मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 874, कुल 1023 में से
संदर्भ में पढ़ेंखं. ८ अ. २९ पान ६५ योगशांतिदं त्वां वदाम्यहम् ॥६८॥ शुकगीता मया तुभ्यं कथिता ब्रह्मदायिनी । शृणुयाद्यः पठेत् सोऽपि ब्रह्मभूतो भविष्यति ॥६९॥ नानेन सदृशं ज्ञानं योगदं कुत्र वर्तते । श्रवणात् सर्वसिद्धिदं भविष्यति क्रमादिदम् ॥७०॥ यं यमिच्छति तं तं स लभते मानवो ध्रुवम् । अंते स्वानंदवासी स ब्रह्मभूतो भविष्यति ॥७१॥ शुकगीतासमं किंचित् विद्यते नैव निश्चितम् । वेदोपनिषदाद्येषु सारभूता हि कथ्यते ॥७२॥ न श्राव्या दुर्जनायेयं वेदगुह्यमयी परा । योगिभिः शुद्धचित्तेभ्यः सुत श्राव्या प्रयत्नतः ॥७३॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते शुकगीताकथनं नामाष्टाविंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ शिवदत्त उवाच । श्रुत्वा त्वद्वदनांभोजाच्छुकगीतां सुतोषतः । जातोऽधुना गणेशस्य प्राप्त्यर्थं वद मां पितः ॥१॥ गर्ग उवाच । समीपे व्रतमुख्यं यत् समागतं सुसिद्धिदम् । वैशाखमासजं कृत्वा गाणपत्यो भविष्यसि ॥२॥ एवमुक्त्वा महायोगी गर्गस्तस्मै ददौ परम् । गाणेशपंचकेनैकाक्षरं विधिसमन्वितम् ॥३॥ ततस्तेनाभ्यनुज्ञातो गर्गः स्वेच्छाचरो ययौ । शिवदत्तो व्रतं चक्रे गणेशप्रीतये परम् ॥४॥ वैशाखे ध्यानसंयुक्तस्तोषयामास शौनक । गाणेशपंचकेनैव गणेशं सर्वसिद्धिदम् ॥५॥ चतुर्थ्यां गणराजस्तु शुक्लायां प्रययौ मुनिम् । ब्राह्मणस्य स्वरूपेण भिक्षार्थं क्षुधितो भृशम् ॥६॥ तमागतं समालोक्य प्रणाम कृतांजलिः । जगाद तं द्विजं विप्रः शिवदत्तो महायशाः ॥७॥ शिवदत्त उवाच । आस्यतां किं वद मुने कारणार्थं समागतः । शक्यं चेत्तत् करिष्यामि प्रीतये विघ्नपस्य च ॥८॥ द्विज उवाच । पाराशर्यं महाभाग मां जानीहि न संशयः । क्षुधितं वै समायातं त्वद्गेहे भोजनाय तु ॥९॥ तस्य तत् वचनं श्रुत्वा हर्षयुक्त उवाच तम् । तात शुक्लचतुर्थीजं व्रतं वदसि किं मुने ॥१०॥ उपोषणसमायुक्ता देवर्षयो गजाननम् । सेवंते त्वं महाभाग विस्मृतोऽसि वदस्व माम् ॥११॥ तस्य तद्वचनं श्रुत्वा पाराशर्यस्तमब्रवीत् । न जानामि व्रताद्यं तु सदा भक्षणलालसः ॥१२॥ श्रुत्वा प्रणम्य गार्ग्यः स नैवेद्यं गणपस्य च । ददौ तस्मै स भुक्त्वा तं तृप्त्वा जगाद हर्षितः ॥१३॥ पाराशर्य उवाच । तव भावेन संतुष्टो