भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 869, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 869

खं. ८ अ. २७ पान ६०


तेभ्य एकगीतस्य पादजम् । फलं तेनाऽभवन् सर्वे दिव्यदेहधरा मुने ॥५७॥ विमानेषु समारुह्य गताः स्वानंदके पुरे । चांडालो विस्मितो नीलः स्वगृहं प्रययौ ततः ॥५८॥ ततोऽधिकां गणेशस्य भक्तिं चक्रे महामुने । अंते गणेश्वरं सोऽपि ययौ कोटिकुलैः सह ॥५९॥ एवमेकात्मकेनैव नियमेन विशेषतः । माघमासे गणेशानं प्राप्नुवांस्तंजंतवः ॥६०॥ माघमासभवं चित्रं व्रतजं कथितं मया । माहात्म्यं श्रवणांन्नृभ्यः पठनाद्भुक्तिमुक्तिदम् ॥६१॥ धनधान्यप्रदं पुत्रपौत्रसौभाग्यवर्धनम् । नानारोगहरं सद्यः किं भूयः श्रोतुमिच्छसि ॥६२॥ ॥ ओमिति श्रीमदान्ते पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते माघमासमाहात्म्ये नानाजनोद्धरणं नाम षड्विंशतितमोऽध्यायः ॥ ❧❧ ॥ श्रीगणेशाय नमः ॥ शौनक उवाच । वैशाखस्यैव माहात्म्यं श्रावणस्य वद प्रभो । मलमासस्य चित्रं त्वं सूत सर्वार्थकोविद ॥१॥ सूत उवाच । वृत्रासुरो महादैत्यो जित्वा त्रैलोक्यमोजसा । कर्मखंडनमार्गेण देवान् हंतुं समुद्यतः ॥२॥ ततो देवगणाः सर्वे भयभीता बभूविरे । शरणं स्वगुरुं जग्मुरुपोषणपरायणाः ॥३॥ तानुवाच महातेजा बृहस्पतिरुदारधीः । सेंद्रान् वैशाखजं देवाः कुरुध्वं व्रतमुत्तमम् ॥४॥ तेन व्रतप्रभावेण समर्थः सुरनायकः । दधीच्यस्थिजवज्रेण हनिष्यति महासुरम् ॥५॥ सुरर्षयस्ततस्ते तं नमस्कृत्य ययुर्वनम् । गुप्तरूपेण वैशाखव्रतं चक्रुः प्रहर्षिताः ॥६॥ गाणेशपंचकं नित्यं सिषेविरे सुरर्षयः । गणेशस्मरणं ध्यानं चक्रुः परमभाविकाः ॥७॥ वैशाखी पूर्णिमायां ते खेमे सर्वसुखावहम् । ददृशुर्गणराजं वै मूर्तिस्थं पूजने रताः ॥८॥ मूर्तिस्तान् प्रत्युवाचेदं वाक्यं वाक्यविशारदा । इंद्रदेहं समाश्रित्य हनिष्यामि महासुरम् ॥९॥ अमरा मुनयः सर्वे प्रबुद्धा विस्मिता जगुः । परस्परं विचार्यैवं सर्वैकस्वप्रभावतः ॥१०॥ ततः क्रोधसमायुक्तो बभूव देवनायकः । देवान् गृह्य ययौ तत्र दधीचिं मुनिभिः पुरा ॥११॥ तं प्रार्थ्य वज्रमादाय तदस्थिजं महाबलः । देवैः समावृत्तो युद्धं वज्रेणैव चकार सः ॥१२॥ वृत्रेंद्रयोर्महद्युद्धं देवानां दैत्यपैः सह । बभूव दारुणं विप्र मया वक्तुं न शक्यते ॥१३॥ इंद्रो गणपतिं स्मृत्वा तं वज्रेण महासुरम् । जघान तं मृतं दृष्ट्वा दैत्याः पातालमाविशन् ॥१४॥ देवा हर्षसमायुक्ता ब्रह्मणा गणपं पुनः ।