेंद्राय वायुस्वरूपिणे । चंद्राय वरुणायैव यमाय ते नमो नमः ॥२७॥ अग्नये नैर्ऋतायैव कुबेराय धराधर ।