भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 871, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 871

खं. ८ अ. २८ पान ६२ वर्णस्थो गाणपत्योऽधिको मतः । योगी वेदादिषु प्रोक्तं पश्य संशयनाशनम् ॥४१॥ इदं वेदांतसंभूतं सारं ते संप्रकाशितम् । तस्माद्भज गणेशानं कृतकृत्यो भविष्यसि ॥४२॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते वैशाखमासमाहात्म्ये शिवदत्तबोधो नाम सप्तविंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ शिवदत्त उवाच । वद तात महायोगिन् सर्वसंशयनाशकृत् । योगिनः प्रवदंतीह नानामतयुतं वचः ॥१॥ केचिच्छिवं तथा विष्णुं रविं शक्तिं गणेश्वरम् । कर्मज्ञानं विदेहं चात्मानं श्रेष्ठं वदंति च ॥२॥ योगं सांख्य- मथाऽनंदमव्यक्तं बोधसंज्ञितम् । अन्नं प्राणं मनो योगिन्नित्यादिबहवो मताः ॥३॥ श्रेष्ठं गणेश्वरं त्वं तु वदसे सर्वभावतः । सर्वमान्यं वद स्वामिंस्त्वमस्माकं परा गतिः ॥४॥ गर्ग उवाच । अत्र ते वर्णयिष्यामि चेतिहासं पुरा भवम् । शृणुष्वैकमना वत्स सर्वमान्यं वचो महत् ॥५॥ एकदा नैमिषारण्ये यज्ञं चकार हर्षतः । वसिष्ठस्तत्र विप्रेंद्रा देवेंद्रश्च समाययुः ॥६॥ नानावर्णाश्रमप्रज्ञाः श्रेष्ठाः त्रैलोक्यवासिनः । आययुर्हर्षसंयुक्ता वसिष्ठस्य महोत्सवे ॥७॥ योगिनः शुक- मुख्याश्च नागाः शेषादयोऽपरे । सर्वे संमिलितास्तत्र कथां चक्रुः परस्परम् ॥८॥ तत्र वेदांतवादेषु कुशला अवदन् मिथः । नानामतसमायुक्ताः श्रेष्ठं स्वस्वमते स्थिरम् ॥९॥ नानावादपराः सर्वे निश्चयं नैव लेभिरे । ततः शुकं नमस्कृत्योचुः सर्वे शांतिधारकम् ॥१०॥ सर्वश्रेष्ठा ऊचुः । भगवन् सर्वसारज्ञ योगींद्रेषु महामते । श्रेष्ठस्त्वं शास्त्रवादेषु वद सारं हिताय नः ॥११॥ योगींद्रेषु शुकश्रेष्ठो विभूतिपदगो भवान् । त्वयोक्तं निश्चयं सर्वे भजिष्यामो विशेषतः ॥१२॥ तेषां तद्वचनं श्रुत्वा शुको गणपतिं स्मरन् । जगाद सर्वसारज्ञः सभायां सर्वसन्निधौ ॥१३॥ श्रीशुक उवाच । अन्नकोशमयं ब्रह्मान्नसंज्ञं राजसंमतम् । जागृत् स्थूलस्वरूपस्थं ज्ञातव्यं वेदवादतः ॥१४॥ प्राणो ब्रह्म तथा प्राणकोशानां तत् प्रकाश- कम् । मनः कोशमयं ब्रह्म मनोमयं प्रकीर्तितम् ॥१५॥ विज्ञानकोशगं ब्रह्म विज्ञानपदवाचकम् । त्रिकोशस्थं क्रमात् सूक्ष्मं स्वाप्नमंतरगं मतम् ॥१६॥ आनंदकोशसंस्थं यद्ब्रह्मानंदमयं बुधैः । सौषुप्तमुभयत्रस्थं समं वेदविचारतः ॥१७॥