भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 856, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 856

खं. ८ अ. २१ पान ४७ पप्रच्छ विनतो भूत्वा भक्त्यर्थं योगिनां वरम् ॥३६॥ सोमदत्त उवाच । केनोपायेन विघ्नेशः सद्यो वै दृष्टिगो भवेत् । क्षणभंगुरदेहत्वात्तदुपायं वद प्रभो ॥३७॥ गौतम उवाच । समीपे कार्तिको मासः समायातो महामुने । व्रतं मासात्मकं कार्यं दर्शनार्थं महाप्रभोः ॥३८॥ एवमुक्त्वा विधिं तस्मै कथयित्वा ददौ परम् । स्थानं स्वस्याश्रमे सोऽपि तत्रारंभं चकार ह ॥३९॥ एकनिष्ठः स्वभावेन परं गाणेशपंचकम् । सेवयामास भक्त्या स कार्तिकव्रतसंयुतः ॥४०॥ उपोषणयुतस्तत्र ध्यात्वा हृदि गजाननम् । जजाप मंत्रराजं स षडक्षरं शुभप्रदम् ॥४१॥ तत्र चित्रं समभवत् समाप्तिसंभवे दिने । तच्छृणुष्व महाविप्र दृढनिश्चयदं भवेत् ॥४२॥ पूजायां संस्थितो विप्रः सोमदत्तो महायशाः । कार्तिकां पूर्णिमायां स एकासनविधौ रतः ॥४३॥ तत्र दूर्वाशमीमंदारपुष्पाणि स्थितानि तु । अकस्माद्ब्राह्मणः कश्चित्तानि गृह्य पपाल ह ॥४४॥ सोमदत्तः स्वयं तत्र मौनवानासने स्थितः । नोत्थितो नियमे संस्थः शुशोच गणपं स्मरन् ॥४५॥ ततस्तेन विचारेण तदर्थं ज्ञातमद्भुतम् । लोमानि देहसंस्थानि सर्वौषधिमयानि च ॥४६॥ अतो लोमानि सर्वाणि त्वचायुक्तानि भावतः । दास्यामि गणनाथाय दूर्वा शम्यादिकारणात् ॥४७॥ ततः शस्त्रं समागृह्य शिरश्छेत्तुं समुद्यतः । शिखायुक्तं गणेशाय दूर्वार्थं स्वस्य चार्पयन् ॥४८॥ स्वकंठे शस्त्रघातं स चकार गणनायकः । तावत् समाययौ तत्र ब्राह्मणस्य स्वरूपधृक् ॥४९॥ शमीमंदार- दूर्वादीन् गृह्य तस्मै ददौ पुनः । उवाच पूजय त्वं तु गणेशं हठतत्पर ॥५०॥ दृष्ट्वाऽतिहर्षसंयुक्तः सोमदत्तो महायशाः । नियमं स्वं चकारैव तमुवाच प्रणम्य तु ॥५१॥ सोमदत्त उवाच । त्वं कोऽसि वद मां नाथ हृत्वा दूर्वादिकं पुरा । समायातः पुनः सर्वं दत्तं मे नियमात्मकम् ॥५२॥ न त्वं विप्रोऽसि देवेश साक्षाद्विघ्नेश्वरो भवान् । निश्चयं मे हठं दृष्ट्वा परीक्षार्थं समागतः ॥५३॥ दर्शयस्व निजं रूपं नोचेद्देहं त्यजाम्यहम् । सत्यं वद महाभाग तेन तृप्तो भवामि च ॥५४॥ ततो व्रतप्रभावेण भक्त्या नियमयुक्तया । संतुष्टो गणराजः स दर्शयामास स्वं वपुः ॥५५॥ चतुर्भुजं त्रिनेत्रं च शुंडादंडविराजितम् । सिद्धिवुद्धिसमायुक्तं परश्वादिसुचिह्नितम् ॥५६॥ नानाभूषणशोभाढ्यं शेषनाभिधरं परम् । चिंतामणिं मणिं हृत्स्थं लंबोदरैक- दंतकम् ॥५७॥ मूषकोपरि संस्थं तं दृष्ट्वा वस्त्रविराजितम् । ननाम सोमदत्तः स हर्षनिर्भरमानसः ॥५८॥ सरोमांचो ननर्ताऽसौ साश्रुनेत्रः प्रतापवान् । न विवेद विधिं किंचिद्देहातीत इवाबभौ ॥५९॥ ततो हर्षं समागृह्य पूजयामास तं प्रभुम् । पुनः प्रणम्य हेरंबं तुष्टाव स कृतांजलिः ॥६०॥ सोमदत्त उवाच । गणेशाय परेशाय सदा शांतिप्रदायिने । योगिनां