मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
जातोऽहं द्विजसत्तम । वरं ब्रूहि प्रदास्यामि यत्ते चित्ते भवेन् मुने ॥१४॥ गार्ग्य उवाच । किं वृणोमि महाविप्र सर्वं मायामयं जगत् । गणेशतत्परश्चाहं गच्छ त्वं निजमंदिरम् ॥१५॥ एवं तस्य वचः श्रुत्वा पुनस्तं स द्विजोऽब्रवीत् । नयामि स्वगृहं विप्र वरदोऽहं समागतः ॥१६॥ ततस्तं हठसंयुक्तं दृष्ट्वा गार्ग्य उवाच ह । गणेशं दर्शय स्वामिन्नान्यं याचे वरं परम् ॥१७॥ एवमुक्तो द्विजस्तं संजगाद मोहदं वचः । त्यक्त्वा नानाविधैश्वर्यं किं वृणोषि गजाननम् ॥१८॥ अहं योगींद्रमुख्यश्च दास्यामि सकलं सुखम् । एवमुक्त्वा स गार्ग्याय दर्शयामास चैंद्रकम् ॥१९॥ नानादेवयुतो विप्रमिंद्रस्तं प्रणनाम ह । दासोऽहं ते महाभाग भुंक्ष्व त्वं सुखमैंद्रजम् ॥२०॥ एवमुक्त्वा चकाराऽसौ मायया वैभवं परम् । गार्ग्यस्तं नश्वरं मत्वा न दध्रे गणपे रतः ॥२१॥ ततोऽन्तर्धानमकरोदिंद्रः स्वनगरं ययौ । सत्यलोकसमायुक्तस्तत्र ब्रह्मा समाययौ ॥२२॥ जगाद सत्यलोकस्य गार्ग्यं ब्रह्मा मुदान्वितः । राज्यं कुरु महाभाग भज पश्चाद्गणेश्वरम् ॥२३॥ अनौपम्यं सुखं दृष्ट्वा गार्ग्यो विघ्नेश्वरे रतः । न सुमोह जगादैव भोगं नेच्छामि भो विधे ॥२४॥ ततोऽन्तर्धानमकरोद्ब्रह्मा लोकपितामहः । आययौ केशवस्तत्र वैकुंठेन समन्वितः ॥२५॥ वैकुंठविभवं दृष्ट्वा गार्ग्यो गणपतिं भजन् । प्रार्थयंतं महाविष्णुं त्यक्त्वा योगपरो- ऽभवत् ॥२६॥ ततः सोऽपि ययौ स्थानमाययौ तत्र शंकरः । कैलासेन समायुक्तो नानाविभवमोहदः ॥२७॥ शिवेन प्रार्थिनो गार्ग्यः कैलासे राज्यकारणात् । न चकार स वै तत्र मतिं गणपतौ रतः ॥२८॥ शिवोऽन्तर्धानमकरोत्ततस्तं पुनरब्रवीत् । पाराशर्यो महायोगी गार्ग्यं निंदापरायणः ॥२९॥ पाराशर्य उवाच । मूर्खोऽसि हतभाग्योऽसि गणेशं किं करिष्यसि । ब्रह्माकारमतो भुंक्ष्व भोगान्नानाविधान् परान् ॥३०॥ सत्यसंकल्पजान् भोगान् भुक्त्वा चांते गणेश्वरम् । भजिष्यसि न संदेहो ब्रह्मांडाधिपतिर्भव ॥३१॥ गार्ग्य उवाच । असत्यं दीनजं सौख्यं पराधीनात्मकं मुने । सत्यसंकल्पजं सौख्यं सत्यमनुपमं परम् ॥३२॥ सत्यासत्यादिभेदाश्च मायायुक्ता न संशयः । क्षणभंगुरदेहस्थो नेच्छामि योगिसत्तम ॥३३॥ अथ वेश्वरभावेनामृतरूपं करोषि माम् । तथापि योगनिपुणः सुखं नेच्छामि चैश्वरम् ॥३४॥ त्वं किमर्थमिहायातश्छलयितुं महाखल । गच्छ स्व भवनं विप्र गणेशे भक्तिखंडक ॥३५॥ एवं तिरस्कृतस्तेन पाराशर्यो महामुनिः । प्रहस्य गणपाकारो बभूवे तत्क्षणान् मुने ॥३६॥ जगाद तं महाभागं शिवदत्तं गजाननः । पश्य मां गणनाथं त्वं पराशरसुतं मुने ॥३७॥ स दृष्ट्वा गणराजं तं प्रणनाम कृतांजलिः । साश्रुनेत्रोऽभवत् सद्यो ननर्त प्रेमविह्वलः ॥३८॥ देहभावं समासाद्य तं पुपूज
गजाननम् । मुदा युतः प्रतुष्टाव शिवदत्तः कृतांजलिः ॥३९॥ शिवदत्त उवाच । गणेशाय नमस्तुभ्यं पराशरात्मजाय ते । शिवपुत्राय शेषस्य पुत्राय वै नमो नमः ॥४०॥ सर्वपुत्राय सर्वेषां मात्रे पित्रे नमो नमः । भ्रात्रे सुहृद्गणा यैव स्नुषादिवेष- धारिणे ॥४१॥ अनंतरूपिणे तुभ्यं नानाभोगविहारिणे । भोगहीनाय देवाय सुराय ते नमो नमः ॥४२॥ अपारगुणधाराय गुणानां पतये नमः । गणेशाय परेशाय पूर्णानंदाय ते नमः ॥४३॥ आदिमध्यांतरूपैश्च स्रष्ट्रे पात्रे प्रहारिणे । आदिमध्यांत- हीनाय साक्षिणे ते नमो नमः ॥४४॥ स्वानंदपतये तुभ्यं मूषकवाहनाय च । सिद्धिबुद्धिप्रदात्रे ते सिद्धिबुद्धिपते नमः ॥४५॥ योगानां पतये तुभ्यं योगशांतिस्वरूपिणे । गजाननाय शांतिभ्यः शांतिदात्रे नमो नमः ॥४६॥ परेशाय महादीन- पालकाय नमो नमः । सर्वेभ्यः सुखदात्रे ते विघ्नेशाय नमो नमः ॥४७॥ किं स्तौमि त्वां गणाध्यक्ष वेदाः शांतिं गतास्त्वयि । अतो नमो नमो नाथ तुष्टो भव महोदर ॥४८॥ रजांसि खस्थितास्तारा मेघबिंदूंश्च मानवः । गणयेत् कोऽपि ते नाथ न गुणान् वर्णितुं क्षमः ॥४९॥ धन्योऽहं सर्वभावैश्च येन दृष्टो गजाननः । वेदांतागोचरे गम्यो योगिभिश्च शिवादिभिः ॥५०॥ एवं स्तुत्वा गणेशानं ननाम मुनिपुंगवः । तमुवाच गणाधीशः स्वभक्तं भक्तलोलुपः ॥५१॥ श्रीगणेश उवाच । वरान् वृणु महाभाग ये ते चित्ते ददामि तान् । प्रसन्नोऽहं च ते भक्त्या स्तोत्रेण मुनिसत्तम ॥५२॥ शिवदत्त उवाच । भक्तिं देहि त्वदीयां मे दृढामव्यभिचारिणीम् । नान्यं याचे गणाधीश त्वत्पादप्रवणो ह्यहम् ॥५३॥ श्रीगणेश उवाच । मदीया भक्तिरुग्रा ते भविष्यति महामते । स्मृतिमात्रेण ते कार्यं भविष्यति सुसिद्धिदम् ॥५४॥ त्वया कृतमिदं स्तोत्रं मदीयं पठनान्नृणाम् । श्रवणात् सिद्धिदं सर्वं भविष्यति निरंतरम् ॥५५॥ यद्यदिच्छति तत्तत्तु सफलं प्रभविष्यति । स्तोत्रपाठेन विप्रर्षे मयि भक्तिप्रदं तथा ॥५६॥ एवमुक्त्वाऽंतर्दधेऽसौ गणेशो ब्रह्मनायकः । शिवदत्तो गणेशानं संचिंत्य स्वाश्रमे स्थितः ॥५७॥ सदा योगींद्रवंद्यः स बभूवे गाणपाग्रणीः । अंते विघ्नेश्वरे योगी लीनो बभूव शौनक ॥५८॥ एवं वैशाखजं मुख्यं व्रतं सर्वार्थदं परम् । कथितं ते महाभाग श्रवणात् सर्वसिद्धिदम् ॥५९॥ वैशाखव्रतसंयुक्तं शिवदत्तचरित्रकम् । यः पठेच्छृणुयाद् वापि स सर्वफलभाग्भवेत् ॥६०॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते वैशाखमासमाहात्म्ये शिवभक्तिप्रदानं नाम एकोनत्रिंशोऽध्यायः ॥
यहाँ पृष्ठ की मूल सामग्री का पंक्ति-दर-पंक्ति लिप्यन्तरण, श्लोक-क्रम, अन्वय तथा हिन्दी अनुवाद प्रस्तुत है:
मूल पाठ (पंक्ति-दर-पंक्ति लिप्यन्तरण)
शीर्षक/पृष्ठ संख्या: पान ६८
॥ श्रीगणेशाय नमः ॥ सूत उवाच । विश्वावसुश्च नाम्ना को द्राविडे वैश्ययोनिजः । श्रुत्वा वैशाखमाहात्म्यं गाणेशं मुदिनो- ऽभवत् ॥१॥ स कुटुंबपरो नित्यं व्यवसायं चकार ह । स्नात्वा वैशाखमासे तु दीपदानपरोऽभवत् ॥२॥ पूर्णिमायां निशायां स स्वगृहं गंतुमुद्यतः । व्यवसायं परित्यज्य मार्गसंस्थो बभूव ह ॥३॥ तत्र तं भक्षितुं कोऽपि राक्षसः क्रूररूपधृक् । आययौ नगरस्यैव वीथ्यां विश्वावसुं मुने ॥४॥ तमागतं समालोक्य विश्वावसुः सुविह्वलः । सस्मार गणपं चित्ते पपात भूतले भयात् ॥५॥ तमालोक्य धरासंस्थं राक्षसः सहसा मुने । जातिस्मरो बभूवाऽपि रुरोद तं प्रमार्जयन् ॥६॥ ततो विश्वावसुं वैश्यं सावधानं क्षणार्धतः । तं प्रणम्य महाभागं राक्षसस्तु वचोऽब्रवीत् ॥७॥ धूम्र उवाच । धूम्रनामानमेवं मां विद्धि वैश्यकुलोद्भव । तव दर्शनमात्रेण स्मरन् जातिं न संशयः ॥८॥ पूर्वजन्मनि विप्रोऽहं सुरुचिर्नामतॊऽभवम् । विश्वामित्रकुले संस्थः पापकर्मपरायणः ॥९॥ मया शूद्राय दीक्षा वै दत्ता पौराणिकी परा । मात्स्यी स नित्यमेवेदं पुराणमपठन् मुदा ॥१०॥ ब्राह्मणैर्निंदितं तन्न स्वधर्मदूषकं परम् । मृतं मां यमदूता वै गृह्य जग्मुः स्वमालयम् ॥११॥ चित्रगुप्त उवाचाऽथ यमं नीतिविशारदम् । स्वधर्मनिरतश्चायं सदाचारयुतोऽभवत् ॥१२॥ मात्स्यं स विप्रः शूद्रायाऽशिक्षायत सुमंदधीः । ब्रह्मणैर्वारितः पापी पापकर्मपरोऽभवत् ॥१३॥ तच्छ्रुत्वा धर्मराजस्तमुवाच क्रोधसंयुतः । मां वीक्ष्य ताड्यतां दूतस्तथेति स चकार ह ॥१४॥ भुक्तभोगोऽहमत्यंतं राक्षसो वैश्यसत्तम । जातोऽत्र क्षुधयाऽऽविष्टो भ्रमामि तु दिवानिशम् ॥१५॥ त्वां दृष्ट्वा पूर्वपुण्येन जातिस्मर इहाऽभवम् । अधुना तारयस्व त्वं मां संसारात् महामते ॥१६॥ नोचेद्देहपरित्यागं करिष्यामि त्वदग्रतः । एवमुक्त्वा प्रणम्यादौ रुरोद राक्षसो महान् ॥१७॥ ततो दयायुतो वैश्यस्तमुवाच सुविस्मितः । किं करोमि वद प्राज्ञ धूम्र ते तारणाय माम् ॥१८॥ धूम्र उवाच । वैशाखे दीपदानं त्वं करोषि ढुंढिसन्निधौ । तद्भवं देहि मे पुण्यं तेन मुक्तो भवाम्यहम् ॥१९॥ विश्वावसुरुवाच । दीपदानं गणेशाग्रे चेत् करोति नरोत्तमः । अपारं तद्भवं पुण्यं न दास्यामि कदाचन ॥२०॥ तथापि शृणु मे वाक्यमेकवर्तिजदीपतः । यज्जातं तद्गृहाण त्वं तेन मुक्तो भविष्यसि ॥२१॥ एवमुक्त्वा ददौ तस्मै पुण्यं दीपसमुद्भवम् । एकवर्तिकृतं पूर्णं गणेशाग्रे महामुने ॥२२॥ ततस्तत्र समायाता विमानवरसंस्थिताः । गाणेशा राक्षसं धूम्रं गृह्य स्वानंदमाययुः ॥२३॥ एवं व्रतस्य माहात्म्यं वैशाखे संभवस्य च । गाणेशानां महाभाग तन्न किं वर्णयाम्यहम् ॥२४॥ अन्यच्च शृणु विप्रर्षे वैशाखमासगं महत् । चरित्रं सर्वपापघ्नं श्रवणात् पठनान्नृणाम् ॥२५॥
