मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 907, कुल 1023 में से
संदर्भ में पढ़ेंतमब्रुवम्। तात भ्रमणसंयुक्तो भ्रमामि पृथिवीतले ॥२६॥ नानातपोयुतो नाथ न शांतिमलभं कदा । तवाश्रममतो यातो वद शांतिं सुशांतिद ॥२७॥ कौंडिण्य उवाच । गणेशं भज भावेन तदा शांतिमवाप्स्यसि । नान्यथा त्वं जरत्कारो भ्रमयुक्तो भविष्यसि ॥२८॥ एवं तस्य वचः श्रुत्वा पुनस्तमहमब्रुवम् । नामरूपधरं देवं कथं वदसि शांतिदम् ॥२९॥ ततो मामब्रवीत् सोऽपि दयायुक्तः स्वभावतः । शृणु पुरा भवं चित्रमितिहासं वदाम्यहम् ॥३०॥ अहं योगार्थमत्यंतमक्लिष्टयं तपसा युतः । नाविंदं तं ततो देवं ब्रह्माणं संगतोऽभवम् ॥३१॥ तं प्रणम्य महाभागं योगशांतिप्रदायकम् । अहं योगार्थमत्यंतमक्लिष्टयं तपसा युतः ॥३२॥ ब्रह्मोवाच । गणेशं भज भावेन ततः शांतिमवाप्स्यसि । गच्छ स्थावरसंज्ञे त्वं पुरे चिंतामणिं भज ॥३३॥ चंचलं चित्तमाख्यातं स्थिरं यत्र बभूव ह । तेन स्थावरसंज्ञं तत् क्षेत्रं नाम्ना मया कृतम् ॥३४॥ पंचचित्तप्रकाशो मे तत्र चिंतामणिः प्रभुः । स्थापितोऽभून् मया पूर्वं साक्षाच्छांतिप्रदायकः ॥३५॥ सृष्ट्यादौ तपसा तत्र मया संराधितोऽभवत् । तस्य वरप्रभावेण योगिवंद्योऽभवं मुदा ॥३६॥ एवं तस्य वचः श्रुत्वा पुनस्तमहमब्रुवम् । नामरूपधरो नाथ शांतिदः कथमंजसा ॥३७॥ ततो मामब्रवीद्ब्रह्मा हर्षयुक्तेन चेतसा । गणानां पतिभावेन स्थितोऽयं नामधारकः ॥३८॥ देहो जगन्मयस्तस्य गजारुढ्यं ब्रह्म मस्तकम् । तयोर्योगे स्वरूपस्थो बभूव भक्तकारणात् ॥३९॥ स्वानंदो नगरं यस्य सिद्धिर्बुद्धिः प्रिये मते । लक्षलाभौ सुतौ प्रोक्तौ मूषको वाहनं तथा ॥४०॥ एवं नानाविधानीह ब्रह्माकाराणि तस्य वै । सुहृदश्च ततः प्रोक्तो वेदेषु ब्रह्मणस्पतिः ॥४१॥ मायामोहयुतान्यादौ विश्वानि मुनिसत्तम । ब्रह्माणि योगदानार्थं तेभ्यो देहधरोऽभवत् ॥४२॥ स्वेच्छया देहधारी स स्वेच्छया मायया युतः । स्वेच्छया योगरूपोऽयं विनायकस्ततः स्मृतः ॥४३॥ नास्थिचर्मादिसंयुक्तो देहस्तस्य महात्मनः । तद्वर्जितो वै विप्रेश योगदेहधरोऽभवत् ॥४४॥ अत्र ते कथयिष्यामि चेतिहासं पुरातनम् । भृशुंडिनोऽमर्षीणां संवादसंभवं महान् ॥४५॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते कौंडिण्यब्रह्मसमागमो नामैकचत्वारिंशोऽध्यायः ॥