भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 917, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 917

पान १०८ एवमुक्त्वाददत्तस्मै मंत्रमेकाक्षरं ततः। सविधिं गणनाथस्य ततो ध्यानप्रसिद्धये ॥२५॥ साधयित्वा यथान्यायं योगं गाणेशसंज्ञितम् । ततो यज्ञं समारेभे ब्राह्मणस्पत्यसंज्ञकम् ॥२६॥ कृत्वा यज्ञं मुदायुक्तो द्विजान्नत्वा विसृज्य सः। संस्थित- स्तत्र विघ्नेशः प्रययौ वरदायकः ॥२७॥ तं दृष्ट्वा सहसोत्थाय प्रणामं पुपूज ह । पुनः प्रणम्य तुष्टाव यजुःस्तोत्रेण विघ्नपम् ॥२८॥ योगशांतिं प्रदत्त्वाऽसौ जैगीषव्याय धीमते । आचार्यतां तु योगस्य स्वयमंतर्दधे विभुः ॥२९॥ ततो गुरुं शिवं सोऽपि ढुंढिराजं तु दैवतम् । गाणपत्यस्वभावेनाभजत्काशीस्थितो मुनिः ॥३०॥ अतस्त्वं गणनांथं तं भज शांति- प्रसिद्धये । शांतिभ्यः शांतिदः प्रोक्तः सर्वेषां योगधारकः ॥३१॥ जरत्कारुरुवाच । एवमुक्त्वा ददौ तस्मै संत्रमेकाक्षरं परम् । विधियुक्तं गणेशस्य स्वशिष्यायोपमन्यवे ॥३२॥ तं प्रणम्य ययौ सोऽपि मंत्रध्यानपरोऽभवत् । इष्टिं कृत्वा गणेशस्य शांतिरूपो बभूव ह ॥३३॥ गणराजस्तुतमपि ययौ भक्तं महामुनिम् । दत्वा शांतिं स्तुतस्तेनाऽंतर्दधे ब्रह्मनायकः ॥३४॥ अतस्त्वं संशयं त्यक्त्वा भज विघ्नपतिं सुत । व्यभिचारो न ते भावी शांतियुक्तो भविष्यसि ॥३५॥ सूत उवाच । एवमुक्त्वा ददौ तस्मै स्वमंत्रं तु षडक्षरम् । विधियुक्तं गणेशस्यास्तीकाय मुनिसत्तमः ॥३६॥ आस्तीकः साधयामास ध्यात्वा हृदि गजाननम् । इष्टिं कृत्वा गणेशस्य शांतियुक्तो बभूव ह ॥३७॥ गाणपत्यप्रियोऽत्यंतं मातरं स जगाम ह। उपदिश्य गणेशानं शांतियुक्तां चकार ताम् ॥३८॥ अतो गणपतिं नित्यमभजत् प्रीतिसंयुतः । अंते गाणेश्वरे धाम्नि ब्रह्मैव स बभूव ह ॥३९॥ एतत्त्वे कथितं सर्वं ब्राह्मणस्पत्ययज्ञजम् । माहात्म्यं गाणपत्यानां प्रियं संक्षेपतो मया ॥४०॥ यः शृणोति नरो भक्त्या पठते तस्य सिद्धिदम् । भविष्यति न संदेहो भुक्तिमुक्तिप्रदायकम् ॥४१॥ ब्राह्मणस्पत्ययज्ञस्थं पुण्यं स लभते परम् । अंते स्वानंदगो भूत्वा ब्रह्मभूतो भवेन्नरः ॥४२॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते ब्राह्मणस्पत्ययज्ञमाहात्म्यवर्णनं नाम षट्चत्वारिंशोऽध्यायः ॥