श्लोक, अन्वय एवं हिन्दी अनुवाद
श्लोक १-५
श्लोक: सूत उवाच । विश्वावसुश्च नाम्ना को द्राविडे वैश्ययोनिजः । श्रुत्वा वैशाखमाहात्म्यं गाणेशं मुदिनोऽभवत् ॥१॥ स कुटुंबपरो नित्यं व्यवसायं चकार ह । स्नात्वा वैशाखमासे तु दीपदानपरोऽभवत् ॥२॥ पूर्णिमायां निशायां स स्वगृहं गंतुमुद्यतः । व्यवसायं परित्यज्य मार्गसंस्थो बभूव ह ॥३॥ तत्र तं भक्षितुं कोऽपि राक्षसः क्रूररूपधृक् । आययौ नगरस्यैव वीथ्यां विश्वावसुं मुने ॥४॥ तमागतं समालोक्य विश्वावसुः सुविह्वलः । सस्मार गणपं चित्ते पपात भूतले भयात् ॥५॥
- अन्वय: सूत उवाच— द्राविडे विश्वावसुः नाम्ना कः वैश्ययोनिजः गाणेशं वैशाखमाहात्म्यं श्रुत्वा मुदितः अभवत्। सः नित्यं कुटुम्बपरः व्यवसायं चकार ह। वैशाखमासे तु स्नात्वा दीपदानपरः अभवत्। पूर्णिमायां निशायां सः व्यवसायं परित्यज्य स्वगृहं गन्तुम् उद्यतः मार्गसंस्थः बभूव ह। मुने! तत्र नगरस्य वीथ्यां क्रूररूपधृक् कः अपि राक्षसः तं विश्वावसुं भक्षितुम् आययौ। तम् आगतं समालोक्य विश्वावसुः सुविह्वलः चित्ते गणपं सस्मार, भयात् भूतले पपात।
- हिन्दी अनुवाद: सूतजी बोले— द्रविड़ देश में 'विश्वावसु' नाम का एक वैश्य था। वह गणेशजी के वैशाख-माहात्म्य को सुनकर बहुत प्रसन्न हुआ। वह अपने परिवार का पालन करते हुए नित्य व्यापार करता था और वैशाख मास में प्रतिदिन स्नान करके दीपदान में तत्पर रहता था। वैशाख पूर्णिमा की रात्रि में वह अपनी दुकान बंद करके घर जाने के लिए मार्ग पर निकला। हे मुने! नगर की गली में कोई क्रूर रूपधारी राक्षस उसे खाने के लिए सामने आ गया। उसे आया देखकर विश्वावसु अत्यंत व्याकुल हो गया और मन में श्रीगणेश का स्मरण करते हुए भय से पृथ्वी पर गिर पड़ा।
श्लोक ६-१०
श्लोक: तमालोक्य धरासंस्थं राक्षसः सहसा मुने । जातिस्मरो बभूवाऽपि रुरोद तं प्रमार्जयन् ॥६॥ ततो विश्वावसुं वैश्यं सावधानं क्षणार्धतः । तं प्रणम्य महाभागं राक्षसस्तु वचोऽब्रवीत् ॥७॥ धूम्र उवाच । धूम्रनामानमेवं मां विद्धि वैश्यकुलोद्भव । तव दर्शनमात्रेण स्मरन् जातिं न संशयः ॥८॥ पूर्वजन्मनि विप्रोऽहं सुरुचिर्नामतॊऽभवम् । विश्वामित्रकुले संस्थः पापकर्मपरायणः ॥९॥ मया शूद्राय दीक्षा वै दत्ता पौराणिकी परा । मात्स्यी स नित्यमेवेदं पुराणमपठन् मुदा ॥१०॥
- अन्वय: मुने! धरासंस्थं तं आलोक्य राक्षसः सहसा जातिस्मरः बभूव, तं प्रमार्जयन् रुरोद अपि। ततः क्षणार्धतः सावधानं तं महाभागं विश्वावसुं वैश्यं प्रणम्य राक्षसः तु वचः अब्रवीत्। धूम्रः उवाच— हे वैश्यकुलोद्भव! मां धूम्रनामानं विद्धि। तव दर्शनमात्रेण जातिं स्मरन् अस्मि, संशयः न। पूर्वजन्मनि अहं सुरुचिः नामतः विप्रः अभवम्। विश्वामित्रकुले संस्थः पापकर्मपरायणः (आसम्)। मया शूद्राय परा पौराणिकी मात्स्यी दीक्षा दत्ता, सः नित्यम् एव इदं पुराणं मुदा अपठत्।
- हिन्दी अनुवाद: हे मुने! उस वैश्य को पृथ्वी पर पड़ा देखकर वह राक्षस सहसा 'जातिस्मर' (पूर्वजन्म की स्मृति वाला) हो गया और उसे छूते हुए रोने लगा। फिर आधे ही क्षण में सावधान हुए उस महाभाग वैश्य विश्वावसु को प्रणाम करके वह राक्षस कहने लगा। धूम्र बोला— हे वैश्यश्रेष्ठ! मुझे 'धूम्र' नाम का राक्षस जानो। तुम्हारे दर्शन मात्र से मुझे अपने पूर्वजन्म की स्मृति हो आई है, इसमें कोई संशय नहीं है। पूर्वजन्म में मैं विश्वामित्र-वंश में उत्पन्न 'सुरुचि' नाम का ब्राह्मण था, किंतु पापकर्मों में लगा रहता था। मैंने एक शूद्र को मत्स्य-पुराण सम्बन्धी दीक्षा दे दी थी और वह शूद्र प्रतिदिन बड़े आनंद से इस पुराण का पाठ करता था।
श्लोक ११-१५
श्लोक: ब्राह्मणैर्निंदितं तन्न स्वधर्मदूषकं परम् । मृतं मां यमदूता वै गृह्य जग्मुः स्वमालयम् ॥११॥ चित्रगुप्त उवाचाऽथ यमं नीतिविशारदम् । स्वधर्मनिरतश्चायं सदाचारयुतोऽभवत् ॥१२॥ मात्स्यं स विप्रः शूद्रायाऽशिक्षायत सुमंदधीः । ब्रह्मणैर्वारितः पापी पापकर्मपरोऽभवत् ॥१३॥ तच्छ्रुत्वा धर्मराजस्तमुवाच क्रोधसंयुतः । मां वीक्ष्य ताड्यतां दूतस्तथेति स चकार ह ॥१४॥ भुक्तभोगोऽहमत्यंतं राक्षसो वैश्यसत्तम । जातोऽत्र क्षुधयाऽऽविष्टो भ्रमामि तु दिवानिशम् ॥१५॥
- अन्वय: तत् ब्राह्मणैः निन्दितम्, परं स्वधर्मदूषकम् (आसीत्)। मृतं मां यमदूताः वै गृह्य स्वम् आलयं जग्मुः। अथ चित्रगुप्तः नीतिविशारदं यमम् उवाच— अयं विप्रः स्वधर्मनिरतः सदाचारयुतः अभवत्, (किन्तु) सुमंदधीः सः शूद्राय मात्स्यम् अशिक्षायत। ब्राह्मणैः वारितः (अपि) पापी पापकर्मपरः अभवत्। तत् श्रुत्वा धर्मराजः क्रोधसंयुतः तम् उवाच, मां वीक्ष्य ‘दूतः ताड्यताम्’ इति (आज्ञापितवान्), सः तथा इति चकार ह। हे वैश्यसत्तम! भुक्तभोगः अहं अत्यन्तं क्षुधया आविष्टः अत्र राक्षसः जातः, दिवानिशं तु भ्रमामि।
- हिन्दी अनुवाद: यह कार्य ब्राह्मणों द्वारा निंदित और स्वधर्म को दूषित करने वाला था। मरने के बाद यमदूत मुझे पकड़कर यमलोक ले गए। तब चित्रगुप्त ने नीतिनिपुण यमराज से कहा— "यह ब्राह्मण पहले तो स्वधर्म और सदाचार में लगा रहा, परंतु बाद में मंदबुद्धि होकर इसने शूद्र को मत्स्यपुराण की शिक्षा दी। ब्राह्मणों द्वारा रोके जाने पर भी यह पापी उसी कुकर्म में लगा रहा।" यह सुनकर धर्मराज ने क्रोधित होकर यमदूतों से कहा कि मुझे ताड़ना दी जाए और दूतों ने वैसा ही किया। हे वैश्यश्रेष्ठ! उन यातनाओं को भोगने के बाद अब मैं यहाँ भूख से पीड़ित राक्षस बन गया हूँ और दिन-रात भटकता रहता हूँ।
श्लोक १६-२०
श्लोक: त्वां दृष्ट्वा पूर्वपुण्येन जातिस्मर इहाऽभवम् । अधुना तारयस्व त्वं मां संसारात् महामते ॥१६॥ नोचेद्देहपरित्यागं करिष्यामि त्वदग्रतः । एवमुक्त्वा प्रणम्यादौ रुरोद राक्षसो महान् ॥१७॥ ततो दयायुतो वैश्यस्तमुवाच सुविस्मितः । किं करोमि वद प्राज्ञ धूम्र ते तारणाय माम् ॥१८॥ धूम्र उवाच । वैशाखे दीपदानं त्वं करोषि ढुंढिसन्निधौ । तद्भवं देहि मे पुण्यं तेन मुक्तो भवाम्यहम् ॥१९॥ विश्वावसुरुवाच । दीपदानं गणेशाग्रे चेत् करोति नरोत्तमः । अपारं तद्भवं पुण्यं न दास्यामि कदाचन ॥२०॥
- अन्वय: पूर्वपुण्येन त्वां दृष्ट्वा इह जातिस्मरः अभवम्। हे महामते! अधुना त्वं मां संसारात् तारयस्व, नो चेत् त्वदग्रतः देहपरित्यागं करिष्यामि। एवम् उक्त्वा आदौ प्रणम्य महान् राक्षसः रुरोद। ततः दयायुतः सुविस्मितः वैश्यः तम् उवाच— हे प्राज्ञ धूम्र! ते तारणाय मां (प्रति) वद, किं करोमि? धूम्रः उवाच— त्वं वैशाखे ढुंढिसन्निधौ दीपदानं करोषि, तद्भवं पुण्यं मे देहि, तेन अहम् मुक्तः भवामि। विश्वावसुः उवाच— नरोत्तमः गणेशाग्रे चेत् दीपदानं करोति, तद्भवं पुण्यम् अपारं, कदाचन न दास्यामि।
- हिन्दी अनुवाद: अपने पूर्व पुण्यों के प्रभाव से आपके दर्शन पाकर मुझे पूर्वजन्म का स्मरण हो गया। हे महाबुद्धिमान! अब आप मेरा इस संसार (राक्षस योनि) से उद्धार कीजिए, नहीं तो मैं आपके सामने ही अपने प्राण त्याग दूँगा। ऐसा कहकर उस बड़े राक्षस ने पहले प्रणाम किया और फिर रोने लगा। तब दया से युक्त और विस्मित हुए वैश्य ने उससे कहा— "हे बुद्धिमान धूम्र! बताओ, तुम्हारे उद्धार के लिए मैं क्या करूँ?" धूम्र बोला— "आप वैशाख मास में ढूँढिराज (गणेशजी) के समीप जो दीपदान करते हैं, उससे उत्पन्न पुण्य मुझे दे दीजिए, जिससे मैं मुक्त हो जाऊँ।" विश्वावसु ने कहा— "गणेशजी के आगे दीपदान करने से जो अपार पुण्य मिलता है, वह मैं कभी नहीं दूँगा।"
