मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 918, कुल 1023 में से
संदर्भ में पढ़ेंखं. ८ अ. ४७ पान १०९ ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖ ॥ श्रीगणेशाय नमः ॥ शौनक उवाच । कथं दशहरा देवी दशमी चाश्विनेऽभवत् । कथं तत्र शमीपूजां कुर्वंति देवतादयः ॥१॥ सूत उवाच । शंखं हत्वा महावीरं विष्णुः परपुरंजयः । ददौ वेदान् विधात्रे स सांगोपांगसमन्वितान् ॥२॥ तान् दृष्ट्वा हर्षितो ब्रह्मा सस्मार गणनायकम् । ततो गणेश्वरं वेदा ययुः सृष्टाश्च तेन ये ॥३॥ पुरा कपिलरूपेण कर्मसिद्ध्यर्थनिर्मिताः । हृतेषु वेदशास्त्रेषु शंखेन पापरूपिणा ॥४॥ तत् दृष्ट्वा परमाश्चर्यं ब्रह्मा तुष्टाव विघ्नपम् । प्रार्थयामास वेदानां निर्विघ्नार्थं महामुने ॥५॥ ततस्तं प्रत्युवाचैवाकाशवाणी महाद्भुता । सर्वैर्विधे शमीं पूज्य विघ्नहीनो भविष्यसि ॥६॥ या शमी स गणेशानो न भेदस्तत्र वर्तते । अद्यैव तां महाभाग पूजयस्व विधानतः ॥७॥ ततो वेदान् समास्पृश्य प्रशस्तान् कुरु मानद । एवमुक्त्वा खवाणीस्थो विरराम गजाननः ॥८॥ श्रुत्वाऽतिहर्षितो ब्रह्मा वेदेंदैवैः सहेश्वरैः । मुनिभिस्तां प्रपूज्यैव वेदान् शस्तांन् चकार ह ॥९॥ यस्मिन् काले महाविप्र पूजिता विधिना शमी । आश्विनी दशमी तत्र सायाह्ने सा बभूव ह ॥१०॥ ततो दशहरा जाता सा शमीसंयुता तिथिः । तदर्थं शृणु भावेन सर्वकार्येषु सिद्धिदाम् ॥११॥ दश दिक्षु स्थितान्येव भूतानि भयदानि च । कार्यध्वंसं प्रकुर्वंति क्रूराणि प्रबलानि च ॥१२॥ दशमी हंति सा तानि शमी पूजाबलेन वै । अतो दशहरा प्रोक्ता सर्वकार्यप्रसिद्धये ॥१३॥ शमीपूजाविधिं कृत्वा सायाह्ने तानलोकयत् । सांगोपांगयुतान् वेदांस्ततः सर्वानुपदिशत् ॥१४॥ नानाकार्यप्रसिद्ध्यर्थं दशम्यां शमीपूजनम् । शुक्लाश्विन्यां च सायाह्ने कर्तव्यं सर्वजंतुभिः ॥१५॥ तेन विघ्नविहीनास्ते दशदिक्षु भ्रमंति चेत् । सर्वसिद्धियुताः सर्वे भवंति नात्र संशयः ॥१६॥ दशदिक्षु स्थितान् हंति विघ्नान् दशहरा मता । अद्य प्रभृति देवेशा मुनयो वार्षिकी भवा ॥१७॥ पूजयिष्यंति देवेशा शमीं कार्यप्रवर्धिनीम् । वार्षिकं दुःखमुत्सृज्य स्थास्यंति सुखभोगिनः ॥१८॥ पूजयित्वा शमीं विप्रा वेदान् ये पुस्तकस्थितान् । पठिष्यंति पुराणादींस्तेषां ज्ञानं भविष्यति ॥१९॥ न यो दशहरायां तु शमीं पूजयते कदा । स नाना विघ्नसंयुक्तो नरकेंऽते प्रगच्छति ॥२०॥ एवमुक्त्वा स्वयं ब्रह्मा जगाम वेदसंयुतः । स्वलोकं शंकराद्याश्च जग्मुर्विप्राः सुरा मुने ॥२१॥ तदादि चाश्विनी शुक्ला दशहरा बभूव ह । दशमी शमीसंयुक्ता सर्वार्थे सिद्धिदायिनी ॥२२॥ अतोऽवश्यं स्वभावेन पूजयंति शमीं नराः । देवा नागास्तथा वेदान् पठंते पाठयंत्यपि ॥२३॥ इदं सर्वं समाख्यातं चरितं शमीसंभवम् । यः शृणोति नरः सोऽपि लभते पठतीप्सितम् ॥२४॥ शौनक उवाच । किमाधारमिदं सर्वं वर्तते सूत तद्वद । कर्माधीनं वदंत्येव केचिदत्र मुनीश्वराः ॥२५॥ ईश्वराधीनमेतद्वै केचिच्चेदं यहच्छया । त्रिविधं तेषु किं सत्यं ज्ञायते न मुनीश्वरैः ॥२६॥ सूत उवाच । त्रिविधं प्रवदंत्येव मुनयो ब्रह्मवेदिनः ।