भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 888, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 888

खं. ८ अ. ३४ पान ७९ कृतांजलिपुटोऽवदम् ॥५१॥ दधीचिरुवाच । नमस्ते शंकरायैव शिवाय सुखवादिने । ब्रह्मणे सहजायैव नेतिरूपप्रधारिणे ॥५२॥ स्वामिन्नव्यक्तगोऽहं तु ब्रह्मप्राप्त्यर्थमादरात् । घोरं सहजजं तत्र भावं दृष्ट्वाऽतिविस्मितः ॥५३॥ स्वाधीनत्वं कथं तत्र सहजे ब्रह्मणि प्रभो । स्वाधीनान्न परं ब्रह्म लभ्यते योगसेवया ॥५४॥ स्वाधीनत्वं पराधीनत्वं ब्रह्मणि न दृश्यते । कथं स्वाधीनजं मोहं दधते सहजात्मकम् ॥५५॥ अहं शैवः सदा नाथ त्वां जानामि परात्परम् । अतस्त्वां शरणं यातः शांतियोगं वदस्व माम् ॥५६॥ श्रीशिव उवाच । सम्यक् पृष्टं त्वया विप्र सर्वेभ्यः सुखदायकम् । कथयामि महायोगं ब्रह्म तन्मयताकरम् ॥५७॥ स्वाधीनं त्रिविधं तात वर्तते न कदाचन । तुरीयं सहजं ब्रह्म स्वाधीनं नात्र संशयः ॥५८॥ चतुर्णामत्र संयोगे स्वानंदः परिकीर्तितः । स्वसंवेद्येन योगेन लभ्यते योगिभिः परः ॥५९॥ पंचभिर्वर्जितो योगो ह्ययोग इति कथ्यते । न तत्र ब्रह्मणां योगो जगतां जायते कदा ॥६०॥ तयोर्योगे महायोगिन् शांतियोगः प्रकीर्तितः । पंचचित्तभवं भावं त्यक्त्वा शांतिमवाप्स्यसि ॥६१॥ अहं गणेशरूपश्च भिन्नत्वं मे न वर्तते । सदा संयोगता कुत्राऽयोगता भ्रांतिदा भवेत् ॥६२॥ पंचचित्तमयी बुद्धिः सिद्धिर्भ्रांतिकरी मता । माये त्यक्त्वा स्वयं चिंतामणिः साक्षाद्भविष्यसि ॥६३॥ एवमुक्त्वा स्वयं मह्यं ददौ शंभुर्महामनुम् । एकाक्षरं गणेशस्य तेनाहं भ्रामितोऽवदम् ॥६४॥ शैवोऽहं सततं नाथ किं मां वदसि मानद । गणेशोपासनं केन मार्गेण तं भजाम्यहम् ॥६५॥ शिव उवाच । गणाः समूहरूपास्तांस्तद्रूपान् भावयाधुना । सहजानां समायोगे गणोऽहं गणपस्य वै ॥६६॥ गणेशाकारभावेन गणाः सर्वे विचारय । तत्र किं व्यभिचारस्ते भवते वद सांप्रतम् ॥६७॥ एवमुक्त्वा स्वयं शंभुर्विरराम महामते । अहं संशयहीनस्त्वं प्रणम्य वनगोऽभवम् ॥६८॥ शंभुना कथितं योगं साधयित्वा परात् परम् । योगशांतियुतोऽहं तु जातः शंभुप्रसादतः ॥६९॥ सदा शांतिसमायुक्तो भजामि द्विरदाननम् । गुरुरूपधरं शंभुं गाणपत्योऽहमादरात् ॥७०॥ एतत्ते कथितं सर्वं ब्रह्मभूयकरं परम् । त्वमपि गणराजं तं भजस्व भावसंयुतः ॥७१॥ एवमुक्त्वा ददौ तस्मै गाणेशं षोडशाक्षरम् । मंत्रं दधीचिः प्रेम्णा संयुतः सकलसिद्धिदम् ॥७२॥ पुनश्चोवाच योगज्ञो दधीचिस्तं विशेषवित् । दधीचिर्गणनाथं तमभजद्भावसंयुतः ॥७३॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते मलमासमाहात्म्ये दधीचिधौम्यसंवादो नाम चतुस्त्रिंशोऽध्यायः ॥