भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 864, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 864

[Header] खं. ८ अ. २५ पान ५५

[Main Text] ॥ श्रीगणेशाय नमः ॥ शौनक उवाच । माघमासव्रतं ब्रूहि गणेशप्रीतिवर्धनम् । न तृप्यामि कथां शृण्वन् गाणेशीं सर्वसिद्धि- दाम् ॥१॥ सूत उवाच । प्रह्लादस्य महातेजाः पुत्रोऽभूद्दैत्यपालकः । विरोचनः समाख्यातः तेजस्विनां शिरोमणिः ॥२॥ स शुक्रमुपसंगम्य प्रणम्य मुनिसत्तमम् । जगाद दुःखसंयुक्तो निःश्वस्यासुरनायकः ॥३॥ विरोचन उवाच । दैत्या देवार्दिताः स्वामिंस्तिष्ठंति भयसंकुलाः । पातालेषु ततो मह्यं शाधि तेषां हिताय भोः ॥४॥ शुक्र उवाच । आकृष्णेनेति मंत्रेण सूर्य- माराधय प्रभुम् । तेन त्वं दानवानां तु पालकः प्रभविष्यसि ॥५॥ तं प्रणम्य महाबाहुर्विरोचनः प्रतापवान् । कामं वनं समाश्रित्य तताप परमं तपः ॥६॥ ध्यात्वा रविं विशेषेणार्घ्यदानं तु चकार ह । उपस्थानपरो भूत्वा सूर्यमाराधयत् सदा ॥७॥ दिव्यवर्षसहस्रेण प्रसन्नः सविता ययौ । वरं दातुं महातेजा विरोचनाश्रमं मुने ॥८॥ तमागतं समालोक्य ननाम ह विरोचनः । पूज्य तुष्टाव देवेशमथर्वशिरसा प्रभुम् ॥९॥ तुष्टो भानुरुवाचेदं वाक्यं भक्तवरप्रदः । वरं ब्रूहि महादैत्य मनसीप्सितमुत्तमम् ॥१०॥ विरोचन उवाच । सर्वेभ्यो मरणं नाथ न भवेत् मे दिवाकर । चराचरमयेभ्यश्च राज्यं देहि त्रिलो- कजम् ॥११॥ विस्मितः सविता तस्मै ददौ स्वमुकुटं परम् । जगाद भावगंभीरो वचनं जगदीश्वरः ॥१२॥ भानुरुवाच । मस्तके धारयस्वैनं तेन मृत्युविवर्जितः । भविष्यसि यदाऽन्यस्य हस्तः शिरसि नो पतेत् ॥१३॥ परहस्तः स्पृशेदैत्य मस्तके चेन् मरि- ष्यसि । यदा मुकुटहीने ते सावधानस्ततो भव ॥१४॥ राज्यं त्रैलोक्यसंभूतं दत्तं तुभ्यं मयाऽधुना । यद्यदिच्छसि तत्तत्ते सफलं प्रभविष्यति ॥१५॥ एवमुक्त्वाऽन्तर्दधेऽसौ भानुः सर्वार्थकोविदः । विरोचनः प्रसन्नात्मा स्वगृहं प्रययौ ततः ॥१६॥ ततः शुक्रेण दैत्येशोऽभिषिक्तो राज्यकर्मणि । दैत्यैः समावृतः सोऽपि जिग्ये भूमिं महाबलः ॥१७॥ ततः शेषं विनिर्जित्य ययौ स ह्यमरावतीम् । देवेंद्रं वशमानाय्य वैकुंठमगमत्ततः ॥१८॥ विष्णोर्विरोचनस्यैव युद्धं बभूव दारुणम् । जित्वा विष्णुं महादैत्यो हर्षितः संबभूव ह ॥१९॥ विष्णुना संयुता देवाः पप्लुर्वनमाश्रिताः । दैत्याः स्वर्गभुजः सर्वे कृतास्तेन महात्मना ॥२०॥ ततः स दैत्यपान् स्थाप्य वैकुंठादिपदेषु च । आययौ नगरं स्वीयं दैत्यवृंदसमन्वितः ॥२१॥ ततः स दैत्यपैर्युक्तो भोगान्नानाविधान् परान् । बुभुजे पापसंनिष्ठः स्त्रीमांसादिषु लोलुपः ॥२२॥ ततो बहौ गते काले दैत्येशैः प्रेरितः खलः । कर्म वर्णाश्रमस्थं स खंडयामास भूतले ॥२३॥ आसुरं कर्म सर्वत्र कारयामास मानवैः । ततो हाहाकृतं सर्वैर्मुने त्रैलोक्यवासिभिः ॥२४॥ एवं बहौ गते काले देवाश्चोपोषणान्विताः । मुनिभिः केशवं सर्वे तुष्टुवुस्तद्वधाय तम् ॥२५॥