मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 857, कुल 1023 में से
संदर्भ में पढ़ेंखं. ८ अ. २१ | पान ४८ योगरूपाय हृदिस्थाय नमो नमः ॥६१॥ विघ्नेशाय महाविघ्नविघ्नदाय परात्मने । विघ्नहर्त्रे स्वभक्तानां सत्ताधाराय ते नमः ॥६२॥ अनादये महाकाल कालाय कालरूपिणे । अंते विहारयुक्तायादिनाथाय नमो नमः ॥६३॥ विनायकाय देवाय सर्वेषां नायकाय च । नायकेभ्यः पदादीनां दात्रे तुभ्यं नमो नमः ॥६४॥ लंबोदराय सर्वेषामुदरस्थाय ते नमः । अपारोदारभावाय ब्रह्मेशाय नमो नमः ॥६५॥ आदिमध्यांतहीनाय तदाकारस्वरूपिणे । स्वानंदपतये तुभ्यं खसंवेद्याय ते नमः ॥६६॥ सिद्धि- दात्रे सुभक्तेभ्यो दुष्टानां सिद्धिहारिणे । सिद्धिपते महासिद्धिरूपाय ते नमो नमः ॥६७॥ बुद्धिपते सुबुद्धीनां दात्रे साधु- जनप्रिय । दुर्बुद्धिदायिने तुभ्यं दुष्टेभ्यो वै नमो नमः ॥६८॥ संप्रज्ञातस्वरूपायथासंप्रज्ञातं महाशिरः । तयोर्योगे नराकार गजाकाराय ते नमः ॥६९॥ किं स्तौमि गणनाध त्वां सदा योगस्वरूपिणे । अतस्ते नमनं कृत्वा कृतकृत्यो भवाम्यहम् ॥७०॥ धन्योऽहं सर्वभूतेषु त्वां दृष्ट्वा गणनायकम् । कुलं शीलं यशो धन्यं जनकौ तप आश्रमः ॥७१॥ धन्यं व्रतं गणाधीश महत् कार्तिकमासगम् । तस्याचरणमात्रेण त्वं मे दृष्टिगतः प्रभो ॥७२॥ भक्तिं त्वदीयपादेषु देहि मे द्विरदानन । नान्यद्याचे भ्रमैर्युक्तं गाणपत्यपरायणः ॥७३॥ तस्य तद्वचनं श्रुत्वा गणेशस्तमुवाच ह । यद्यदिच्छसि तत्तत्ते सफलं प्रभवष्यिति ॥७४॥ गाणपत्यप्रियोऽत्यंतं भविष्यसि महामुने । भक्तो मदीयपादस्य सर्वमान्यो भविष्यसि ॥७५॥ त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् । भविष्यति नृणां विप्र पठतां शृण्वतां सदा ॥७६॥ एवमुक्त्वाऽन्तर्दधेऽसौ विघ्नेशः करुणानिधिः । सोमदत्तो महाभागो गौतमं प्रणनाम ह ॥७७॥ तदादि स मुनिः ख्यातो बभूव गणपप्रियः । योगी योगविदां श्रेष्ठः सर्ववेदार्थतत्त्ववित् ॥७८॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते धूम्रमहिमावर्णनं नाम एकविंशतितमोऽध्यायः ॥