मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 870, कुल 1023 में से
संदर्भ में पढ़ें[header] खं. ८ अ. २७ पान ६१ [/header]
बदरारण्यदेशस्थं समाजग्मुः प्रतुष्टुवुः ॥१५॥ देवर्षय ऊचुः। नमो नमस्ते परमात्मने वै सदा गणानां पतये गणात्मने । अनंतमायामयखेलकारिणे परेश ब्रह्मेश नमो नमस्ते ॥१६॥ नमस्तुभ्यं महाविघ्ननाशनाय महात्मने । विघ्नेशाय सुभक्तानां पालकाय नमो नमः ॥१७॥ हेरंबाय महादीनपालकाय च हुंढये । लंबोदराय देवाय देवदेवेश ते नमः ॥१८॥ अनाथानां प्रनाथाय नाथहीनाय ते नमः । नाथानां नाथरूपाय वक्रतुंडाय वै नमः ॥१९॥ परात्परतमायैव योगशांति- प्रदाय ते । योगानां पतये तुभ्यं नमो योगाय ते नमः ॥२०॥ सगुणाय नमस्तुभ्यं निर्गुणाय नमो नमः । सगुणनिर्गुणाभ्यां च वर्जिताय नमो नमः ॥२१॥ अनंतमायया देव चारिणे ते नमो नमः । मायाहीनाय मायायै मायिनां मोहकारिणे ॥२२॥ मूषकोपरि संस्थाय मूषकध्वजधारिणे । सिद्धिबुद्धिपते तुभ्यं स्वानंदस्थाय ते नमः ॥२३॥ किं स्तुमस्त्वां गणाध्यक्ष शांतिरूपं परात्परम् । वेदादयः समर्था न योगिनः शास्त्रसंयुताः ॥२४॥ एवमुक्त्वा प्रणेमुस्तं देवर्षयो महामुने । स्वस्वस्थानं ययुः सर्वे हर्षयुक्तेन चेतसा ॥२५॥ वर्णाश्रमयुता लोका बभूवुर्विगतज्वराः । सर्वे देवर्षयस्तत्र भागयुक्ता बभूविरे ॥२६॥ एवं वैशाखमासस्य व्रतेन देवनायकः । हत्वा वृत्रासुरं विप्र देवैः सुखयुतोऽभवत् ॥२७॥ अन्यच्च शृणु माहात्म्यं वैशाखव्रत- संभवम् । सर्वपापहरं दुःखनाशनं श्रवणान्नृणाम् ॥२८॥ गार्ग्यः कोऽपि द्विजो नाम्ना शिवदत्तो बभूव ह । स गणेशपरो नित्यमभजद्गणनायकम् ॥२९॥ स्वधर्मसंयुतो नित्यं भार्यापुत्रसमन्वितः । अग्निहोत्रपरो भूत्वाऽतिष्ठत् स्वतेजसा युतः ॥३०॥ तत्रागतं स योगींद्रं गर्गं सर्वार्थकोविदम् । तं प्रणम्य महाभागं शिवदत्तः पूपुज ह ॥३१॥ नित्यं सेवापरं दृष्ट्वा सुतं विनय- संयुतम् । मुक्तिमिच्छंतमत्यंतं गर्गः संहर्षितोऽभवत् ॥३२॥ उवाच शिवदत्तं स पुत्र वाञ्छसि किं वद । तत्करिष्यामि ते शीलसंतुष्टोऽहं न संशयः ॥३३॥ तस्य तद्वचनं श्रुत्वा शिवदत्तः कृतांजलिः । तं प्रणम्य महात्मानं जगाद सुखदं वचः ॥३४॥ शिवदत्त उवाच । गुह्यं वेदरहस्यं मे वद योगींद्रसत्तम । येनाहं कृतकृत्यश्च भविष्यामि सुसेवनात् ॥३५॥ गर्ग उवाच । लक्षचतुरशीतिषु योनिषु मानवात्मिका । योनिः श्रेष्ठा महाभाग सुज्ञो यदुद्भवो भवेत् ॥३६॥ धर्मार्थकाम- मोक्षाणां ब्रह्मभूयस्य सर्वदा । पात्रता तस्य संभूता तस्माच्छ्रेष्ठं न विद्यते ॥३७॥ तेषु ब्राह्मणवर्णस्थः श्रेष्ठः शास्त्रेषु संमतः । सर्वकर्माधिकारित्वात्तेषु शास्त्रज्ञ एव च ॥३८॥ तेषु स्वधर्मसंयुक्तोऽधिकस्तेषु तपोयुतः । तेषु ज्ञानी महाश्रेष्ठः सर्वत्रात्म- प्रदर्शनात् ॥३९॥ तेषु योगी विशेषेणाधिकस्तेषु महामते । गाणपतयोऽधिको योगी परतस्तस्मान्न विद्यते ॥४०॥ यत्र तत्राऽपि