मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 868, कुल 1023 में से
संदर्भ में पढ़ेंसुदेहाय गजानन नमोऽस्तु ते ॥३१॥ राजसाय नमस्तुभ्यं सृष्टिकर्त्रे कृपालवे । सात्त्विकाय सदा सर्वपालकाय नमो नमः ॥३२॥ तामसाय जनानां तु संहर्त्रे कालरूपिणे । कर्मणे त्रिस্বরূপाय नमोऽहंकृतिधारिणे ॥३३॥ चालकाय महामोहदायिने शक्तिरूपिणे । गुणेशाय गुणानां वै सत्ताधाराय ते नमः ॥३४॥ बिंदुमात्रशरीराय सोऽहंकाराय देहिने । बोधाय प्रकृतिस्थाय खेलकाय नमो नमः ॥३५॥ विदेहाय परेशाय स्वानंदाय नमोऽस्तु ते । अयोगाय सुशांताय योगेशाय नमो नमः ॥३६॥ किं स्तौमि त्वां गणाध्यक्ष योगशांतिस्वरूपिणम् । तव दर्शनजेनैव बोधेन स्तुतवानहम् ॥३७॥ एवमुक्त्वा विश्वसहो ननामैव गजाननम् । तमुत्थाप्य गणाधीशस्तं जगाद हितं वचः ॥३८॥ श्रीगणेश उवाच । त्वया कृतं मदीयं तु स्तोत्रं सर्वप्रदं भवेत् । पठतां शृण्वतां नित्यं भक्तिवर्धनमुत्तमम् ॥३९॥ यं यमिच्छति तं तं तु दास्यामि स्तोत्रपाठतः । भुक्ति- मुक्तिप्रदं ब्रह्मदायकं श्रवणाद्भवेत् ॥४०॥ मयि भक्तिर्दृढा ते वै भविष्यति सुखप्रदा । यद्यदिच्छसि तत्तत्ते सफलं ह्यस्तु सर्वदा ॥४१॥ एवमुक्त्वा गणाधीशोऽन्तर्दधे तस्य पश्यतः । विश्वसहो गणेशस्य भजने तत्परोऽभवत् ॥४२॥ गाणपत्याग्रणीः सोऽपि बभूव मुद्गलोपमः । सदा माघव्रते संस्थो गाणेशपंचके रतः ॥४३॥ अन्यच्छृणु महच्चित्रं चरित्रं माससंभवम् । सर्वपापहरं विप्र श्रवणात् सुखदं भवेत् ॥४४॥ चांडालः कोऽपि नीलाख्यः श्रुत्वा गणपतेः कथाम् । माघस्नानपरो भूत्वा व्यवसायं चकार ह ॥४५॥ स्नात्वा प्रातस्ततः सोऽपि व्यवसायपरोऽभवत् । रात्रौ गीतं गणेशस्य गायति स्म निरंतरम् ॥४६॥ एवं गीतं माघमासे गणेशं देवमंदिरे । गत्वा गायन् पुनः सोऽपि कुटुंबभरणे रतः ॥४७॥ एकदा कार्यसंस्थः स माघमासे बभूव ह । याममात्रगतायां तु ययौ रात्रौ गणेश्वरम् ॥४८॥ प्रणम्य विघ्नहर्त्तारं गीतं गीत्वा स्वमंदिरम् । जगाम मार्गमध्यस्थं पिशाचाः पंच तं ययुः ॥४९॥ दृष्ट्वा क्रूरतरांस्तान् स सस्मार गणनायकम् । गणेशस्मृतिमात्रेण पिशाचाः स्तंभिता बभुः ॥५०॥ ततोऽतिविस्मिताः सर्वे पिशाचास्तमलोकयन् । अवलोकनपुण्येन शुद्धांतरा बभूविरे ॥५१॥ जगुस्तं नीलकं वाक्यं पिशाचा दुःखसंयुताः । तारयस्व महाभाग संसारान्नः पिशाचकान् ॥५२॥ तव दर्शनमात्रेण शुद्धा जाता वयं किल । तव गानफलं देहि तेन मुक्ता भवामहे ॥५३॥ तेषां तद्वचनं श्रुत्वा हर्षयुक्तो जगाद तान् । नीलः परमभावज्ञः पिशाचान् पापनिश्चयान् ॥५४॥ नील उवाच । गणेशगीतसंभूतं फलं वो न ददाम्यहम् । एकगीतफलेनैवोद्धरिष्यति चराचरम् ॥५५॥ अत एकस्य पादस्य फलं दास्यामि शाश्वतम् । तेन मुक्ता भवंतोऽपि भविष्यंति न संशयः ॥५६॥ एवमुक्त्वा ददौ