मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 919, कुल 1023 में से
संदर्भ में पढ़ेंतत्सर्वं सत्यरूपं त्वं जानीहि मुनिसत्तम ॥२७॥ गणेशेन कृतं सर्वं क्रीडार्थं स्वेच्छया मुने । तत्र माया समाख्याता सिद्धि रैश्वर्यदायिनी ॥२८॥ ऐश्वर्यमोहधरा सा बुद्धिर्मायिक उच्यते । मायाभोगार्थमत्यंतमतः श्रमयुतोऽभवत् ॥२९॥ मायामायिकयोगात् स गणेशो ब्रह्मनायकः । क्रीडति स्वस्वभावेनानन्यभावपरायणः ॥३०॥ न कोऽपि तत्र विघ्नेशप्रेरकस्तत्र विद्यते । अतो यदृच्छया सर्वं वर्तते योगिनां हृदि ॥३१॥ अन्यच्च शृणु विप्रेश माया नानाभ्रमात्मिका । सा जडा सर्व- भावेन कर्तुं नैव क्षमाऽभवत् ॥३२॥ तया संमोहितोऽत्यंतं मायिकस्तां चचाल ह । तदा सत्तायुता माया खेलते विविधे रता ॥३३॥ मायिकेन धृता देवी चचाल विविधात्मिका । मायिकेच्छावशेनैव संस्थिता नाऽत्र संशयः ॥३४॥ यदा त्यक्ता महामाया मायिकेन महामुने । तदा शक्ता न किंचित् सा कर्तुं जडप्रभावतः ॥३५॥ ईश्वराधीनभावेन वर्तते सर्वमंजसा । वदंति मुनयः केचित् ध्यानमार्गपरायणाः ॥३६॥ अन्यच्च कथयिष्यामि माया कर्मस्वरूपिणी । नानाभावयुता नित्यं खेलति त्रिविधा परा ॥३७॥ कर्माकर्मविकर्माण्यचालयत् सर्वरूपिणी । स्वर्गमुक्तिमहावीचिदायिनी त्रिविधे रता ॥३८॥ यादृशं कुरुते कर्म फलं भोक्ष्यति तादृशम् । कर्माधीनमिदं सर्वं वर्तते त्रिविधं किल ॥३९॥ शुभाशुभं कृतं कर्म भोक्तव्यं नात्र संशयः । कल्पकोटिशतैर्वाऽपि कृतं कर्म न तं त्यजेत् ॥४०॥ एवं वदंति विप्रेश ब्राह्मणा देहवादिनः । धारणायां स्थितास्ते वै सत्यं शास्त्रेषु निश्चितम् ॥४१॥ अथैकभावनां वक्ष्ये त्रयाणां शृणु शौनक । गणेशमायया भ्रांता न जानंति कुयोगिनः ॥४२॥ मायामायिकरूपेण संस्थितो गणनायकः । क्रीडति स्वस्वभावेनानन्यभावपरायणः ॥४३॥ तस्येच्छया महाविप्र ईश्वरश्चैव तिष्ठति । मोहितो गणनाथेन जानाति न गजाननम् ॥४४॥ अहं श्रेष्ठः परं ब्रह्म मदाधारमिदं जगत् । मदिच्छया प्रवर्तंते जंतवो नाऽत्र संशयः ॥४५॥ यादृशी गणनाधस्येच्छा भवेत्तादृशं स्वयम् । करोतीश्वर आनंदाततो भेदो न दृश्यते ॥४६॥ कर्मरूपा महामाया गणेशेच्छासमन्विता । चलते तं न जानाति मोहिता भ्रांतिसंयुता ॥४७॥ अहं श्रेष्ठा न संदेहो मदाधारमिदं जगत् । सकलं कर्मभावेन धारयामि चराचरम् ॥४८॥ यादृशी गणनाधस्येच्छा भवेत्तादृशं स्वयम् । कर्म कुर्वंति विप्रेश चराचरात्मजीविनः ॥४९॥ अतस्त्रिविधकं विप्र एकलक्ष्याश्रितं मतम् । एवं बाधविहीनं तन्त्रिधा सं वर्तते सदा ॥५०॥ मायावादिन एवं तत् कर्माधीनं वदंति हि । अद्वैतवादिनः सर्वे ईश्वराधीनगं तथा ॥५१॥ योगिनः प्रवदंत्येत- द्यदृच्छाधीनगं जगत् । एवं सत्यं प्रमाणेन त्रिविधं मुनिसत्तम ॥५२॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते त्रिविधजगदाधारनिरूपणं नाम सप्तचत्वारिंशोऽध्यायः ॥