मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 924, कुल 1023 में से
संदर्भ में पढ़ेंख. ८ अ. ४९ पान १९५ ॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐ समर्पितं किल ॥६३॥ योगाकारेण विघ्नेश एकानेकादिसंश्रितः । भुंक्ते स विविधान् भोगान् शुभाशुभसमाश्रितान् ॥६४॥ नाहं नरः स्वयं साक्षात् क्रीडति गणनायकः । स्वामिसेवकभावेन रतो ब्रह्मणि शोभते ॥६५॥ अनेन विधिना विप्रा भजंते गणनायकम् । योगिनः शुकमुख्याश्च मुद्गलाद्या महर्षयः ॥६६॥ एतत्सर्वं समाख्यातं गुह्यं गणपतेर्मया । हृदयं तेन विघ्नेशं तोषयध्वं महर्षयः ॥६७॥ यथा देहेंद्रियायेषु मुख्यं स्वहृदयं स्मृतम् । यत्र जीवस्वरूपेण तिष्ठति गणनायकः ॥६८॥ तथा गणपतेरेतत् हृदयं परिकीर्तितम् । अत्र योगपतिः साक्षात्तिष्ठति ब्रह्मनायकः ॥६९॥ अनेन गणनाथं तु यस्तोष्यति नरोत्तमः । स भुक्त्वा सकलान् भोगानंते योगमयो भवेत् ॥७०॥ एवं मदीयवाक्यं ते श्रुत्वा ब्रह्मसुताः परम् । प्रणम्य मां ययुः सर्वे सनकाद्यास्तपोवनम् ॥७१॥ एकाक्षरस्य मंत्रस्य पंचकं सेव्य योगिनः । गणेशहृदयं ज्ञात्वा गाणपत्या बभूविरे ॥७२॥ ततो नित्यं गणेशस्य हृदयं ते महर्षयः । जपंति भक्तिसंयुक्ता भ्रमंति स्वेच्छयेरिताः ॥७३॥ अतस्त्वमपि भावेन गणेशहृदयं परम् । सेवस्व गाणपत्येषु तथा मुख्यो भविष्यसि ॥७४॥ मुद्गल उवाच । एवमुक्त्वा महानागं शेषाय प्रददौ शिवः । मंत्रमेकाक्षरं सांगं स ययौ तं प्रणम्य च ॥७५॥ साधयित्वा यथान्यायं हृदयज्ञो बभूव ह । नित्यं हृदयकेनैव तुष्टाव द्विरदाननम् ॥७६॥ गणेशहृदयं पुण्यं शृणुयाच्छ्रावयेन्नरः । ईप्सितं प्राप्नुयादंते ब्रह्मभूतो भवेदिदम् ॥७७॥ नित्यं पठेन्नरश्चेदं हृदयं गणपस्य यः । स गणेशो न संदेहो दर्शनात् सिद्धिदो भवेत् ॥७८॥ पुत्रपौत्रकलत्रादि लभते पाठतो नरः । धनं सुविपुलं धान्यमारोग्यमचलां श्रियम् ॥७९॥ एकविंशतिवारं यो दिवसानेकविंशतिम् । पठेद्गणपतिं चिंत्यं स लभेदीप्सितं फलम् ॥८०॥ असाध्यं साधयेन् मर्त्यो गणेशहृदयेन यत् । राजबंधात्रिकालेषु मोचयेत् पाठतो विधे ॥८१॥ मारणोच्चाटनादीनि वश्यमोहादिकानि तु । अनेन साधयेन्मर्त्यः परकृत्यं प्रणाशयेत् ॥८२॥ संग्रामे जयमाप्नोति वीरश्रीसंयुतो भवेत् । अस्य पाठेन भो दक्ष न किंचिद् दुर्लभं भवेत् ॥८३॥ विद्यामायुर्यशः प्रज्ञामंगहीनोऽंगमाप्नुयात् । यं यं चिंतयते मर्त्यस्तं तं प्राप्नोति निश्चितम् ॥८४॥ नानेन सदृशं किंचित् शीघ्रसिद्धिकरं भवेत् । साक्षाद्गणपतेः प्रोक्तं हृदयं ते मया विधे ॥८५॥ गणेशभक्तिहीनाय दुर्विनीताय विद्विषे । न देयं गणराजस्य हृदयं वै कदाचन ॥८६॥ गणेशभक्तियुक्ताय साधवे च प्रयत्नतः । दातव्यं तेन विघ्नेशः सुप्रसन्नो भविष्यति ॥८७॥ महासिद्धिप्रदं तुभ्यं कथितं गणपस्य च । हृदयं किं पुनः श्रोतुमिच्छसि त्वं प्रजापते ॥८८॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते गणेशहृदयकथनं नामैकोनपंचाशत्तमोऽध्यायः ॥ ॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