मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 876, कुल 1023 में से
संदर्भ में पढ़ेंगजाननम् । मुदा युतः प्रतुष्टाव शिवदत्तः कृतांजलिः ॥३९॥ शिवदत्त उवाच । गणेशाय नमस्तुभ्यं पराशरात्मजाय ते । शिवपुत्राय शेषस्य पुत्राय वै नमो नमः ॥४०॥ सर्वपुत्राय सर्वेषां मात्रे पित्रे नमो नमः । भ्रात्रे सुहृद्गणा यैव स्नुषादिवेष- धारिणे ॥४१॥ अनंतरूपिणे तुभ्यं नानाभोगविहारिणे । भोगहीनाय देवाय सुराय ते नमो नमः ॥४२॥ अपारगुणधाराय गुणानां पतये नमः । गणेशाय परेशाय पूर्णानंदाय ते नमः ॥४३॥ आदिमध्यांतरूपैश्च स्रष्ट्रे पात्रे प्रहारिणे । आदिमध्यांत- हीनाय साक्षिणे ते नमो नमः ॥४४॥ स्वानंदपतये तुभ्यं मूषकवाहनाय च । सिद्धिबुद्धिप्रदात्रे ते सिद्धिबुद्धिपते नमः ॥४५॥ योगानां पतये तुभ्यं योगशांतिस्वरूपिणे । गजाननाय शांतिभ्यः शांतिदात्रे नमो नमः ॥४६॥ परेशाय महादीन- पालकाय नमो नमः । सर्वेभ्यः सुखदात्रे ते विघ्नेशाय नमो नमः ॥४७॥ किं स्तौमि त्वां गणाध्यक्ष वेदाः शांतिं गतास्त्वयि । अतो नमो नमो नाथ तुष्टो भव महोदर ॥४८॥ रजांसि खस्थितास्तारा मेघबिंदूंश्च मानवः । गणयेत् कोऽपि ते नाथ न गुणान् वर्णितुं क्षमः ॥४९॥ धन्योऽहं सर्वभावैश्च येन दृष्टो गजाननः । वेदांतागोचरे गम्यो योगिभिश्च शिवादिभिः ॥५०॥ एवं स्तुत्वा गणेशानं ननाम मुनिपुंगवः । तमुवाच गणाधीशः स्वभक्तं भक्तलोलुपः ॥५१॥ श्रीगणेश उवाच । वरान् वृणु महाभाग ये ते चित्ते ददामि तान् । प्रसन्नोऽहं च ते भक्त्या स्तोत्रेण मुनिसत्तम ॥५२॥ शिवदत्त उवाच । भक्तिं देहि त्वदीयां मे दृढामव्यभिचारिणीम् । नान्यं याचे गणाधीश त्वत्पादप्रवणो ह्यहम् ॥५३॥ श्रीगणेश उवाच । मदीया भक्तिरुग्रा ते भविष्यति महामते । स्मृतिमात्रेण ते कार्यं भविष्यति सुसिद्धिदम् ॥५४॥ त्वया कृतमिदं स्तोत्रं मदीयं पठनान्नृणाम् । श्रवणात् सिद्धिदं सर्वं भविष्यति निरंतरम् ॥५५॥ यद्यदिच्छति तत्तत्तु सफलं प्रभविष्यति । स्तोत्रपाठेन विप्रर्षे मयि भक्तिप्रदं तथा ॥५६॥ एवमुक्त्वाऽंतर्दधेऽसौ गणेशो ब्रह्मनायकः । शिवदत्तो गणेशानं संचिंत्य स्वाश्रमे स्थितः ॥५७॥ सदा योगींद्रवंद्यः स बभूवे गाणपाग्रणीः । अंते विघ्नेश्वरे योगी लीनो बभूव शौनक ॥५८॥ एवं वैशाखजं मुख्यं व्रतं सर्वार्थदं परम् । कथितं ते महाभाग श्रवणात् सर्वसिद्धिदम् ॥५९॥ वैशाखव्रतसंयुक्तं शिवदत्तचरित्रकम् । यः पठेच्छृणुयाद् वापि स सर्वफलभाग्भवेत् ॥६०॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते वैशाखमासमाहात्म्ये शिवभक्तिप्रदानं नाम एकोनत्रिंशोऽध्यायः ॥