मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 872, कुल 1023 में से
संदर्भ में पढ़ेंखं. ८ अ. २८ पान ६३ चैतन्यं चेतनासंस्थं ब्रह्मात्मप्रत्ययात्मकम् । तुरीयमस्मिताख्यं तन्नाददेहप्रकाशकम् ॥१८॥ बिंदुमयं समाख्यातं ब्रह्मदेहात्मधारकम् । चतुर्णां देहभूतानां संयोगे त्वंपदाश्रितम् ॥१९॥ उत्पत्तिस्थितिनाव्युक्तं ब्रह्म चतुर्विधं मतम् । प्रचुराख्यं चतुर्देह्रैः तस्मात् त्वंपदसंज्ञितम् ॥२०॥ चतुर्विधेषु देहेषु स्मृतो देही सदात्मकः । उत्पत्तिस्थितिनाशेभ्यो हीनः सोऽहंपदाश्रयः ॥२१॥ बिंदुमोहयुतो नित्यं भ्रांत्या नानाऽवभासते । एक एव स्वयं वेदे कथितस्तत्पदाश्रयः ॥२२॥ देहाभिमानयुक्तः स जीवः सर्वैः प्रकथ्यते । देहाभिमानहीनश्चेत् परमात्मा स एव तु ॥२३॥ देहदेहिसमायोगे योगोऽसि पदसंज्ञकः । मनोवाणीविहीनत्वात् बोधरूपोऽयमुच्यते ॥२४॥ न बाह्यो नांतरस्थो यन्न समो नास्मितात्मकः । न चतुर्णां हि संयोगे बिंदुमात्रात्मकः स्मृतः ॥२५॥ न सोऽहंकाररूपस्थः सदा भेदविवर्जितः । अतः किं कथनीयं स्यात्तत्रैवं बोधरूपिणि ॥२६॥ बोधेन ज्ञायते सर्वं बोधस्य बोधकं च न । अतो बोधमयं ब्रह्मासिपदार्थं प्रकीर्तितम् ॥२७॥ प्रकृति- संगतो बोधो बोधः पुरुषधारकः । प्रकृतिपुंभवं सौख्यं बोधो जानाति सर्वदा ॥२८॥ प्रकृतिपुंभवं सौख्यं ज्ञात्वा सृष्ट्वा स्वयं प्रभुः । द्वैधं तत्र विशेषेण खेलत्यसिपदात्मकम् ॥२९॥ तेनायं स्वत उत्थानवाचकः परिकीर्तितः । बोधादुत्थान- भावश्च जायते सुविचक्षणाः ॥३०॥ ततः परं विबोधाख्यं ब्रह्म खेलविवर्जितम् । बोधनाशेन योगेन लभ्यते योगिभिर्मुदा ॥३१॥ बोधनाशे प्रसंख्यातुं कः समर्थो भवेन्नरः । अतः सांख्यपरं ब्रह्म संख्यानाशात् प्रकथ्यते ॥३२॥ देहदेहिमये नित्यं ब्रह्मणि द्वैतमास्थितम् । स्वस्वभावविहीनेन तस्मात् परं विबोधकम् ॥३३॥ विषयादिषु बोधेनोत्थानं संजायते नृणाम् । बोधनाशाद्विबोधाख्यमुत्थानवर्जितं मतम् ॥३४॥ ब्रह्मणि ब्रह्मभूतस्योत्थानं नैव प्रवर्तते । उत्थानवर्जितं सांख्यं योगिभिर्ब्रह्म वर्ण्यते ॥३५॥ यदोत्थानयुतं ब्रह्म वर्तते सर्ववित्तमाः । तदोत्थानविहीनत्वं मते भवति योगिनाम् ॥३६॥ अतः परत उत्थानसंयुक्तं सांख्यसंज्ञितम् । ब्रह्मोत्थानविहीनत्वादुत्थानं जायतेऽन्यतः ॥३७॥ तयोः परं स्वसंवेद्यं ब्रह्म संयोगधारकम् । सर्वेषां ब्रह्मणां विप्राः संयोगस्तत्र तन्मयः ॥३८॥ स्वस्वरूपात् परं ब्रह्म संयोगाख्यं न वर्तते । तदेवो- त्थानहीनं न नैवोत्थानविवर्जितम् ॥३९॥ तदेव पंचधा जातं ब्रह्म स्वानंदवाचकम् । असत् सत् समनेतिस्वानंदभेदैः प्रकथ्यते ॥४०॥ अन्नं ब्रह्मेति यत् प्रोक्तं तन्नाद्ब्रह्ममयमुच्यते । नाम तस्य न संदेहोऽनोपाधित्वाद्विचक्षणाः ॥४१॥ तस्यानु- भवरूपं यद्योगिनां हृदि जायते । तदेव रूपकं तस्य नामरूपात्मकं ततः ॥४२॥ समाधिना महायोगी तत्यक्त्वा प्राण-