भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 866, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 866

खं. ८ अ. २६ पान ५७ ॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐ ब्रह्मविष्णुमहेशेंद्राद्या जिताः सचराचराः। मया ब्रह्मांडनाथेन तव दासेन भामिनि ॥५१॥ तवाज्ञावशगोऽहं तु भविष्यामि निरंतरम्। पत्नी भव मदीया त्वं गृहमागच्छ मे प्रिये ॥५२॥ एवं तस्य वचः श्रुत्वा तमुवाच सुमोहिनी। यदा वचो- ऽन्यथा मे त्वं करिष्यसि त्यजाम्यहम् ॥५३॥ तथेति तां समागृह्य ययौ स्वगृहमुत्तमम्। तन्निष्ठस्तत्परः सोऽपि बभूव समीपस्थितः ॥५४॥ नानाचातुर्यभावेन मोहयामास तं हरिः। मोहिनीरूपसंस्थश्च खलं यभितुमुद्यतम् ॥५५॥ तमुवाच महाभागा मोहिनी सर्वमोहिनी। अभ्यंगं कुरु नाथ त्वं मद्हस्तेन महामते ॥५६॥ पश्चात् स्नानं च कृत्वा तु भोजनं कुरु सुव्रत। ततो मां स्पृश दैत्येंद्र तवाधीनां निरंतरम् ॥५७॥ गणेशमायया भ्रांतस्तामुवाच तथेति सः। सुवासितेन तैलेना- भ्यंगं कर्तुं समुद्यतः ॥५८॥ प्रगृह्य मोहिनी तैलमुत्तार्य मुकुटं परम्। मस्तकात्तस्य हस्ताभ्यां मूर्ध्नि हृष्टा व्यमर्दयत् ॥५९॥ हस्तयोः स्पर्शमात्रेण शतचूर्णोऽभवत्तदा। मस्तकस्तस्य दैत्यस्य मोहिनी हर्षिताऽभवत् ॥६०॥ जय लंबोदरेत्युक्त्वाऽंतर्दधे सा तु मोहिनी। दैत्या मृतं समालोक्य विविशुस्ते रसातलम् ॥६१॥ देवर्षिभिस्ततो विष्णुः स्वलोकमगमच्च तैः। स्वस्वधर्म- युतान् लोकान् कारयामास माधवः ॥६२॥ एवं माघव्रतेनैव गानेशेन जनार्दनः। जघान दैत्यनाथं तं त्रैलोक्यजयकारिणम् ॥६३॥ इदं यः शृणुयात् जंतुः पठेद्वा गणपं स्मरन्। स सर्वसुखसंयुक्तो भविष्यति निरंतरम् ॥६४॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते माघमासमाहात्म्ये विरोचनवधो नाम पंचविंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ सूत उवाच। मौद्गलो ब्राह्मणः कश्चिन्नाम्ना विश्वसहोऽभवत् । गाणपत्यप्रियोऽत्यंतं सदा सत्संग- लालसः ॥१॥ स कदाचिन् महाभागो माघव्रतपरोऽभवत्। गणेशपंचकं नित्यमसेवद्भक्तिसंयुक्तः ॥२॥ प्रातः काले समुत्थाय स्नानार्थं चागतं द्विजम्। तत्रैका राक्षसी घोरा तं दृष्ट्वा भक्षितुं ययौ ॥३॥ विकरालमुखीं तां स दृष्ट्वा भयसम- न्वितः। गणेशेति समुच्चार्य जलं चिक्षेप दूर्वया ॥४॥ दूर्वायुक्तं जलं तस्या देहे लग्नं महामुने। तेन शुद्धा विश्वसहं ननामैव जगाद ह ॥५॥ राक्षस्युवाच। अहं त्वां शरणं प्राप्ता तारयस्व भवार्णवात्। तव दर्शनमात्रेण जाताऽहं शुद्धमानसा ॥६॥ ॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