मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 878, कुल 1023 में से
संदर्भ में पढ़ेंकश्चिच्छूद्रो महापापी गणेशालयमाययौ । चौर्यार्थं तत्र रात्रौ स वस्त्रग्रहणलालसः ॥२६॥ समीपे गणराजस्य ययौ वैशाखमासके । दीपं तेजोविहीनं स ददर्श ढुंढिसंनिधौ ॥२७॥ स वर्तिं चालयामास कृत्वा दीपं सुतेजसम् । वस्त्रग्रहण- संसक्तो बभूवे जातिदूषकः ॥२८॥ ततोऽकस्मान्नरं तत्र राज्ञः कं च समागतम् । देवालयस्य रक्षणार्थं तं दृष्ट्वा स पपाल ह ॥२९॥ ततो हाहाकृतं तेन सद्यो लोकैः समागतैः । तैर्हतो योजने दूरं मृतो यामैर्हतोऽभवत् ॥३०॥ भुक्त्वा नानाविधां याम्यां यातनां यमसंनिधौ । समानीतं यमः प्राह तं शूद्रं क्रोधसंयुतः ॥३१॥ वर्तिस्त्वया गणेशाग्रे चालिता दीपसंस्थिता । तेन प्रकाशकस्तत्र बभूव सुखदायकः ॥३२॥ तस्य पुण्यं त्वया प्राप्तं तद्भोक्ष्यसि पुराऽथ वा । पापानि वद पापिष्ठ करिष्यामि त्वदीप्सितम् ॥३३॥ शूद्रो यमं जगदाथाऽऽदौ पुण्यं देहि मे प्रभो । भोक्तुं पश्चान् महत् पापं तथेति स चकार ह ॥३४॥ ततः स वैश्यजो जातो नाम्ना धर्मप्रियो महान् । नानाभोगयुतो नित्यं यौवनस्थो बभूव ह ॥३५॥ गणेशभक्तोऽसौ तत्र प्रीतियुक्तो महामुने । दीपदानं विशेषेण चकार हर्षसंयुक्तः ॥३६॥ अंते पापविहीनः स जगाम गणनायकम् । ब्रह्मभूतो बभूवांपि पूर्वसंस्कारभावतः ॥३७॥ एवं किंचिच्च संस्कारादुद्धरंति जनादयः । वैशाखजान्न संदेहः कति तत्र ब्रुवे मुने ॥३८॥ इदं वैशाखमासस्य चरित्रं भुक्तिमुक्तिदम् । कथितं ते समासेन नानाभोगकरं परम् ॥३९॥ यः पठेच्छृणुयाद्वाऽपि स सर्वार्थयुतो भवेत् । अंते गणपतौ लीनो भवेद्भावपरायणः ॥४० ॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खण्डे धूम्रवर्णचरिते वैशाखमासमाहात्म्ये नानाजनोद्धारवर्णनं नाम त्रिंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ सूत उवाच । अधुना शृणु माहात्म्यं श्रावणस्य सुखप्रदम् । गणनायप्रियं विप्र समासेन वदाम्यहम् ॥१॥ रामो दाशरथिः शूरः साक्षाद्विष्णुः प्रतापवान् । सभासनगतस्तत्रागतान् विप्रांन्ननाम ह ॥२॥ पूजितास्तेन तं सर्वे जगुर्लवणचेष्टितम् । तद्वधार्थं वयं राम यातास्तं जहि राघव ॥३॥ तथेति तानुवाचाऽसौ द्विजान् पप्रच्छ राघवः । दुर्जयस्य जयः केन भविष्यति च मे द्विजाः ॥४॥ ततस्तं ब्राह्मणाः प्राहुर्गणेशस्याभिषेचनम् । सूक्तैर्गाणेशकैस्तेन विजयी त्वं