भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 925, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 925

[Header] खं. ८ अ. ५० पान ११६

॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । योगिध्येयं गणेशस्य रूपं सर्वत्र संमतम् । ध्यातुं त्वयोगिभिः शक्यं प्रत्यक्षं नाऽत्र संशयः ॥१॥ कथं वेदादिषु प्रोक्तं योगिध्येयमनुत्तमम् । वद तत् कारणं विप्र संशयस्यापनुत्तये ॥२॥ मुद्गल उवाच । अयोगिनो गणेशानं पंचभूतमयं प्रभुम् । जानंति सर्वतुल्यं तं देहधारिणमंजसा ॥३॥ न तेषां हृदये दक्ष रूपं योगमयं परम् । शोभते गणराजस्य योगाकारमपि स्फुटम् ॥४॥ योगिनस्तं विशेषेण जानंति योगरूपिणम् । तत्र भेदं प्रवक्ष्यामि शृणुष्वैकाग्र- मानसः ॥५॥ समष्टिव्यष्टिरूपाख्यं ब्रह्म वेदे प्रकीर्तितम् । कुंभस्थले गणेशस्य पश्यंति तन्मये च ते ॥६॥ त्रिविधं विविधं दक्ष त्रिनेत्रे संगतं महः । पश्यंति योगिनस्तस्य गणेशस्य महात्मनः ॥७॥ महाकारणरूपा तु शुंडा तस्य प्रकीर्तिता । बिंदुः कंठस्तथा दंतः सोऽहं मात्रात्मकः स्मृतः ॥८॥ बोधरूपं गणेशस्य जठरं सांख्यवाचकौ । कर्णौ चतुर्विधं ब्रह्म चतुर्भुजमयं स्मृतम् ॥९॥ मायामोहयुतं ब्रह्म मोहहीनं सुसाक्षिकम् । द्वौ पादौ गणराजस्य पश्यंति योगिनः किल ॥१०॥ संहारारूयं च यद्ब्रह्म परशुस्तस्य शोभनः । नियंतारूयं तथा दक्ष अंकुशश्च महात्मनः ॥११॥ कमलं सृष्टिरूपाख्यं पाशं मोहमयं परम् । बंधमोक्षात्मकं हंत दुष्टनाशकरं मुदा ॥१२॥ अभयं भक्तजातिभ्यो रक्षकं वाञ्छितप्रदम् । वरं सकामकानां तु कामदं तं वदंति ते ॥१३॥ चिंतामणिं मणिं तत्र भुक्तिमुक्तिप्रदं परम् । अक्षीणतेजसं चंद्रममृतं ब्रह्म निश्चितम् ॥१४॥ स्वानंदारूयं परं ब्रह्म तदेव नगरं प्रभोः । इक्षुसागररूपं च रसाणां ब्रह्म कथ्यते ॥१५॥ पंचचित्तमयी बुद्धिस्तत्रैश्वर्य- भ्रमात्मिका । सिद्धिर्माये वदंत्येव योगिनो योगभावतः ॥१६॥ मूषकं व्यापकारूयं च परं पश्यंति वाहनम् । धर्माधर्मौ गणेशयोरःपृष्ठे पार्श्वगे किल ॥१७॥ शुभाशुभेऽथ रोमाणि ओषध्यश्च प्रकीर्तिताः । कल्पा उन्मेषणं तस्य निमेषणं प्रजापते ॥१८॥ लक्षलाभौ सुतौ तस्य सर्वकार्यप्रवर्तकौ । यादृशं क्रियते लक्ष्यं तादृशं फलमश्नुते ॥१९॥ इत्यादि विविधं तस्य ब्रह्माकारं न संशयः । सर्वं तेन गणाध्यक्षो ब्रह्मणस्पतिरुच्यते ॥२०॥ योगिनः शुकमुख्यास्तं ध्यायन्ते देहधारिणम् । ब्रह्मरूपं सुसाकारं निराकारमयं विभुम् ॥२१॥ सगुणं कंठपर्यन्तं निर्गुणं गजवाचकम् । मस्तकं च तयोर्योगे योगं जानंति विप्रपम् ॥२२॥ योगिध्येयमतो वेदादिषु संकथितं विधे । रूपं गणपतेः प्रोक्तं योगाकारं स्वभावतः ॥२३॥ दक्ष उवाच । मूषको वाहनं तस्य कथं बभूव विप्रप । तन्मे ब्रूहि विशेषेण सर्वज्ञोऽसि कृपानिधे ॥२४॥ मुद्गल उवाच । मायया व्यापकं ब्रह्मा मोह्य नानाजनान् परान् । भुंक्ते भोगांस्तत्कृतांस्तच्छुभाशुभविवर्जितम्

मुद्गल पुराण (अष्टावतार चरितम्) · पृष्ठ 925, कुल 1023 में से · BharatKosha