श्लोक २१-२५
श्लोक: तथापि शृणु मे वाक्यमेकवर्तिजदीपतः । यज्जातं तद्गृहाण त्वं तेन मुक्तो भविष्यसि ॥२१॥ एवमुक्त्वा ददौ तस्मै पुण्यं दीपसमुद्भवम् । एकवर्तिकृतं पूर्णं गणेशाग्रे महामुने ॥२२॥ ततस्तत्र समायाता विमानवरसंस्थिताः । गाणेशा राक्षसं धूम्रं गृह्य स्वानंदमाययुः ॥२३॥ एवं व्रतस्य माहात्म्यं वैशाखे संभवस्य च । गाणेशानां महाभाग तन्न किं वर्णयाम्यहम् ॥२४॥ अन्यच्च शृणु विप्रर्षे वैशाखमासगं महत् । चरित्रं सर्वपापघ्नं श्रवणात् पठनान्नृणाम् ॥२५॥
- अन्वय: तथापि मे वाक्यं शृणु, एकवर्तिजदीपतः यत् (पुण्यं) जातं तत् त्वं गृहाण, तेन मुक्तः भविष्यसि। महामुने! एवम् उक्त्वा गणेशाग्रे एकवर्तिकृतं पूर्णं दीपसमुद्भवं पुण्यं तस्मै ददौ। ततः तत्र विमानवरसंस्थिताः गाणेशाः समायाताः, धूम्रं राक्षसं गृह्य स्वानन्दम् आययुः। हे महाभाग! एवं वैशाखे संभवस्य गाणेशानां व्रतस्य माहात्म्यं किं तत् अहं न वर्णयामि? हे विप्रर्षे! अन्यत् च वैशाखमासगं महत् चरित्रं शृणु, यत् नृणां श्रवणात् पठनात् सर्वपापघ्नम् (अस्ति)।
- हिन्दी अनुवाद: (विश्वावसु ने आगे कहा—) "फिर भी मेरी बात सुनो, एक बत्ती वाले दीपक से जो पुण्य प्राप्त हुआ है, वह तुम ले लो, उससे तुम्हारा उद्धार हो जाएगा।" हे महामुने! ऐसा कहकर उसने गणेशजी के आगे जलाई गई एक बत्ती के दीपक का पूर्ण पुण्य उस राक्षस को दे दिया। इसके बाद तुरंत ही वहाँ श्रेष्ठ विमान पर आरूढ़ होकर गणेशजी के पार्षद (गाणेश) आ पहुँचे और वे धूम्र राक्षस को लेकर स्वानंद लोक चले गए। हे महाभाग! इस प्रकार वैशाख मास में गणेशजी के व्रत के ऐसे अद्भुत माहात्म्य का मैं और क्या वर्णन करूँ? हे विप्रर्षि! अब वैशाख मास की एक और महान कथा सुनिए, जो मनुष्यों के सुनने और पढ़ने मात्र से समस्त पापों का नाश करने वाली है।
कश्चिच्छूद्रो महापापी गणेशालयमाययौ । चौर्यार्थं तत्र रात्रौ स वस्त्रग्रहणलालसः ॥२६॥ समीपे गणराजस्य ययौ वैशाखमासके । दीपं तेजोविहीनं स ददर्श ढुंढिसंनिधौ ॥२७॥ स वर्तिं चालयामास कृत्वा दीपं सुतेजसम् । वस्त्रग्रहण- संसक्तो बभूवे जातिदूषकः ॥२८॥ ततोऽकस्मान्नरं तत्र राज्ञः कं च समागतम् । देवालयस्य रक्षणार्थं तं दृष्ट्वा स पपाल ह ॥२९॥ ततो हाहाकृतं तेन सद्यो लोकैः समागतैः । तैर्हतो योजने दूरं मृतो यामैर्हतोऽभवत् ॥३०॥ भुक्त्वा नानाविधां याम्यां यातनां यमसंनिधौ । समानीतं यमः प्राह तं शूद्रं क्रोधसंयुतः ॥३१॥ वर्तिस्त्वया गणेशाग्रे चालिता दीपसंस्थिता । तेन प्रकाशकस्तत्र बभूव सुखदायकः ॥३२॥ तस्य पुण्यं त्वया प्राप्तं तद्भोक्ष्यसि पुराऽथ वा । पापानि वद पापिष्ठ करिष्यामि त्वदीप्सितम् ॥३३॥ शूद्रो यमं जगदाथाऽऽदौ पुण्यं देहि मे प्रभो । भोक्तुं पश्चान् महत् पापं तथेति स चकार ह ॥३४॥ ततः स वैश्यजो जातो नाम्ना धर्मप्रियो महान् । नानाभोगयुतो नित्यं यौवनस्थो बभूव ह ॥३५॥ गणेशभक्तोऽसौ तत्र प्रीतियुक्तो महामुने । दीपदानं विशेषेण चकार हर्षसंयुक्तः ॥३६॥ अंते पापविहीनः स जगाम गणनायकम् । ब्रह्मभूतो बभूवांपि पूर्वसंस्कारभावतः ॥३७॥ एवं किंचिच्च संस्कारादुद्धरंति जनादयः । वैशाखजान्न संदेहः कति तत्र ब्रुवे मुने ॥३८॥ इदं वैशाखमासस्य चरित्रं भुक्तिमुक्तिदम् । कथितं ते समासेन नानाभोगकरं परम् ॥३९॥ यः पठेच्छृणुयाद्वाऽपि स सर्वार्थयुतो भवेत् । अंते गणपतौ लीनो भवेद्भावपरायणः ॥४० ॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते वैशाखमासमाहात्म्ये नानाजनोद्धारवर्णनं नाम त्रिंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ सूत उवाच । अधुना शृणु माहात्म्यं श्रावणस्य सुखप्रदम् । गणनायप्रियं विप्र समासेन वदाम्यहम् ॥१॥ रामो दाशरथिः शूरः साक्षाद्विष्णुः प्रतापवान् । सभासनगतस्तत्रागतान् विप्रांन्ननाम ह ॥२॥ पूजितास्तेन तं सर्वे जगुर्लवणचेष्टितम् । तद्वधार्थं वयं राम यातास्तं जहि राघव ॥३॥ तथेति तानुवाचाऽसौ द्विजान् पप्रच्छ राघवः । दुर्जयस्य जयः केन भविष्यति च मे द्विजाः ॥४॥ ततस्तं ब्राह्मणाः प्राहुर्गणेशस्याभिषेचनम् । सूक्तैर्गाणेशकैस्तेन विजयी त्वं
भविष्यसि ॥५॥ मासेषु श्रावणो मुख्यः समागतोऽधुना प्रभो । विघ्नेशप्रीतिदोऽत्यंतममायुक्तो व्रतं कुरु ॥६॥ एवमुक्त्वा विधिं तस्मै कथयामासुरादरात् । गणेशमभजत्तत्र शत्रुघ्नः परवीरहा ॥७॥ उपोषणसमायुक्तः स्वयं दुग्धमभक्षयत् । अभिषेक- परो भूत्वा तोषयामास विघ्नपम् ॥८॥ मासमात्रं व्रतं कृत्वा गणेशं नम्य राघवः । शत्रुघ्नो ब्राह्मणैः सार्धं ययौ लवण- राक्षसम् ॥९॥ त्रिशूलेन विहीनं संरुध्य तं लक्ष्मणानुजः । स्मृत्वा गणेश्वरं दुष्टं जघान शरघाततः ॥१०॥ महोऽग्रं पतितं युद्धं तयोः सर्वभयंकरम् । ततः खड्गेन शत्रुघ्नस्तस्य चिच्छेद मस्तकम् ॥११॥ ततो देवगणाः सर्वे पुष्पवृष्टिं प्रचक्रिरे । शत्रुघ्नोपरि शत्रुघ्नो जय हेरंब चाब्रवीत् ॥१२॥ ब्राह्मणैः पूजितः सोऽपि प्रणम्य द्विजपुंगवान् । आवासं मथुरां तत्र सुदेशां तां चकार ह ॥१३॥ गते कियति काले संस्थाप्य पुत्रं महामतिः । माथुरे रामचंद्रं तु ययौ भक्तिपरायणः ॥१४॥ एवं श्रावणमासे वै गणेशस्य महात्मनः । अनुष्ठानफलं प्रोक्तं सर्वसिद्धिप्रदायकम् ॥१५॥ अन्यत्त्वं शृणु माहात्म्यं श्रावण- व्रतजं महत् । जालंधरवधार्थाय यच्छिवेन कृतं पुरा ॥१६॥ जालंधरेण दैत्येन जितं सर्वं चराचरम् । त्रैलोक्याधिपतिः सोऽपि बभूव वरदानतः ॥१७॥ आसुरं कर्म सर्वत्र कारयामास दैत्यपैः । न स्वाहा न स्वधा कुत्र बभूवे भूममंडले ॥१८॥ एवं बहौ गते काले गृहीतं पार्वतीं ययौ । जालंधरस्ततो युद्धं बभूवे देवदैत्ययोः ॥१९॥ देवैः पराजिता दैत्याः पपुलुस्ते दिशो दश । ततो जालंधरः क्रुद्धो युयुधे शस्त्रधारकः ॥२०॥ जितः शंभुः सुरेशानैः पपाल भयसंकुलः । अंतर्दधे महाशक्तिः स ततो विस्मितोऽभवत् ॥२१॥ स्वगृहं दैत्यराजः स समागत्यातिविह्वलः । कामबाणाभिभूतः सन् सस्मार जगदंबिकाम् ॥२२॥ न लेभे कुत्रचिच्छर्म नानाशीतलजातिषु । जज्वल कामजेनैव वह्निना भृशदुःखितः ॥२३॥ अथ देवगणाः सर्वे पर्वतद्रोणिमाश्रिताः । विचारं तस्य नाशार्थ चक्रुर्जालंधरस्य ते ॥२४॥ ततो बृहस्पतिः प्राह शंकरादीन् सुरेंद्रकान् । श्रावणे गणनाथस्यानुष्ठानं कुरुत प्रियाः ॥२५॥ तथेति गुरुणा युक्ता देवाः शंम्वादयोऽपरे । मुनयो गणनाथं वै दूर्वाभिरन्वतोषयन् ॥२६॥ दिवा रात्रौ गणाधीशमभजन्नैकचेतसः । समाप्ते श्रावणे मासे भाद्रिं यात्रां प्रचक्रिरे ॥२७॥ पंचम्यां पारणं कृत्वा प्रणिपत्य गजाननम् । प्रेरिता आकाशगिरा तं महादैत्यमाययुः ॥२८॥ युद्धं कृत्वा महाघोरं जलंधरेण शंकरः । स्मृत्वा गजाननं चित्ते त्रिशूलेन जघान तम् ॥२९॥ स मृतः शिवदेहे तु लयं ययौ महासुरः । देवा मुनियुताः शंभुं तुष्टुवुः पूज्य भक्तितः ॥३०॥ जालंधरं महादैत्यमेवं जित्वा सदाशिवः । स्थापयामास देवादीन् स्वस्थानेषु यथा पुरा ॥३१॥ वर्णाश्रम-
