मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 858, कुल 1023 में से
संदर्भ में पढ़ेंखं. ८ अ. २२ पान ४९ ॥ श्रीगणेशाय नमः ॥ सूत उवाच । कर्णाटे ब्राह्मणः कश्चिदत्रिगोत्रसमुद्भवः । नाम्ना सर्वप्रियः सोऽपि कार्तिकव्रतमाचरत् ॥१॥ प्रातः स्नानं स कृत्वा तु गणेशपूजने रतः । नियमेन समाविष्टो गाणपत्यप्रियोऽभवत् ॥२॥ तत्रैकः क्षत्रियः शुद्धः स्नानं कृत्वा शमीं पराम् । जलेनासिच्य भीमाख्यः प्रदक्षिणपरोऽभवत् ॥३॥ अन्यः कैवर्तकस्तत्र तथा मंदारकं मुने । पूज्य मेघप्रियः स्नात्वा प्रदक्षिणपरोऽभवत् ॥४॥ वैश्यो गवां पुष्पवाहः शुश्रूषायां रतोऽभवत् । स्नात्वा गणपतिं ध्यात्वा गोरूपधरमादरात् ॥५॥ शूद्रः श्यामलसंज्ञस्तु दीपदानं चकार ह । गणेशप्रीतये नित्यं स्नात्वा मासव्रते रतः ॥६॥ अन्यो वैश्यो महाबाहुर्नाम्ना स्नात्वा व्रते स्थितः । ब्राह्मणान् भोजयामास नित्यं भावपरायणः ॥७॥ कारुकः पद्मनामा वै स्नात्वा नित्यं नमाम ह । गणेशं भावसंयुक्तः कार्तिकव्रतसंस्थितः ॥८॥ शूद्रः कश्चिन्महीपालो नाम्ना गुणयुतोऽभवत् । तीर्थं कार्तिकमासे स जग्राह गणपस्य तु ॥९॥ एवं नाना जनास्तत्र गणेशप्रीतये मुने । स्नात्वा किंचित् स्वभावेनाभजंस्तं गणनायकम् ॥१०॥ रोगवंध्यादिदोषैस्ते मुक्ता जाता विशेषतः । समाप्ते व्रतमुख्ये तु धनधान्ययुता बभुः ॥११॥ अंते स्वानंदगाः सर्वे गणेशं नम्य तत्क्षणात् । ब्रह्मभूता बभूवुश्च कार्तिकव्रतपुण्यतः ॥१२॥ अतः कार्तिकमासस्थं व्रतं कार्यं विशेषतः । गणेशप्रीतये विप्र सर्वसिद्धिप्रदायकम् ॥१३॥ नियमेन समा भक्तिर्न भूता न भविष्यति । किंचिन्नियम- संयुक्तो गणेशं वशमानयेत् ॥१४॥ नियमेन कृतं किंचिद्गणेशप्रीतये नरैः । भवेत् कोटिगुणं विप्र सर्वसिद्धिप्रदायकम् ॥१५॥ कार्तिके स्नानमत्यंतं मुख्यं विघ्नेशसेवनम् । यथाशक्ति कृतं सर्वसिद्धिदं प्रभवष्यिति ॥१६॥ करोति यः कार्तिके चेत् पंचकं गणपप्रियम् । स गणेशप्रियोऽत्यंतं भवत्यत्र न संशयः ॥१७॥ दानं होमादिकं किंचित् कार्तिकेऽनंतपुण्यदम् । भवेत्तु गणनाधाय चार्पितं कर्मजं फलम् ॥१८॥ बहुनात्र किमुक्तेन कार्तिके नमनं सकृत् । गणेशाय कृतं नित्यं तदक्षयप्रदं भवेत् ॥१९॥ इदं कार्तिकमासस्य माहात्म्यं कथितं मया । गणेशलोकदं पुण्यं इह सौख्यप्रदं परम् ॥२०॥ यः शृणोति नरो भक्त्या पठते भावसयुतः । सोऽपि कामानवाप्यैव गाणपत्यप्रियो भवेत् ॥२१॥ अन्यदेवपरा ये वै कार्तिकव्रतसंस्थिताः । तेषां लोकसुखं सर्वमंते भुंजंति निश्चितम् ॥२२॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते कार्तिकमासमाहात्म्ये नानानियमनिरूपणं नाम द्वाविंशोऽध्यायः ॥