भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 923, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 923

[पान १२४]

प्रणतोऽस्मि नित्यम् ॥३९॥ भुक्तिं च मुक्तिं प्रददाति तुष्टो भक्तिप्रियो यो निजविग्रहा च । भक्त्या विहीनाय ददाति विघ्नांस्तं विघ्नराजं प्रणमामि नित्यम् ॥४०॥ नामार्थयुक्तं कथितं प्रिये ते विघ्नेश्वरस्यैव परं रहस्यम् । त्रिः सप्त नाम्नां हृदयं नरो यो ज्ञात्वा परं ब्रह्ममयो भवेदिह ॥४१॥ गंगोवाच । नाम्नां यत् हृदयं प्रोक्तं त्वया ब्रह्मपदं परम् । न तत्रानुभवो मे तु तदर्थं वद शंकर ॥४२॥ शंकर उवाच । मंत्रं गृह्य गणेशस्य पुरश्चरणमार्गतः । भज तं तेन ते ज्ञानं भविष्यति न संशयः ॥४३॥ हृदयं मंत्रराजस्य कथयामि समासतः । मंत्र एव गणेशानो न भिन्नस्तत्र वर्तते ॥४४॥ गकारो ब्रह्मदेवश्चाऽकारो विष्णुः प्रकीर्तितः । बिंदुः शिवस्तथा भानुरनुनासिकसंज्ञितः ॥४५॥ तेषां संधिर्महाशक्तिरेभिर्मंत्रः स उच्यते । देवता गणनायस्तु तेषां संयोगकारकः ॥४६॥ तेभ्यस्तारमयं विश्वं समुत्पन्नं प्रिये पुरा । अतस्तारयुतो मंत्रो गणेशैकाक्षराकृतिः ॥४७॥ तारः स षड्विधः प्रोक्तस्तं निबोध सरिद्वरे । अकारोकारकौ प्रोक्तौ मकारो नादबिंदुकौ ॥४८॥ शून्यं विद्धि महामाये तत्र भेदं वदाम्यहम् । शून्यं देहिस्वरूपं तु बिंदुर्देह इति स्मृतः ॥४९॥ ताभ्यां चतुर्विधं विश्वं स्थूलादिभेदकारकम् । एतादृशं विजानीहि मंत्रराजं गजाननम् ॥५०॥ आगमोक्तविधानेन कृत्वा न्यासादिकं पुरा । ततो गणेश्वरं पूज्य जपं कुर्याद्विचक्षणः ॥५१॥ तद्दशांशेन होमं वै कुर्यादागममार्गतः । तद्दशांशामितं प्रोक्तं तर्पणं गणपस्य च ॥५२॥ तद्दशांशमितं देवि मार्जनं तद्दशांशतः । विप्राणां भोजनं प्रोक्तमेवं पंचांगमुच्यते ॥५३॥ यथाविधि कृतं चैतत् सद्यो हि फलदं भवेत् । अतस्त्वं मंत्रराजस्य पंचकं तत् समाचर ॥५४॥ एवमुक्त्वाऽददात्तस्यै मंत्रं विधिसमन्वितम् । गणेशस्य प्रणम्यैव मां ययौ सा तपोर्थतः ॥५५॥ मयूरेशं समासाद्य चकार तपमुत्तमम् । गंगा तत्रैव विप्रेशा मंत्रध्यानपरायणा ॥५६॥ पुरश्चरणमेकं सा चकार सरितां वरा । ततः प्रसन्नतां यातो गणेशो भक्तवत्सलः ॥५७॥ तस्यैव कृपया तस्या हृदि ध्यानं बभूव ह । तेनैक- विंशतिनाम्नार्थज्ञा तत्क्षणादभूत् ॥५८॥ ततो हर्षयुता देवी तत्र वासं चकार सा । नित्यं भक्तिसमायुक्ताऽभजत्तं गणनायकम् ॥५९॥ सनकाद्या ऊचुः । ब्रह्मभूता सरिच्छ्रेष्ठा मयूरेशं कथं प्रभो । अभजत्तस्य मार्गं नो ब्रूहि नाथ नमोऽस्तु ते ॥६०॥ शिव उवाच । ब्रह्मभूतो नरो योगी गणेशमभजत् सदा । नवधा भक्तिभावेन तत्परश्च महर्षयः ॥६१॥ पुत्रः कलत्रं जनकौ सुहृद्गणो द्रव्यं सखा वृत्तिजविद्यया युतम् । स्वर्गस्तु मोक्षो विविधं त्वमेव मे स्वामी गुरुर्विघ्नपतिः परात्परः ॥६२॥ सांसर्गिकं कायिकवाचिकं परं कर्माऽचरं मानसजं त्रिदेहतः । ज्ञानं हृदिस्थं च मया परात्परं विघ्नेश्वरायेति

मुद्गल पुराण (अष्टावतार चरितम्) · पृष्ठ 923, कुल 1023 में से · BharatKosha