खं. ८ अ. ३२ पान ७१ युतांल्लोकांन् चकार शंकरः प्रभुः । नित्यवच्छ्रावणे मासेऽनुष्ठानसंयुतोऽभवत् ॥३२॥ एकनिष्ठतया शंभुः सिषेवे गणनायकम् । नित्यं ध्यानपरो भूत्वा तमेवाचिंतयत् प्रभुम् ॥३३॥ एवं श्रावणमासस्य व्रतं ते कथितं मया । येन व्रतप्रभावेण शंभु- र्जिग्ये जलंधरम् ॥३४॥ इदं यः शृणुयान्नित्यं श्रावयेद्वा पठेत् स्वयम् । इह भुक्त्वाऽखिलान् भोगानंते स्वानंदमाप्नुयात् ॥३५॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते श्रावणमासमाहात्म्ये जालंधरवधो नामैकत्रिंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ सूत उवाच । अवंतीनगरीमध्ये बभूव ब्राह्मणोत्तमः । गालवः सर्वधर्मज्ञः सर्वशास्त्रविशारदः ॥१॥ शापानुग्रहयोः शक्तस्तपस्तेजोयुतो मुनिः । चचार पृथिवीं सर्वां मुने यात्रापरः कदा ॥२॥ स्वगुरुं स समागम्य विश्वामित्रं महामुनिम् । यात्रां समाप्य तत्रैव संस्थितोऽभूत् सुशीलगः ॥३॥ गणेशभजने सक्तं विश्वामित्रं तपोनिधिम् । एकनिष्ठ- तया दृष्ट्वा तमुवाच कृतांजलिः ॥४॥ गालव उवाच । पंचभूतात्मको देहो नश्वरः सर्वसंमतम् । देहसंस्थं गणेशानं तं कथं भजसे प्रभो ॥५॥ योगींद्राणां गुरुः साक्षात्त्वं ब्रह्मपदधारकः । ब्रह्मभूतस्वभावं किं त्यक्त्वा भजसि विघ्नपम् ॥६॥ अयं ब्रह्मपतिः साक्षाद्वेदेषु कथितोऽभवत् । कथं देहधरः सोऽपि बभूव च गजाननः ॥७॥ रुच्यर्थं ब्रह्मप्राप्त्यर्थं सेवनं चास्य मुख्यकम् । तदर्थं कथितं स्वामिन् वेदैः किं योगिनां मतम् ॥८॥ गणेशपूजनेनैव शुद्धचित्तो नरो भवेत् । स्वल्पकालेन योगज्ञो योगनिष्ठो न संशयः ॥९॥ सर्वत्रात्मस्वभावेनैकाग्रवृत्तिपरो यदा । त्यक्त्वा गजाननं तात जडोन्मत्तादिव- च्चरेत् ॥१०॥ त्वं शांतियोगयुक्तः सन्नधुनाऽपि गजाननम् । भजसे किं महायोगिन् लोकानां संग्रहाय वा ॥११॥ सूत उवाच । एवं वदंतमत्यंतं मुनिर्निर्भर्त्स्य गालवम् । विश्वामित्रः स्वशिष्यं तमुवाच ज्ञानदायकः ॥१२॥ विश्वामित्र उवाच । मूर्खोऽसि नैव जानासि गणेशं ब्रह्मनायकम् । सर्ववृत्तं विशेषेण त्वं मा जानीहि गालव ॥१३॥ पंचचित्तमयी बुद्धिः स्वेच्छया देह- धारिणी । नानाभ्रांतिकरी सिद्धिर्बभूवे सर्वदा तथा ॥१४॥ तयोः स्वामी गणेशानो देहधारी बभूव ह । स्वेच्छया क्रीडनार्थाय मायाभ्यां मायिको यथा ॥१५॥ देहो जगन्मयो यस्य गजाकारं शिरः प्रभोः । ब्रह्ममयं तयोर्योगे देहधारी गजाननः ॥१६॥
खं. ८ अ. ३२ पान ७२ ॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐ योगिनां हृदये ढुंढिर्वर्तते कथितो मया । अज्ञानिनां निराकारः पंचभूतात्मकस्तथा ॥१७॥ सगुणं निर्गुणं भिन्नं गणेशस्य न विद्यते । नोत्पत्तिनाशाभावश्च सर्ववन्मूर्खसत्तम ॥१८॥ अयं देहयुतः प्रोक्तः स्वेच्छया देहवर्जितः । अंतर्धाय खमात्मानं तिष्ठति योगनायकः ॥१९॥ विश्वं ब्रह्मयुतं सर्वं लयं गतं यदा मुने । ब्रह्मणस्पतिसंज्ञे च योगे तन्मयभावतः ॥२०॥ नरकुंजर- रूपं तदभेदेन समास्थितम् । तत्प्राप्त्यर्थं विभिन्नं च भवति भक्तिलालसम् ॥२१॥ योगी योगबलेनैव भवति ब्रह्मरूपगः । तथापि ब्रह्मसामर्थ्यं तस्य देहे न विद्यते ॥२२॥ ब्रह्मणस्पतिशब्दार्था सत्ता गाणेशदेहके । वर्तते सर्वदा तस्मात्तं भजंते तु योगिनः ॥२३॥ एवमुक्त्वा महायोगी विश्वामित्रः प्रतापवान् । गालवं तूष्णींभावेनाभजत्तं गणनायकम् ॥२४॥ तमुवाच पुनः शिष्यो गालवः प्रणिपत्य च । निंद्यस्वात्मनात्मानं संशयस्यापनुत्तये ॥२५॥ गालव उवाच । अज्ञानेनावृतोऽहं त्वां पृच्छामि मुनिसत्तम । शिष्यं तारय योगेन योगयुक्तं तथा कुरु ॥२६॥ गणेशो योगशांतिस्थो सदा योगींद्रसत्तम । कथं देव इति ख्यातः कथितो वेदवादिभिः ॥२७॥ देवाः सत्त्वयुता नाथ नरा राजसतां गताः । तामसा असुराः प्रोक्तास्त्रिलोके वासकारिणः ॥२८॥ एवं मे संशयं स्वामिन्नुद सर्वज्ञ ते नमः । येन संशयहीनोऽहं भजिष्यामि गजाननम् ॥२९॥ विश्वामित्र उवाच । देवाः सत्त्वगुणेनैव युक्ताः स्वर्गनिवासिनः । इंद्रादयो न संदेहस्तेष्विंद्रः परमा गतिः ॥३०॥ ब्रह्मणो दिवसांते ते लयं गच्छंति नित्यदा । अन्ये कर्मकरा देवा भवंति मानवाः पुनः॥३१॥ कर्मणा लभते स्थानं ब्रह्मणः सृष्टिकारिणः । कर्मरूपः स वै प्रोक्तो न देवसमतां व्रजेत् ॥३२॥ परमेष्ठी समाख्यातः परा सेष्टिस्तदात्मिका । इष्टयास्तस्मान् परं किंचिल्लभ्यते नैव मानवैः ॥३३॥ शिवो विष्णुस्तथा भानुः शक्तिश्चत्वार ईश्वराः । अभवन् सत्यसंकल्पाः सगुणा निर्गुणा मुदा ॥३४॥ गणेशो ब्रह्मभूतो वै स्वेच्छाचारो महामते । एवं भेदप्रकारेण ज्ञातव्यो निश्चयार्थिभिः ॥३५॥ दिवु क्रीडात्मको धातुः पठ्यते मुनिभिर्मुदा । सर्वत्र क्रीडनाद्देवाः कथिताः सर्वपूजिताः ॥३६॥ स्वधर्मनिष्ठजे स्वस्वकर्मणि क्रीडने रताः । देवा इंद्रमुखास्तेन कथिताः शास्त्रवादिभिः ॥३७॥ सृष्ट्वा चराचरं सर्वं तत्र क्रीडति नित्यदा । ब्रह्मा तेन मुनींद्रैः स देव इत्यभि- धीयते ॥३८॥ अनंतकोटिब्रह्मांडानि रचित्वा स्वमायया । शिवादयश्च चत्वारस्तेषु क्रीडंति देवकाः ॥३९॥ सत्यसंकल्प- कत्वाद्वै ईश्वरास्ते प्रकीर्तिताः । देवाः क्रीडनभावाच्च सगुणनिर्गुणादिषु ॥४०॥ असत् सत् स मनेतीति परं सृष्ट्वा चतुर्विधम् । विश्वं विश्वात्मसंयुक्तं तत्र क्रीडति विघ्नपः ॥४१॥ जगत्सु ब्रह्मसु प्राज्ञैः क्रीडनाङ्गणजातिषु । देवो गणेश्वरः प्रोक्तः पश्य ॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐ
वेदेषु वर्णितम् ॥४२॥ अतो देवसमानास्ते न भवंति कदाचन । ब्रह्मादयो महाभागा देवशब्दप्रधारकाः ॥४३॥ सूत उवाच । विश्वामित्रवचः श्रुत्वा गालवोऽत्यंतविस्मितः । जगाद तं महाभागं संशयेन समन्वितः ॥४४॥ गालव उवाच । देवा हविर्भुजः सर्वे तद्वदिमे महामते । हविर्भुजो महेशाद्या अभवन् भागमिश्रिताः ॥४५॥ दैत्याद्यैः कर्मनाशेन पीडिता अमरा यदि । तदा शंभ्वादयस्तद्वदुपोषणयुताः कृताः ॥४६॥ तेन देवसमानास्ते दृश्यंते नाऽत्र संशयः । वद संशयनाशार्थं शिष्यं योगींद्रसत्तम ॥४७॥ विश्वामित्र उवाच । अज्ञानासुरभावाद्यैर्देवा ब्रह्मादयः किल । उपोषणयुताः सर्वे कृता दैत्यैर्भवं- त्यतः ॥४८॥ अथाऽन्यच्छृणु तत्त्वं त्वं सर्वसंशयनाशनम् । खंडैश्वर्ययुता इंद्रादयो देवाः प्रकीर्तिताः ॥४९॥ मन्वंतरे गते देवा इंद्राद्या भागवर्जिताः । देहत्यागं प्रकुर्वंति तपसा ध्यानशालिना ॥५०॥ अन्ये देवा भवंति स्मान्यस्मिन् मन्वंतरे मुदा । इंद्राद्यास्तेन ते प्रोक्ताः खंडैश्वर्यात्मका मुने ॥५१॥ स्वस्वमन्वंतरेष्वेव ते भवंति हविर्भुजः । नष्टे मन्वंतरे देवा हविर्भागविवर्जिताः ॥५२॥ तथा ब्रह्मा स्वयं साक्षाद्धविर्भागधरो न च । द्विपरार्धमयं कालं भुनक्ति स हविः प्रभुः ॥५३॥ अत ऐश्वर्यसंयुक्तः कल्पमात्रं न संशयः । कथमिंद्रादिकैरस्य समता भवतीत्यहो ॥५४॥ बुधैः स परमेष्ठीति कथितश्चेष्टि- भक्षणाम् । अखंडैश्वर्ययुक्तैष्टिश्च सर्वत्र संमता ॥५५॥ शिवादयः समाख्याता हविर्भुजस्ततोऽधिकः । अत ऐश्वर्य- संयुक्ता अखंडं हि हविर्भुजः ॥५६॥ गालव उवाच । हविर्भुजः समाख्याता देवाः शास्त्रेषु मानद । यज्ञभागविहीनत्वात् कथं देवो गजाननः ॥५७॥ विश्वामित्र उवाच । यज्ञेषु विविधेष्वेव गणेश आदिरुच्यते । पूज्यस्तथा हविर्भोक्ता सर्वसिद्धि- प्रदायकः ॥५८॥ एकभागाश्रिता भावाद्गणेश इति कथ्यते । समूहानां समायोगस्तत्र किं संशयो मुने ॥५९॥ वेदेषु गणराजस्य यज्ञो भिन्नो निरूपितः । ब्राह्मणस्पत्यसंज्ञस्तु हविर्भुक् तत्र विघ्नपः ॥६०॥ एकभागाश्रिता देवा विष्णुशंकर- मुख्यकाः । अतः स्वस्वपदेष्वेव पूजनीयाः प्रयत्नतः ॥६१॥ सर्वकर्मसु विघ्नेश आदिपूज्यः प्रकीर्तितः । सर्वपूज्यो महाविघ्न- समूहानां प्रपालनात् ॥६२॥ गालव उवाच । पंच देवाः समानाश्च सगुणा निर्गुणा मताः । गणेशः सर्वपूज्यादिपूज्यः कथं बभूव ह ॥६३॥ विश्वामित्र उवाच । सगुणा निर्गुणाः प्रोक्ता ईश्वराः शंभुमुख्यकाः । सत्यसंकल्पभावेन योगरूपा न तेऽभवन् ॥६४॥ एकगुणाश्रिताः सर्वे सगुणाः परिकीर्तिताः । महालये लयं ते वै गच्छंति गुणधारणात् ॥६५॥ सगुणा नाशवंतस्ते निर्गुणा नाशवर्जिताः । योगरूपास्तयोर्योगे शिवाद्याः संमता बुधैः ॥६६॥ नरकुंजरयोगत्वात् गणेशो योग-
यहाँ प्रस्तुत पृष्ठ का संपूर्ण एवं यथावत् लिप्यंतरण दिया गया है:
