भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 867, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 867

खं. ८ अ. २६ पान ५८ तस्यास्तद्वचनं श्रुत्वा रुदतीं दुःखसंयुताम् । उवाच दयया युक्तो विश्वसहः प्रतापवान् ॥७॥ विश्वसह उवाच । काऽसि त्वं वद पापिष्ठे कर्म किं पापरूपकम् । कृतं त्वया महाघोरे किं रोदिषि सुदुःखिता ॥८॥ राक्षस्युवाच । पूर्वजन्मनि विप्रेश ब्राह्मण्यहं सुरूपिणी । पातिव्रत्यं परित्यज्य देहभोगयुताऽभवम् ॥९॥ यथेष्टं विषये सक्ताऽऽचरं पापपरायणा । मृता यामैर्हता तत्र यातनायां स्थिताऽभवम् ॥१०॥ भुक्त्वा दुःखमपारं तु कृता राक्षस्यहं पुनः । सदा क्षुधा समाविष्टा अभ्रमं यत्र तत्र ह ॥११॥ नीचोच्चमांसमत्यंतमभक्षं नित्यमेव च । तथापि मां पिपीडासौ जठराग्निः समुत्थितः ॥१२॥ अपारं भक्षयाम्येव तथापि क्षुधया युता । विप्रजन्मन् आरभ्य न तृप्ताऽहं कदाऽभवम् ॥१३॥ अधुना त्वां समालोक्य भक्षितुं सहसाऽऽगता । जलस्पर्शेन ते तात जातिस्मरा भवाम्यहम् ॥१४॥ तारयस्व महाभाग त्वं समर्थो न संशयः । नोचेद्देह- परित्यागं करिष्यामि त्वदग्रतः ॥१५॥ तस्यास्तद्वचनं श्रुत्वा विश्वसहो महामतिः । विचार्य दयया युक्तः तां जगाद प्रहर्षितः ॥१६॥ विश्वसह उवाच । गणेशनाममाहात्म्यं कथयितुं न शक्यते । मया श्रुतं पुराणेषु सत्यमेव तदंजसा ॥१७॥ दूर्वायुक्तजलेन त्वं कृता जातिस्मराऽधुना । अधुना तारणार्थं ते ददामि पुण्यमुत्तमम् ॥१८॥ माघस्नानभवं पुण्यमेकाहेन समुद्भवम् । ददामि त्वां महाभागे गच्छ त्वं नगरं निजम् ॥१९॥ एवमुक्त्वा ददौ तस्यै पुण्यं हस्तजलेन सः । एकस्नानभवं पूर्णं माघमासे स मौद्गलः ॥२०॥ ततो गणेश्वरस्यैव दूतास्तत्र समाययुः । तां विमाने विनिक्षिप्य ययुः स्वानंदकं पुरम् ॥२१॥ तत् दृष्ट्वा परमाश्चर्यं विश्वसहो महामुनिः । स्नानं कृत्वा ययौ स्थानमभजद्गणनायकम् ॥२२॥ समाप्ते तद्व्रते तत्राऽऽययौ विनायकः प्रभुः । वरं दातुं द्विजायैव मौद्गलाय विशेषतः ॥२३॥ समागतं गणाध्यक्षं दृष्ट्वोत्थाय नमाम तम् । संभ्रमेण समायुक्तो ननर्ते प्रेमविह्वलः ॥२४॥ तं तादृशं समालोक्य जगाद द्विरदाननः । वरान् वृणु महाभाग दास्यामि मनसीप्सितान् ॥२५॥ गणेशवचनं श्रुत्वा प्रतिबुद्धो महामुनिः । जगाद तं प्रपूज्यैव हर्षं संयम्य शौनक ॥२६॥ विश्वसह उवाच । धन्यं मे जन्मकर्मादि जनकौ श्रुतमेव च । धन्यं माघव्रतं मुख्यं येन दृष्टो गजाननः ॥२७॥ त्वां वेदाः सोपनिषदो न जानंति गणेश्वर । योगिनः शंकराद्याः स कथं त्वं स्वयमागतः ॥२८॥ कृतकृत्योऽहमत्यंतं त्वदंघ्रियुगदर्शनात् । किं वृणोमि गणेशान भक्तिं देहि दृढां त्वयि ॥२९॥ विघ्नेशाय नमस्तुभ्यं परात्परतमाय च । हेरंबाय गणेशाय गणानां पतये नमः ॥३०॥ मायाकारशरीराय मायिकशिरसे नमः । तयोर्योगे

मुद्गल पुराण (अष्टावतार चरितम्) · पृष्ठ 867, कुल 1023 में से · BharatKosha