मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 875, कुल 1023 में से
संदर्भ में पढ़ेंजातोऽहं द्विजसत्तम । वरं ब्रूहि प्रदास्यामि यत्ते चित्ते भवेन् मुने ॥१४॥ गार्ग्य उवाच । किं वृणोमि महाविप्र सर्वं मायामयं जगत् । गणेशतत्परश्चाहं गच्छ त्वं निजमंदिरम् ॥१५॥ एवं तस्य वचः श्रुत्वा पुनस्तं स द्विजोऽब्रवीत् । नयामि स्वगृहं विप्र वरदोऽहं समागतः ॥१६॥ ततस्तं हठसंयुक्तं दृष्ट्वा गार्ग्य उवाच ह । गणेशं दर्शय स्वामिन्नान्यं याचे वरं परम् ॥१७॥ एवमुक्तो द्विजस्तं संजगाद मोहदं वचः । त्यक्त्वा नानाविधैश्वर्यं किं वृणोषि गजाननम् ॥१८॥ अहं योगींद्रमुख्यश्च दास्यामि सकलं सुखम् । एवमुक्त्वा स गार्ग्याय दर्शयामास चैंद्रकम् ॥१९॥ नानादेवयुतो विप्रमिंद्रस्तं प्रणनाम ह । दासोऽहं ते महाभाग भुंक्ष्व त्वं सुखमैंद्रजम् ॥२०॥ एवमुक्त्वा चकाराऽसौ मायया वैभवं परम् । गार्ग्यस्तं नश्वरं मत्वा न दध्रे गणपे रतः ॥२१॥ ततोऽन्तर्धानमकरोदिंद्रः स्वनगरं ययौ । सत्यलोकसमायुक्तस्तत्र ब्रह्मा समाययौ ॥२२॥ जगाद सत्यलोकस्य गार्ग्यं ब्रह्मा मुदान्वितः । राज्यं कुरु महाभाग भज पश्चाद्गणेश्वरम् ॥२३॥ अनौपम्यं सुखं दृष्ट्वा गार्ग्यो विघ्नेश्वरे रतः । न सुमोह जगादैव भोगं नेच्छामि भो विधे ॥२४॥ ततोऽन्तर्धानमकरोद्ब्रह्मा लोकपितामहः । आययौ केशवस्तत्र वैकुंठेन समन्वितः ॥२५॥ वैकुंठविभवं दृष्ट्वा गार्ग्यो गणपतिं भजन् । प्रार्थयंतं महाविष्णुं त्यक्त्वा योगपरो- ऽभवत् ॥२६॥ ततः सोऽपि ययौ स्थानमाययौ तत्र शंकरः । कैलासेन समायुक्तो नानाविभवमोहदः ॥२७॥ शिवेन प्रार्थिनो गार्ग्यः कैलासे राज्यकारणात् । न चकार स वै तत्र मतिं गणपतौ रतः ॥२८॥ शिवोऽन्तर्धानमकरोत्ततस्तं पुनरब्रवीत् । पाराशर्यो महायोगी गार्ग्यं निंदापरायणः ॥२९॥ पाराशर्य उवाच । मूर्खोऽसि हतभाग्योऽसि गणेशं किं करिष्यसि । ब्रह्माकारमतो भुंक्ष्व भोगान्नानाविधान् परान् ॥३०॥ सत्यसंकल्पजान् भोगान् भुक्त्वा चांते गणेश्वरम् । भजिष्यसि न संदेहो ब्रह्मांडाधिपतिर्भव ॥३१॥ गार्ग्य उवाच । असत्यं दीनजं सौख्यं पराधीनात्मकं मुने । सत्यसंकल्पजं सौख्यं सत्यमनुपमं परम् ॥३२॥ सत्यासत्यादिभेदाश्च मायायुक्ता न संशयः । क्षणभंगुरदेहस्थो नेच्छामि योगिसत्तम ॥३३॥ अथ वेश्वरभावेनामृतरूपं करोषि माम् । तथापि योगनिपुणः सुखं नेच्छामि चैश्वरम् ॥३४॥ त्वं किमर्थमिहायातश्छलयितुं महाखल । गच्छ स्व भवनं विप्र गणेशे भक्तिखंडक ॥३५॥ एवं तिरस्कृतस्तेन पाराशर्यो महामुनिः । प्रहस्य गणपाकारो बभूवे तत्क्षणान् मुने ॥३६॥ जगाद तं महाभागं शिवदत्तं गजाननः । पश्य मां गणनाथं त्वं पराशरसुतं मुने ॥३७॥ स दृष्ट्वा गणराजं तं प्रणनाम कृतांजलिः । साश्रुनेत्रोऽभवत् सद्यो ननर्त प्रेमविह्वलः ॥३८॥ देहभावं समासाद्य तं पुपूज