खं. ८ अ. ३३ पान ७४ वाचकः । सगुणो निर्गुणः सोऽपि तादृशस्तन्मयोऽभवत् ॥६७॥ योगरूपः सदा देवो सगुणो निर्गुणोऽपि वा । स्वेच्छया द्विविधं सृष्ट्वा खेलते भाववर्जितः ॥६८॥ स्वानंदनगरे संस्थो देहधारी गजाननः । स्वानंदस्य लयो नास्ति वेदादिषु विचारय ॥६९॥ अतोऽयं नाशहीनोऽपि देहभृच्छोभते स्वयम् । सगुणे योगनाथश्चांतर्धाय निर्गुणे रतः ॥७०॥ अंतर्धाय गणेशानो निर्गुणं योगशांतिदः । योगरूपे रतः सद्यः स्वेच्छया नात्र संशयः ॥७१॥ अतोऽयं ज्येष्ठराजश्च कथितो वेदवादिभिः । ज्येष्ठानां ज्येष्ठभावाद्धै गतः सर्वादिपूज्यताम् ॥७२॥ पंचचित्तमयी बुद्धिः सिद्धिर्भ्रांतिप्रदा मता । तयोः स्वामी गणेशानः सेव्यते मे हृदि स्थितः ॥७३॥ एवमुक्त्वा महायोगी विरराम महामुने । गालवः संशयं त्यक्त्वा प्रणनाम कृतांजलिः ॥७४॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते श्रावणमासमाहात्म्ये गालवसंशयनाशनं नाम द्वात्रिंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ सूत उवाच । गणेशप्राप्तिकामार्थं गालवो मुनिसत्तमम् । पुनः पप्रच्छ सद्विद्विनयेन द्विजोत्तमः ॥१॥ गालव उवाच । द्रष्टुमिच्छामि विघ्नेशं तदुपायं वद प्रभो । तवाज्ञावशगो भूत्वाऽऽचरिष्यामि तदेव च ॥२॥ विश्वामित्र उवाच । प्राप्तं श्रावणमासं त्वं विद्धि गालव सौख्यदम् । तत्रानुष्ठानभावेन गणेशं पश्य सिद्धिद ॥३॥ एवमुक्त्वा ददौ तस्मै मंत्रमेकाक्षरं मुनिः । तं प्रणम्य महाविप्रं गालवस्तादृशे रतः ॥४॥ श्रावणे गणपं ध्यात्वा पुरश्चरणतत्परः । जजाप मंत्रराजं स विधियुक्तं विधानवित् ॥५॥ पयो भुक्त्वा गणेशानं तोषयामास गालवः । सदा ध्यानपरो भूत्वा चिंतयत्तं महामतिः ॥६॥ अमायां गणराजस्तु ययौ भक्तिनियंत्रितः । सिद्धिबुद्धियुतो विप्रं सिंहगः सर्वभाववित् ॥७॥ तमागतं समालोक्य गालवः प्रेमसंयुतः । समुत्थाय प्रणम्यादौ पुपूज विघ्ननायकम् ॥८॥ पुनः प्रणम्य सर्वेशं तुष्टाव स कृतांजलिः । साश्रुनेत्रो गणाध्यक्षं सर्वसिद्धिप्रदायकम् ॥९॥ गालव उवाच । अमेयमायामयरूपधारिणे मायाविहीनाय परात्परात्मने । योगाय योगेश सुयोगदायिने विघ्नेश्वरायैव नमो नमः प्रिय ॥१०॥ अचिंत्यरूपधाराय विघ्नेशाय नमो नमः । सिंहगाय चतुर्बाहुधारकाय सुरूपिणे ॥११॥ स्वानंदनगरस्थायिन् सदा स्वानंदरूपिणे । अनंतविभवायैव हेरंबाय नमो नमः ॥१२॥ लंबोदराय देवाय
खं. ८ अ. ३३ पान ७५
देवदेवेशरूपिणे । असुराणां निहंत्रे च असुराय नमो नमः ॥१३॥ सिद्धिबुद्धिविलासस्य कारिणे ब्रह्मरूपिणे । ब्रह्माकार- शरीरायैकदंताय नमो नमः ॥१४॥ सगुणाय नमस्तुभ्यं निर्गुणाय गुणात्मने । सदा शांतिप्रदात्रे ते धूम्रवर्णाय ते नमः ॥१५॥ पाशांकुशधरायैकदंताभयप्रधारिणे । नाभिशेषाय सर्वोदौ पूज्याय ते नमो नमः ॥१६॥ किं स्तौमि त्वं गणाध्यक्ष यत्र वेदा विसिस्मिरे । अतो नमनमात्रेण प्रसन्नो भव विघ्नप ॥१७॥ सूत उवाच । एवं स्तुत्वा गणेशानं ननर्ते प्रेमविह्वलः । धन्योऽहं कृतकृत्योऽहमुच्चरंश्च पुनः पुनः ॥१८॥ तमुवाच गणाधीशो वरान् वरय गालव । दास्यामि श्रावणस्यैव व्रतेन तुष्टि- मागतः ॥१९॥ त्वया कृतमिदं स्तोत्रं भवेत् सर्वार्थदायकम् । पठतां शृण्वतां विप्र मद्भक्तिवृद्धिकारकम् ॥२०॥ धनधान्यप्रदं पूर्णं भुक्तिमुक्तिप्रदायकम् । आरोग्यादिकरं चास्तु ब्रह्मश्रद्धा प्रवर्धनम् ॥२१॥ एवमुक्त्वा गणेशानो विरराम महामते । गालवस्तं प्रणम्यादौ जगाद करसंपुटः ॥२२॥ गालव उवाच । भक्तिं देहि त्वदीयां मे गाणपत्यं कुरु प्रभो । योगं शांतिप्रदं पूर्णं नान्यं याचे गजानन ॥२३॥ तथेति तमथोक्त्वाऽसौ गणेशोऽन्तरधीयत । गालवः खेदसंयुक्तो वियोगाद्गणपस्य तु ॥२४॥ ततो जगाम विप्रेंद्रं विश्वामित्रं ननाम सः । वृत्तांतं कथयामास सोऽपि संहर्षितोऽवदत् ॥२५॥ विश्वामित्र उवाच । धन्योऽसि कृतकृत्योऽसि मान्योऽसि मे महामुने । सच्छिष्येण त्वया पुत्र तारितोऽहं न संशयः ॥२६॥ एवं प्रशंसितो विप्रो विश्वा- मित्रेण गालवः । तं प्रणम्य ययौ सोऽपि स्वेच्छाचारी यथा तथा ॥२७॥ सदा गणपतिं भक्त्याऽभजदनन्यचेतसा । गालवो योगिवंद्यश्च बभूव परमार्थवित् ॥२८॥ गाणेशानि जगामासौ क्षेत्राणि गणपे रतः । अंते मयूरक्षेत्रे तु वासं चकार हर्षितः ॥२९॥ तत्रैव गणनांथं सोऽभजद्भावसमन्वितः । क्षेत्रसंन्यासविप्रैश्च पूजितोऽकथयत् कथाः ॥३०॥ इदं गालवमाहात्म्यं कथितं पापनाशनम् । पठनाच्छ्रवणात् सर्वसिद्धिदं जंतवे भवेत् ॥३१॥ अन्यच्छृणु चरित्रं यत् सर्वसौख्यकरं मुने । महाराष्ट्रेऽन्त्यजः कश्चिच्छुश्राव श्रावणस्य च ॥३२॥ माहात्म्यं गणनांथस्य भक्त्याश्रितं द्विजात् पुरा । तत्र चित्तं समानीय गणराजपरो- ऽभवत् ॥३३॥ आगते श्रावणे मासे स्नात्वा देवालये स्थितम् । ननाम नियमेनैव नित्यं भक्तिसमन्वितः ॥३४॥ ततः स्वव्यवसायेषु कुटुंबपोषणे रतः । चकार विविधान् कामांल्लोकानां द्रव्यकारणात् ॥३५॥ समाप्ते श्रावणे मासे मृतं तं दैवयोगतः । प्रगृह्य गाणपा जग्मुः स्वालयं हर्षसंयुताः ॥३६॥ मार्गे संगच्छतस्तस्यांगाद्वायुः सहसाऽऽययौ । पंचचौरशरीरांगे पस्पर्श दैवयोगतः ॥३७॥ चौराणां बुद्धिभेदोऽथ बभूवे तेन ते पुनः । ऊचुः परस्परं चौराः पापकर्मपरायणाः ॥३८॥
पान ७६
चौरा ऊचुः । नित्यं पापसमाचारा वयं चौर्यपरायणाः । लोकेभ्यो दुःखदाः पूर्णा का गतिर्नो भविष्यति ॥३९॥ पापिनां नरकेष्वेव गतिर्दुःखतरा भवेत् । यमस्य यातना तत्र दुःसहा नात्र संशयः ॥४०॥ नरके वासिनो नित्यं भविष्यामो वयं यतः । अतः परं न कर्तव्यं चौर्यं चौराः कदाचन ॥४१॥ एवं निश्चत्य मार्गे ते वनस्थे संस्थिता मुधा । तत्राऽकस्मात् समायाता ब्राह्मणा दश तापसाः ॥४२॥ तान् दृष्ट्वा गोभिरानंदसंयुक्तान् पापनिश्चयाः । चौराः खड्गधरा याता हंतुं तांस्ते द्विजा जगुः ॥४३॥ द्विजा ऊचुः । किमर्थं शस्त्रसंयुक्ताश्चौरा यूयं समागताः । गावो ग्राह्याः सुखेनैव वयं गच्छामहे पुनः ॥४४॥ मा हिंसां कुरुत प्राज्ञा ब्राह्मणवधसंश्रिताम् । ब्रह्महत्याभवं पापं वज्रलेपसमं भवेत् ॥४५॥ तेषां तद्वचनं श्रुत्वा चौरास्तान् खड्गधारकाः । ऊचुर्नियम्य स्वात्मानं पापत्रासभयातुराः ॥४६॥ चौरा ऊचुः । ब्रह्महत्याभवं पापं तत् कीदृक् यातनाप्रदम् । कनोपायेन पापानि लयं गच्छंति भो द्विजाः ॥४७॥ वयं पापसमाचारा जन्मादारभ्य नित्यदा । नानाविधानि पापानि कुर्महे चाधुनावधिम् ॥४८॥ चराम किं वयं चौरास्तदर्थं पापनाशकम् । उपायं तद्वदध्वं नो दयया ब्राह्मणोत्तमाः ॥४९॥ चौराणां वचनं श्रुत्वा ब्राह्मणास्तानथाब्रुवन् । विस्मिता भयसंयुक्ता लोकोद्धारपरायणाः ॥५०॥ ब्राह्मणा ऊचुः । अनुतापेन पापानि नश्यंति चौरनायकाः । अतः परं च पापानि मा चरध्वं तदा किल ॥५१॥ श्रावणे गणनांथं ते सेवध्वं ब्रह्मनायकम् । तेन पापविहीनाश्च गमिष्यथ परां गतिम् ॥५२॥ एवमुक्त्वा महाभागास्ताननुज्ञाप्य ते ययुः । ब्राह्मणाः स्वाश्रमं गोभिर्युक्ता हर्षसमन्विताः ॥५३॥ समीपे श्रावणं मासं समागतं विलोक्य ते । चौराः स्वगृहमागत्य गणेशमभजन् परम् ॥५४॥ स्नात्वा प्रातर्गणेशानं प्रणम्य भावसंयुताः । प्रदक्षिणपराः सर्वे प्रहरं ह्यभवन् मुने ॥५५॥ ते च एकभुजः सर्वे ब्रह्मचर्यपरायणाः । मासमात्रं व्रतं चक्रुः साधवस्ते बभूविरे ॥५६॥ इह भुक्त्वाऽखिलान् भागानंते स्वानंदमाययुः । एवं नाना जना विप्र श्रावणे लेभिरे गतिम् ॥५७॥ तेषां चरित्रकं पूर्णं कथने नैव शक्यते । किंचिन्नियमयुक्तानां का कथा व्रतकारिणाम् ॥५८॥ एवं श्रावणमाहात्म्यं गाणपत्यपदप्रदम् । कथितं मुनिशार्दूल समासेन सुखप्रदम् ॥५९॥ शृणुयाच्छावयेद्वाऽपि पठेद्यो स लभेत् पदम् । गाणेशं विविधान् भोगान् भुक्त्वाऽन्ते मुनिसत्तम ॥६०॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते श्रावणमासमाहात्म्यवर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ सूत उवाच । मलमासभवं चित्रं चरित्रं कथयाम्यहम् । संक्षेपेण मुनिश्रेष्ठ शृणु सर्वार्थदायकम् ॥१॥ कलिकल्मषरूपेण मलेन पीडिताः सुराः । शरणं केशवस्यैव ययुर्विप्रेंद्रमुख्यकैः ॥२॥ स्तुत्वा नानाविधैस्तोत्रैर्विष्णुं धर्मप्रपालकम् । घोरं कलिभवं पापं तदर्थमब्रुवन् वचः ॥३॥ देवर्षय ऊचुः । लेशमात्रेण धर्मस्तु संस्थितोऽधर्मसंहतः । तेनोपोषणसंयुक्तान् रक्षस्व शरणार्थिनः ॥४॥ कलिना पापरूपेण जनार्दन जिता वयम् । पृथिवीं त्वमपि त्यक्त्वा किं स्थितोऽसि महाप्रभो ॥५॥ तेषां तद्वचनं श्रुत्वा तानुवाच स्वयं हरिः । मेघगंभीरया वाचा सर्वेषां पालकः प्रभुः ॥६॥ हरिरुवाच । मा भयं देवविप्राद्याः कुरुताहं न संशयः । करिष्यामि भवत् कार्यं कलिं जित्वा सुदुर्जयम् ॥७॥ एवमुक्त्वा महाविष्णु- र्देवर्षीन् विससर्ज ह । विचारमकरोच्चित्ते दृष्ट्वा घोरं कलेर्बलम् ॥८॥ कलिमलप्रणाशार्थं समर्थं चिंत्य माधवः । आययौ मयूरक्षेत्रे तपोर्थं गणपे रतः ॥९॥ मलमासं समासाद्य नानामलर्निंकृतनम् । गाणेशपंचकं पूज्यं व्रतं चकार मासजम् ॥१०॥ घृतभुक् गणनांथं सोऽसेवयद्यत्नसंयुतः । उषःस्नात्वा यथान्यायं चकार ढुंढिचिंतनम् ॥११॥ ढौढं मासव्रतं कृत्वा परिपूर्णं जनार्दनः । पारणं ब्राह्मणैः सार्धं निशि निद्रायुतोऽभवत् ॥१२॥ स्वप्ने ददर्श विघ्नेशं धूम्रवर्णं गजाननम् । अश्ववाहं द्विह- स्ताभ्यां खड्गचर्मधरं हरिः ॥१३॥ स उवाच महाविष्णुं स्वभक्तं भक्तपालकः । मेघगंभीरनादेन हर्षयन् हर्षवर्धनः ॥१४॥ श्रीगणेश उवाच । नानामलप्रणाशार्थं मलमासव्रतं चरेत् । तदेव सुकृतं विष्णो त्वया मद्भक्तिकारिणा ॥१५॥ मलमासस्य देवोऽहं ढुंढयित्वा विशेषतः । हरामि मलसद्भूतं दुःखं पापमयं परम् ॥१६॥ अतस्त्वमीदृशो भूत्वा मां स्मृत्वा हृदि भक्तितः । कलिं जेष्यसि देवेश धर्मं संस्थापयिष्यसि ॥१७॥ एवमुक्त्वा गणेशानस्ततोंऽर्धानमाकरोत् । प्रबुद्धः केशवोऽत्यंतं स्मृत्वा हर्षयुतोऽभवत् ॥१८॥ प्रणम्य स मयूरेशं धृत्वा वेषं नराधिकम् । अश्वगः श्यामवर्णस्थो बभूव खड्गधारकः ॥१९॥ कल्कि- र्नाम्ना महाबाहुः स्मृत्वा विघ्नेश्वरं हृदि । स्वांगान्नानाविधां सेनां कल्प्य दुष्टवधे रतः ॥२०॥ नाना जनहृदिस्थः स कलिः प्रयत्नसंयुतः । तं जेतुं ययते स्माऽपि हीनवीर्यो बभूव ह ॥२१॥ ततो धर्मयुतांल्लोकांश्चकार स जनार्दनः । हत्वा दुष्टान् महाघोरनानाय्य ब्राह्मणोत्तमान् ॥२२॥ एवं कृत्वांऽतर्दधेऽसौ स्तुतो देवर्षिभिर्हरिः । वैकुंठमगमत् सद्यो हर्षनिर्भरमानसः ॥२३॥ शौनक उवाच । धूम्रवर्णावताराख्यो गणेशः कलिना पुरा । युयुधे तं विजित्वा स कलिं कृतमधारयत् ॥२४॥ कल्कि- र्विष्णुस्तथा दुष्टं कलिं जिग्ये तथाऽधुना । वर्णितं तत्र किं मुख्यं द्विविधं संशयप्रदम् ॥२५॥ सूत उवाच । महाघोरस्वरूपोऽयं
कलिः सृष्टः स्वयंभुवा। पापसेनासमायुक्तो जिग्ये धर्मं क्षणे क्षणे ॥२६॥ तन्नाशार्थं विशेषेण देवा मुनिगणास्तथा। नानावताररूपैस्तं जयंति स्म प्रयत्नतः ॥२७॥ गणराजस्य तदपि वरेण मूलवर्जितः। कलिर्न जायते विप्र पुनर्वृद्धिं प्रयाति सः ॥२८॥ दशवर्षवयोयुक्ता नारी गर्भवती भवेत्। गृहे गृहे तथा त्रिंशत् परमायुर्भवेन्नृणाम् ॥२९॥ वर्णसंकररूपाश्च जनाः सर्वे धरातले। सार्धैकभागो विश्वस्थो भवेद्धर्मो महामुने ॥३०॥ तदा विष्णुः सुरार्थैः संप्राथितः कल्किरूपधृक्। जित्वा कलिं पुनः सोऽपि धर्मं संस्थापयेत् परम् ॥३१॥ यदा पंच वयो वर्षा नारी गर्भवती भवेत्। षोडशाब्दपरं चायुर्मानवानां गृहे गृहे ॥३२॥ महाघोरं कलिं वीक्ष्य कस्मिन् कल्पे शिवादयः। तं जेतुं न समर्थाश्च बभूवुर्विष्णुमुख्यकाः ॥३३॥ विश्वा- धर्मात्र रूपेण धर्मस्तिष्ठेद्धरातले। हाहाकाररवैर्युक्ता जनास्तत्र सुदुःखिनः ॥३४॥ तदा विघ्नेश्वरं सर्वे गच्छंति स्म शरण्यकम्। धूम्रवर्णो गणाध्यक्षो कलिं जिग्ये सुदुर्जयम् ॥३५॥ पुनर्धर्मं समास्थाप्य कृतं तथा महामुने। एवं कलिबलं दृष्ट्वाऽवतारं कुरुते स्म च ॥३६॥ एवं मलभवे मासे व्रतं कृत्वा जनार्दनः। जिग्ये कलिमलं पूर्णं महापापौघरूपिणम् ॥३७॥ अन्यच्छृणु महाविप्र माहात्म्यं मलसंभवम्। धौम्यः सौम्यतपोयुक्तो बभूव परमद्युतिः ॥३८॥ स ययौ योगप्राप्त्यर्थं दधीचिं योग- पारगम्। तं प्रणम्य विनीतात्मा संस्थितस्तेन पूजितः ॥३९॥ उवाच तं महाभागं दधीचिं मुनिवंदितम्। कृतांजलिनतो भूत्वा धौम्यश्च तपतां वरम् ॥४०॥ धौम्य उवाच। तपसा स्वर्गभोगश्च लभ्यते सर्वजंतुभिः। ब्रह्मभूयप्रदं विप्र तपो नैव प्रकीर्तितम् ॥४१॥ अतो मां शाधि तं योगिन् योगं शांतिपदप्रदम्। संसाध्य कृतकृत्योऽहं भविष्यामि विशेषतः ॥४२॥ ब्रह्मणि तन्मया विप्र कथ्यंते ब्राह्मणा बुधैः। अतो मां ब्राह्मणं पूर्णं कुरुष्व कृपया विभो ॥४३॥ धौम्यस्य वचनं श्रुत्वा हर्षयुक्तो महामुने। दधीचिस्तं महाभागं जगाद हर्षसंयुतः ॥४४॥ दधीचिरुवाच। ब्रह्म नाना विधं प्रोक्तं वेदादिषु विशेषतः। गाणेशं तेषु मुख्यं च ब्रह्मणां ब्रह्मदायकम् ॥४५॥ अहं पुरा तपोनिष्ठः क्षुपं राजशिरोमणिम्। स्पर्धयित्वा महाभागाऽभवं शैवो निरंतरम् ॥४६॥ क्षुपार्थमागतं विष्णुं जित्वा योगपरायणः। ब्रह्मणि सहजे विप्र संस्थितोऽहं सुसौख्यदे ॥४७॥ तत्र स्वाधीनभावं च दृष्ट्वा श्रांतोऽभवं पुरा। स्वाधीनत्वं पराधीनत्वं ब्रह्मणि न दृश्यते ॥४८॥ ततोऽहं शांतिप्राप्त्यर्थं शंकरं चागमं प्रभुम्। तं प्रणम्य महादेवमस्तवं विविधैः स्तवैः ॥४९॥ ततो मामब्रवीच्छंभुः स्मयमान इदं वचः। किमर्थमागतो विप्र दधीचे वद सांप्रतम् ॥५०॥ शिवस्य वचनं श्रुत्वा हर्षयुक्तो महादरात्। पुनः प्रणम्य विश्वेशं
खं. ८ अ. ३४ पान ७९ कृतांजलिपुटोऽवदम् ॥५१॥ दधीचिरुवाच । नमस्ते शंकरायैव शिवाय सुखवादिने । ब्रह्मणे सहजायैव नेतिरूपप्रधारिणे ॥५२॥ स्वामिन्नव्यक्तगोऽहं तु ब्रह्मप्राप्त्यर्थमादरात् । घोरं सहजजं तत्र भावं दृष्ट्वाऽतिविस्मितः ॥५३॥ स्वाधीनत्वं कथं तत्र सहजे ब्रह्मणि प्रभो । स्वाधीनान्न परं ब्रह्म लभ्यते योगसेवया ॥५४॥ स्वाधीनत्वं पराधीनत्वं ब्रह्मणि न दृश्यते । कथं स्वाधीनजं मोहं दधते सहजात्मकम् ॥५५॥ अहं शैवः सदा नाथ त्वां जानामि परात्परम् । अतस्त्वां शरणं यातः शांतियोगं वदस्व माम् ॥५६॥ श्रीशिव उवाच । सम्यक् पृष्टं त्वया विप्र सर्वेभ्यः सुखदायकम् । कथयामि महायोगं ब्रह्म तन्मयताकरम् ॥५७॥ स्वाधीनं त्रिविधं तात वर्तते न कदाचन । तुरीयं सहजं ब्रह्म स्वाधीनं नात्र संशयः ॥५८॥ चतुर्णामत्र संयोगे स्वानंदः परिकीर्तितः । स्वसंवेद्येन योगेन लभ्यते योगिभिः परः ॥५९॥ पंचभिर्वर्जितो योगो ह्ययोग इति कथ्यते । न तत्र ब्रह्मणां योगो जगतां जायते कदा ॥६०॥ तयोर्योगे महायोगिन् शांतियोगः प्रकीर्तितः । पंचचित्तभवं भावं त्यक्त्वा शांतिमवाप्स्यसि ॥६१॥ अहं गणेशरूपश्च भिन्नत्वं मे न वर्तते । सदा संयोगता कुत्राऽयोगता भ्रांतिदा भवेत् ॥६२॥ पंचचित्तमयी बुद्धिः सिद्धिर्भ्रांतिकरी मता । माये त्यक्त्वा स्वयं चिंतामणिः साक्षाद्भविष्यसि ॥६३॥ एवमुक्त्वा स्वयं मह्यं ददौ शंभुर्महामनुम् । एकाक्षरं गणेशस्य तेनाहं भ्रामितोऽवदम् ॥६४॥ शैवोऽहं सततं नाथ किं मां वदसि मानद । गणेशोपासनं केन मार्गेण तं भजाम्यहम् ॥६५॥ शिव उवाच । गणाः समूहरूपास्तांस्तद्रूपान् भावयाधुना । सहजानां समायोगे गणोऽहं गणपस्य वै ॥६६॥ गणेशाकारभावेन गणाः सर्वे विचारय । तत्र किं व्यभिचारस्ते भवते वद सांप्रतम् ॥६७॥ एवमुक्त्वा स्वयं शंभुर्विरराम महामते । अहं संशयहीनस्त्वं प्रणम्य वनगोऽभवम् ॥६८॥ शंभुना कथितं योगं साधयित्वा परात् परम् । योगशांतियुतोऽहं तु जातः शंभुप्रसादतः ॥६९॥ सदा शांतिसमायुक्तो भजामि द्विरदाननम् । गुरुरूपधरं शंभुं गाणपत्योऽहमादरात् ॥७०॥ एतत्ते कथितं सर्वं ब्रह्मभूयकरं परम् । त्वमपि गणराजं तं भजस्व भावसंयुतः ॥७१॥ एवमुक्त्वा ददौ तस्मै गाणेशं षोडशाक्षरम् । मंत्रं दधीचिः प्रेम्णा संयुतः सकलसिद्धिदम् ॥७२॥ पुनश्चोवाच योगज्ञो दधीचिस्तं विशेषवित् । दधीचिर्गणनाथं तमभजद्भावसंयुतः ॥७३॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते मलमासमाहात्म्ये दधीचिधौम्यसंवादो नाम चतुस्त्रिंशोऽध्यायः ॥
खं. ८ अ. ३५ पान ८०
॥ श्रीगणेशाय नमः ॥ सूत उवाच । धौम्यो जजाप मंत्रं तं ध्यात्वा हृदि गजाननम् । क्रमेण योगभूमिस्यः शमदमपरो- ऽभवत् ॥१॥ ततः समागतं वीक्ष्य मलमासं विशेषतः । अज्ञानमलनाशार्थं चकार तद्भवं व्रतम् ॥२॥ उषः स्नात्वा विधानेन गणेशे पंचके रतः । सदा गणपतिं धौम्यः सस्मार शुद्धचेतसा ॥३॥ आगतं गणराजं तं ततो भक्तो मुनीश्वर । अमायां स समालोक्य हर्षितोऽभून् महामुनिः ॥४॥ उत्थाय तं प्रणम्याऽऽदौ पुपूज भक्तिसंयुक्तः । पुनः प्रणम्य विघ्नेशं तुष्टाव कृतसंपुटः ॥५॥ धौम्य उवाच । नमाम्यहं गणेशानं सर्वसिद्धिप्रदायिनम् । भक्तानां भवयुक्तानामन्येषां विपरी- तगम् ॥६॥ धन्योऽहं सर्वभावेष्वधुना दृष्ट्वा गजाननम् । किं स्तौमि त्वां महाभाग योगेशं योगरूपिणम् ॥७॥ तव दर्शनमात्रेण ज्ञानयुक्तो वदाम्यहम् । स्तोत्रं ते प्रीतिदं पूर्णं शृणु सर्वज्ञसत्तम ॥८॥ गणेशाय नमस्तुभ्यं योगशांति- प्रदायिने । शांतीनां शांतिरूपाय हेरंबाय नमो नमः ॥९॥ अनामयाय ज्येष्ठाय ज्येष्ठपदप्रदायिने । ज्येष्ठानां ज्येष्ठरूपाय विघ्नेशाय नमो नमः ॥१०॥ नामरूपात्मकेष्वेव शक्तिरूपाय ते नमः । आत्मसु रवये तुभ्यं समेषु विष्णवे नमः ॥११॥ अव्यक्तेषु महेशाय संयोगेषु निजात्मने । निवृत्तिषु ह्ययोगाय कलांशेन नमो नमः ॥१२॥ योगेषु शांतिरूपाय ब्रह्मणस्पतये नमः । आदिमध्यांतभेदैस्तु खेलकाय नमो नमः ॥१३॥ नानामायाप्रचालाय सिद्धिवृद्धिपते नमः । स्वानंदवासिने तुभ्यं भक्तरक्षणतत्पर ॥१४॥ किं स्तौमि त्वां गणाधीश वेदा योगिन एव च । न समर्था अतो नाथ प्रणमामि गजाननम् ॥१५॥ एवमुक्त्वा गणाधीशं पपाताऽसौ धरातले । दंडवद्गणनाथस्य पादौ गृह्य महामुनिः ॥१६॥ तमुत्थाप्य स्वयं प्राह गणेशो ब्रह्मणं पतिः । वरान् वरय धौम्य त्वं दास्यामि स्तोत्रतोषतः ॥१७॥ स्तोत्रं त्वया कृतं मे यत् पठते शृण्वते सदा । सर्वसिद्धिप्रदं चास्तु नानाभावार्थदायकम् ॥१८॥ योगशांतिप्रदं पूर्णं मयि भक्तिविवर्धनम् । यं यमिच्छति तं तं वै दास्यामि स्तोत्रतोषतः ॥१९॥ सूत उवाच । गणेशवचनं श्रुत्वा धौम्यो हर्षसमायुतः । तं जगाद गणाधीशं भक्तेशं भक्तवत्सलम् ॥२०॥ धौम्य उवाच । प्रसन्नोऽसि यदा नाथ तदा ते भक्तिमुत्तमाम् । देहि मे योगशांतिं तु यत्र त्वं मोदसे सदा ॥२१॥ तथेति गणनाथस्तमुक्तवा चांतर्हितोऽभवत् । धौम्यः खिन्न इवात्यंतं तत्रैव संस्थितोऽभवत् ॥२२॥ तत्र संस्थापयामास ब्राह्मणैर्मंत्रकोविदैः । गणेशं तं सदा ध्यात्वा पूज्य भक्तिं चकार ह ॥२३॥ शौनक उवाच । अकर्मकारिणः प्रोक्ता सात्त्विकाः शास्त्रसंमतम् । कर्मकर्तार एवं तु राजसाः परिकीर्तिताः ॥२४॥ विकर्मकारिणः सर्वे तामसाः सूत निश्चितम् । त्रिधा
खं. ८ अ. ३५ पान ८१ भेदयुताः सर्वे भवंति भुवि मानवाः ॥२५॥ ब्रह्मार्पणतया मुक्तिं गच्छंति द्विज सात्त्विकाः । सकामाद्राजसा जन्ममृत्यु- युक्ता भ्रमंति ते ॥२६॥ तामसा नरकेष्वेव शिश्नोदरपराः किल । गच्छंति त्रिगुणे भावे संस्था जनास्त्रिधा गतिम् ॥२७॥ तत्र तामसभावाख्यः शंकरः परिकीर्तितः । तं भजंति महाभागाश्चतुर्वर्गफलार्थिनः ॥२८॥ तामसस्य तु ये भक्ता नारकाः संमताः पुरा । शिवभक्ताः कथं सर्वे भवंति ब्रह्मभूतकाः ॥२९॥ सूत उवाच । सम्यक् पृष्टं त्वया विप्र सर्वेषामुपकारकम् । कथयामि यथा व्यासाच्छ्रुतं सर्वज्ञसत्तमात् ॥३०॥ तम अज्ञानरूपं यत् सौषुप्तं शास्त्रसंमतम् । अज्ञानात् द्विविधं सर्वं समुत्पन्नं विचारय ॥३१॥ सात्त्विकमांतरं स्वाप्नं जागृद्वाह्यं तु राजसम् । तयोर्मूलस्वरूपत्वात्तामसः शंकरः स्मृतः ॥३२॥ तत्राधिकारकं वक्ष्ये त्रिगुणरूपधारिणाम् । क्षणे क्षणे रजः संस्था व्यवस्था विविधात्मिकाः ॥३३॥ सृजति सात्त्विकस्तद्वदवस्थाः पालको मतः । तामसस्ताः समाहृत्य लीनाः करोति सर्वदा ॥३४॥ अतः सर्वमिदं विप्र त्रिभिर्व्याप्तं समंततः । गर्भाधा- नादिप्रारभ्य भरणांतं सुशोभते ॥३५॥ कर्माकर्मविकर्माणि त्रिगुणैः संयुतानि च । कर्मयोगस्य विप्रेश गुणा इमे प्रकीर्तिताः ॥३६॥ न तत्र शंभुमुख्यास्ते सुरा ग्राह्या बुधैः कदा । अतः शंकरभक्ताश्च लभंते सर्वमंजसा ॥३७॥ अधुना शृणु माहात्म्यं मलमासभवं परम् । वैश्यः कश्चिच्छमो नाम बभूवे मालवे मुने ॥३८॥ स श्रुत्वा मलमासस्य माहात्म्यं मलनाशनम् । गणेशभक्तिसंयुक्तश्चकार व्रतमुत्तमम् ॥३९॥ मलमासं समासाद्य स्नात्वा प्रातर्गणाधिपम् । सस्मार स्मरणेनैव ततः कार्यपरोऽभवत् ॥४०॥ एकदा मार्गसंस्थं च वैश्यं निद्रायुतं निशि । तत्र तं भक्षितुं प्रेता दश याता महाबलाः ॥४१॥ तस्मिन् काले शमो दैवादभूज्जाग्रन् महामुने । ददर्श तान् महाप्रेतान् सस्मार गणनायकम् ॥४२॥ जगाद स्वांतरे सोऽपि गणेश करुणानिधे । रक्ष मां प्रेतपेभ्यस्त्वं त्वत्पादे भक्तिसंयुक्तम् ॥४३॥ मलमासस्य देवेश दिवसाः सप्त एव च । उर्वरिता व्रतं मेऽत्र भग्नं नोचेद्भविष्यति ॥४४॥ समाप्ते मलमासे मां मारयस्व गजानन । नाधुना व्रतसंस्थं तु रक्ष रक्ष दयानिधे ॥४५॥ मलमासव्रते संस्थं दृष्ट्वा प्रेता भयातुराः । जातिस्मरा बभूवुस्ते रुरुदुस्तं प्रणम्य वै ॥४६॥ ततः स विस्मितो भूत्वा तान् प्रपच्छ महाबलान् । किमर्थं दुःखसंयुक्ता भवंतो मां ब्रुवंतु च ॥४७॥ प्रेता ऊचुः । पूर्वजन्मनि भो वैश्य वयं ब्राह्मणसंभवाः । अनाचाररताः सर्वे मृता यमगृहे गताः ॥४८॥ तत्र नानाविधां पूर्णां यातनां दुःखदां पराम् । भुक्त्वा प्रेताः कृतास्तेन यमेन साधुसत्तम ॥४९॥ अत्र शीतोष्णकायेषु नाना द्वंद्रेषु सर्वदा । पतिता
खं. ८ अ. ३६ | पान ८२ दुःखसंयुक्ता भ्रमामो यत्र तत्र ह ॥५०॥ अधुना दैवयोगेन भक्षितुं त्वां समागताः। त्वद्दर्शनजपुण्येन जातिस्मरा भवामहे ॥५१॥ मलमासव्रतस्थस्त्वं तारयास्मान् दयानिधे। गणेशस्मृतिसंयुक्तः स्नानं करोषि नित्यदा ॥५२॥ एकस्नान- भवं पुण्यं देहि वैश्य वयं तदा। अस्मभ्यं तेन निःपापा गमिष्यामोऽपुनर्भवम् ॥५३॥ प्रेतानां वचनं श्रुत्वा हर्षयुक्तः शमोऽब्रवीत् । प्रेतान् दुःखयुतान् वीक्ष्य दयायुक्तः स्वभावतः ॥५४॥ शम उवाच । किं मया क्रियते प्रेता मलमासभवं व्रतम् । स्नानमात्रं कृतं नित्यं गणेशस्मृतिसंयुक्तम् ॥५५॥ गणेशस्मरणस्यैव महिमा केन गण्यते। पुराणेषु श्रुतं तस्मात् वचः शृणुत मे हितम् ॥५६॥ एकनामस्मृतेः पुण्यं ददामि स्नानसंभवम्। तेन बंधनहीनाश्च भविष्यथ न संशयः ॥५७॥ एवमुक्त्वा ददौ तेभ्य एकस्नानभवं फलम् । मलमासे गणेशस्य स्मृतियुक्तं महामुने ॥५८॥ ततस्तत्र समायाता गाणेशा यानसंयुताः। प्रेतान् गृह्य ययुः सर्वे स्वानंदं गणपे रताः ॥५९॥ तत्र लंबोदरं दृष्ट्वा ब्रह्मभूता बभूविरे । प्रेताः पश्य महाश्चर्यं शौनक मलमासगम् ॥६०॥ एवं नाना जना विप्र सिद्धिं प्राप्ता विशेषतः। ढौँढे मासे कति ब्रूयां संख्यातुं न क्षमो ह्यहम् ॥६१॥ संक्षेपेण मया तुभ्यं कथितं चरितं शुभम् । मलमासभवं चित्रं श्रवणात् सर्वदायकम् ॥६२॥ यः पठेच्छ्रावयेद्वाऽपि शृणुयात् स लभेत् परम् । इह भुक्त्वाऽखिलान् भोगान् स्वजनैः परिवारितः ॥६३॥ ॥ ओमिति श्रीमदंत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते मलमासमाहात्म्यवर्णनं नाम पंचत्रिंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ सूत उवाच । प्रसंगात् सर्वमासानां कथयामि चरित्रकम् । गणेशभक्तिदं चित्रं शृणुध्वं मुनयः परम् ॥१॥ प्रातः स्नानं विधायैव गाणेशे पंचके रतः। नित्यं द्वादशमासेषु स सर्वार्थमवाप्नुयात् ॥२॥ असाध्यं साधयेन् मर्त्यः परं यद्यपि दुर्लभम् । लभेत् द्वादशमासेषु गणेशे पंचके रतः ॥३॥ अत्र ते कथयिष्यामीतिहासं पूर्वसंभवम् । श्रवणात् पठनात् नृणां पावनं सर्वसिद्धिदम् ॥४॥ नलो नाम महाराजो निषधेषु बभूव ह। धर्मशीलो वदान्यश्च स्वधर्मनिरतः सदा ॥५॥ दमयंत्या युतः सोऽपि विचारमकरोत् हृदि । त्रिलोकगमने शक्तो भविष्यामि कथं नरः ॥६॥ नरदेहधरो यस्तु
खं. ८ अ. ३६ पान ८३ स्वेच्छागतिर्युतो भवेत्। तदा तस्य यशो धन्यमिह सर्वातिगं भवेत् ॥७॥ एवं विचार्य विप्रेशं गौतमं स ययौ नृपः। प्रणम्य तं महाभागं पप्रच्छ स्वहितावह्म् ॥८॥ नल उवाच । नरदेहधरः स्वामिंस्त्रिलोकगः कथं भवेत् । तन्मे कथय तत्त्वज्ञ करिष्यामि यथातथम् ॥९॥ गौतम उवाच । श्रावणे तु प्रतिपदि शुद्धपक्षं महानृप । प्रातः स्नात्वा स्वशाखोक्तं कर्म नित्यत्मकं चरेत् ॥१०॥ ततो गाणेशकं राजन् पंचकं भक्तिसंयुतः । नियमेन समापूज्य व्रतयुक्तो भवेन्नरः ॥११॥ आषाढीं स समासाद्यामावास्यां गणपे रतः। मंडपे गणनांथं च पूजयेद्धेमनिर्मितम् ॥१२॥ द्वादश ब्राह्मणांस्तत्र वरयेद्वेदपारगान्। होमं कुर्यात् दशांशेन जपस्यैतैर्महामते ॥१३॥ वायनं ब्राह्मणाग्यैव प्रदद्यात् स बलिं चरेत्। ततः पूर्णाहुतिं कृत्वा भोजयेत्तांस्तु पायसैः ॥१४॥ प्रतिपदि पुनः पूज्य गणेशं सर्वसिद्धिदम् । सुवासिनीभिः संयुक्तान् द्विजान् स्त्रीभिस्तु भोजयेत् ॥१५॥ एकविंशतिसंख्याकानथवा संख्यातिगान्। दक्षिणां विपुलां दत्वा तोषयेत्तान् विशेषतः ॥१६॥ योषिभ्यः कंचुकादींश्च नानालंकारांस्तथा। प्रदद्याऽऽन्नम्य स सर्वान् गृह्याशिषं विसर्जयेत् ॥१७॥ सोपस्कारं गणाध्यक्षं प्रदद्यात् गुरवे परम्। अन्येभ्यः शक्तिप्रायाण्यादद्याद्दानानि हर्षतः ॥१८॥ एवं कुरु महीपाल ज्ञानयुक्तो भविष्यसि । त्रिलोगस्तथा सर्वं लभसे मनसीप्सितम् ॥१९॥ एवमुक्त्वा महायोगी गौतमो विरराम ह। नलस्तं प्रणिपत्यैव स्वगृहं प्रययौ पुरा ॥२०॥ चकार सर्वधर्मज्ञो नलो गणपतौ रतः । यथाविधि व्रतं मुख्यं संवत्सरप्रमाणकम् ॥२१॥ ततः स योगिवंद्यश्च बभूव ज्ञानसंयुतः। त्रिलोक्यां गमने शक्तो भूपालो नरदेहगः ॥२२॥ एवं नाना जना विप्र व्रतं संवत्सरात्मकम् । चक्रुस्ते योगिवंद्याश्च बभूवुर्ज्ञानसंयुताः ॥२३॥ मनेप्सितां प्रलभ्यैव दुर्लभां सिद्धिमूत्तमाम् । अंते स्वानंदगाः सर्वे ब्रह्मभूता बभूविरे ॥२४॥ तेषां चरित्रकं सर्वं मया वक्तुं न शक्यते । अनंतत्वात् महाभाग संक्षेपेण निरूपितम् ॥२५॥ गाणेशपंचकस्यैव सेवने न समर्थकाः । किंचिन्नियमसंयुक्ता व्रतं चक्रुः परे नराः ॥२६॥ तेऽपि सिद्धिं समासाद्य मनेप्सितां मुदा युताः । अंते गणपलोके तु गत्वा ब्रह्म प्रलेभिरे ॥२७॥ शूद्रः कश्चिद् बृहत्कर्मा नाम्ना वंध्यो बभूव ह। पुत्रार्थं प्रयतो भूत्वा नानाकर्मपरो- ऽभवत् ॥२८॥ न लेभे संततिं सोऽपि ततोऽतिदुःखसंयुतः । प्रजगाम वनं घोरं तत्र विप्रान् ददर्श ह ॥२९॥ तान् प्रणम्य महाभागानपृच्छत् पुत्रदायकम् । उपायं ते समाचख्युर्व्रतं संवत्सरात्मकम् ॥३०॥ श्रुत्वा विधियुतं पूर्णं व्रतं गाणेश्वरं परम्। प्रणम्य तान् समायातः स्वगृहं हर्षसंयुतः ॥३१॥ गाणेशपंचकं पूर्णं सेवितुं न बभूव ह। समर्थः स ततो विप्र
चकार स्वल्पभावतः ॥३२॥ स्नात्वा गणपतेः पूजां चकार पार्थिवीं पराम् । नाममंत्रैः स्वयं नित्यं ब्रह्मचर्ययुतोऽभवत् ॥३३॥ एकभुङ् नियमे संस्थ्यश्चकार व्रतमुत्तमम् । समाप्य तद्व्रतं पूर्णं गणेशमभजन्मुदा ॥३४॥ द्विजातीनां स शुश्रूषां चकार धर्मसंयुक्तः । मिलितेन तदन्नेन कुटुंबं समपोषयत् ॥३५॥ ततः स्वल्पेन कालेन पुत्रं लेभे महामुने । ज्ञानयुक्तं सरूपं तं दृष्ट्वाऽतिहर्षितोऽभवत् ॥३६॥ क्रमेण पंच पुत्राश्च पुत्त्र्यस्तिस्रो बभूविरे । शूद्रस्य स गणेशानं मन्यते स्म समर्थकम् ॥३७॥ अंते स्वानंदलोकं स जगाम भार्यया युतः । इह भुक्त्वाऽखिलान् भोगान् ब्रह्मभूतो बभूव ह ॥३८॥ एवं नाना जना विप्र किंचित् कृत्वा व्रतात्मकम् । नियमं सिद्धिसंयुक्ता बभूवुः कति ते ब्रुवे ॥३९॥ उद्यापनं मया प्रोक्तं तदेव सर्वसंमतम् । सर्वमासेषु कर्तव्यं मासात्मकव्रतेऽपि च ॥४०॥ चातुर्मास्यव्रते विप्र उद्यापनमिदं स्मृतम् । मलमासव्रते तद्वदिदं कर्तव्य- मादरात् ॥४१॥ सांवत्सरं व्रतं मुख्यं कथितं ते समासतः । पठनाच्छ्रवणाच्चेदं सर्वदं प्रभविष्यति ॥४२॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते संवत्सरव्रतमाहात्म्यवर्णनं नाम षट्त्रिंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ शौनक उवाच । चातुर्मास्य व्रतं ब्रूहि गाणेशं सर्वदायकम् । न तृप्यामि कथां श्रुत्वा नानाश्चर्यविवर्द्धि- नीम् ॥१॥ सूत उवाच । अत्र ते कथयिष्यामि पुरातनभवं परम् । इतिहासं महाभाग श्रवणात् सर्वदायकम् ॥२॥ बृहदश्व इति ख्यातो ब्राह्मणः परमार्थवित् । तपोयुक्तो महातेजाः शापानुग्रहणे क्षमः ॥३॥ नानातपःप्रभावेणांऽतर्ज्ञानं संबभूव ह । हृदि तस्य ततः सोऽपि शमदमपरोऽभवत् ॥४॥ सोऽहं ब्रह्मणि संस्थ्योऽभूत् अंते शून्यमये मुनिः । शांतियुक्तः स्वभावेन संस्थितो ब्रह्मवित्तमः ॥५॥ तस्याऽऽश्रमे महायोगी विभांडः सहसाऽऽगतः । तं प्रणम्य महाभागं पुपूज भक्तिसंयुतः ॥६॥ विश्रांतं मुनिमुख्यं स जगाद हर्षसंयुतः । विभांडं विनयेनैव युक्तो वचनमुत्तमम् ॥७॥ बृहदश्व उवाच । निरालंबमयं ब्रह्म सदैकरूपधारकम् । ध्यातृध्यानविहीनं यत् तत्त्वमेव न संशयः ॥८॥ महाभाग्येन दृष्ट्वा त्वां साक्षात् योगीश्वरं परम् । अधुना कृतकृत्योऽहं जातस्ते पाददर्शनात् ॥९॥ एवं तस्य वचः श्रुत्वा विभांडस्तमुवाच ह । योगयुक्तं
खं. ८ अ. ३७ पान ८५ सुनैपुण्यं ज्ञात्वा शांतिप्रदायकः ॥१०॥ विभांड उवाच। अहं गणेशरूपश्चेत्तत्रैकत्वं न विद्यते । निरालंबभवं सौख्यं मुने कुत्र प्रवर्तते ॥११॥ तस्य तद्वचनं श्रुत्वा बृहदश्वस्तमब्रवीत् । सुशांतिदं विस्मितः किं तदर्थं लालसी सदा ॥१२॥ बृहदश्व उवाच । पूर्णशांतिप्रदं नाथ वद मां करुणानिधे । सोऽहंकारात्परं भावं न जानामि कदाचन ॥१३॥ विभांड उवाच । अहं पुरा तपोनिष्ठोऽभवं तत्र समाययुः । इंद्रेण प्रेषिता नार्यस्तपोभंगार्थमादरात् ॥१४॥ नृत्यगानादि चिह्नौर्मां मोहनाय समुद्यताः । अप्सरसस्ततो धैर्यमहं धृत्वा स्थितोऽभवम् ॥१५॥ ततोऽति हठसंयुक्ताः स्त्रियः कामसमन्विताः । हावभावकटाक्षाद्यै- श्चिह्नैर्मां समपीडयन् ॥१६॥ ततो मे विह्वलत्वाङ्गे वीर्यं पपात भूतले । तृणयुक्ते सुसंखिन्नोऽगमं त्यक्त्वा स्वमाश्रमम् ॥१७॥ ततस्त्वप्सरसः सर्वा जग्मुः स्वर्गं महामुने । अहं जाजलिकं विप्रमगमं तं नतोऽभवम् ॥१८॥ तेन सम्मानितो नित्यमवसं तपसा युतः । अवदं गणनाथस्य पूजने सक्तमादरात् ॥१९॥ एकनिष्ठतया स्वामिन्नित्यं भक्तिसमन्वितः । त्यक्त्वा देवेंद्रकान् सर्वान् गणेशं भजसे कथम् ॥२०॥ एवं पृष्टो मया योगी जाजलिः परमार्थवित् । मामुवाच दयायुक्त- स्तत्तेऽहं कथयामि तु ॥२१॥ जाजलिरुवाच । गणेशान्न परं ब्रह्म वेदे पश्य महामते । ब्रह्मणस्पति संज्ञं तं वदंति वेदवा- दिनः ॥२२॥ अहं पुरा तपोनिष्ठोऽभवं नित्यं महामुने । अत्यंततपसा मेऽभूद् व्याप्तं सर्वं चराचरम् ॥२३॥ ततोऽकस्मात् समायातमाश्रमे मे महामुनिः । लोमशं तं प्रणम्याहमपूजं भक्तिसंयुतः ॥२४॥ ततो मामब्रवीत् विप्रो लोमशः सर्वविन् मुनिः । दयायुक्तः स्वभावेन महायोगींद्रवंदितः ॥२५॥ लोमश उवाच । किं तपोनिष्ठभावेन साध्यं कर्तुमभीप्ससि । योगं साधय तत्त्वज्ञ स्वयं ब्रह्म भविष्यसि ॥२६॥ तपसा सर्वभोगश्च लभ्यते मानवैः सदा । पुनः पतनभावात्तन्नमत्तं द्वंद्वसंयुक्तः ॥२७॥ एवं तस्य वचः श्रुत्वा तं प्रणम्य पुनर्मुनिम् । अपृच्छं योगदं मार्गं विनयेन समन्वितः ॥२८॥ केन मार्गेण योगज्ञ लभे योगं महामुने । तं वदस्व करिष्यामि त्वच्छिष्योऽहं विधानतः ॥२९॥ लोमश उवाच । पुराऽहं कर्मयोगेन मूकस्तपःसमन्वितः । प्रणम्य भक्त्या ब्रह्माणमपृच्छं सर्वदं वद ॥३०॥ ततस्तेन समाख्यातं सर्वसारं सुशांतिदम् । गाणेशं सर्वमान्यं तत् पुराणं संश्रुतं मया ॥३१॥ श्रवणस्य च माहात्म्याद्द्वाणीयुक्तोऽभवं पुरा। ततो हर्षसमायुक्तो मुने विधिं नतो विभुम् ॥३२॥ ततः स्वमाश्रमं गत्वा गणेशकथितं परम् । गीताज्ञानं समाराध्य योगिवंद्योऽभवं मुदा ॥३३॥ ततो गणेश्वरं स्थाप्य स्वाश्रमे तं विधानतः । पूज्य ध्यानपरो भूत्वा तोषयामि स्म विघ्नपम् ॥३४॥ एकाक्षरजपा-