मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 922, कुल 1023 में से
संदर्भ में पढ़ेंखं. ८ अ. ४९ | पान ११३ प्रकीर्तिता गणेशमेकं प्रणमाम्यहं परम् ॥२०॥ मायास्वरूपं तु सदैकवाचकं दंतः परो मायिकरूपधारकः । योगे तयोरेकरदं सुमानिनि धीस्थं नतोऽहं जनभक्तिलालसम् ॥२१॥ चित्तप्रकाशं विविधेषु संस्थं लिप्तं न लेपादि विवर्जितं तम् । भोगैर्वि- हीनं त्वथ भोगकारं चिंतामणिं तं प्रणमामि नित्यम् ॥२२॥ विनायकं नायकवर्जितं प्रिये विशेषतो नायकमीश्वरात्मनाम् । निरंकुशं तं प्रणमामि सर्वदं सदात्मकं भावयुतेन चेतसा ॥२३॥ वेदाः पुराणानि महेश्वरादिकाः शास्त्राणि योगेश्वर- देवमानवाः। नागासुरा ब्रह्मगणाश्च जंतवो ढुंढंति वंदे त्वथ ढुंढिराजकम् ॥२४॥ मायार्थवाच्यो हि मयूरभावो नाना भ्रमार्थं प्रकरोति तेन । तस्मान् मयूरेशमथो वदंति नमामि मायापतिमासमंतात् ॥२५॥ यस्योदराद्विश्वमिदं प्रसूतं ब्रह्माणि तद्गज्जठरे स्थितानि । अनंतरूपं जठरं हि यस्य लंबोदरं तं प्रणतोऽस्मि नित्यम् ॥२६॥ जगद्गलाधो गणनायकस्य गजात्मकं ब्रह्मशिरः परेशम् । तयोश्च योगे प्रवदंति सर्वे गजाननं तं प्रणमामि नित्यम् ॥२७॥ दीनार्थवाच्यस्त्वथ हेर्जगद्द्रो ब्रह्मार्थ- वाच्यो निगेमषु रंबः । तत्पालकत्वाच्च तयोः प्रयोगे हेरंबमेकं प्रणमामि नित्यम् ॥२८॥ विश्वात्मकं यस्य शरीरमेकं तस्माच्च वक्रं परमात्मरूपम् । तुंडं तदेवं हि तयोः प्रयोगे तं वक्रतुंडं प्रणमामि नित्यम् ॥२९॥ माता पिताऽयं जगतां परेषां तस्याऽपि माता जनकादिकं न । श्रेष्ठं वदंते निगमाः परेशं तं ज्येष्ठराजं प्रणमामि नित्यम् ॥३०॥ नाना चतुःस्थं विविधात्मकेन संयोगरूपेण निजस्वरूपम् । पूर्णस्य सा पूर्णसमाधिरूपा स्वानंदनाथं प्रणमामि चातः ॥३१॥ मनोरथान् पूरयतीह गंगे चराचराणां जगतां परेषाम् । अतो गणेशं प्रवदंति चाशाप्रपूरकं तं प्रणमामि नित्यम् ॥३२॥ वरैः समास्थापितमेव सर्वं विश्वं तथा ब्रह्मविहारिणा च । अतः परं विप्रमुखा वदंति वरप्रदं तं वरदं नतोऽस्मि ॥३३॥ मायामयं सर्वमिदं विभाति मिथ्यास्वरूपं भ्रमदायकं च । तस्मात् परं ब्रह्म वदंति सत्यमेनं परेशं विकटं नमामि ॥३४॥ चित्तस्य प्रोक्ता मुनिभिः पृथिव्यो नानाविधा योगिभिरेव गंगे । तासां सदा धारक एक एव वंदे च धरणीधरमादिभूतम् ॥३५॥ विश्वात्मिका ब्रह्ममयी हि बुद्धिस्तस्या विमोहप्रदिका च सिद्धिः । ताभ्यां सदा खेलति योगनाथस्तं सिद्धिबुद्धीशमथो नमामि ॥३६॥ असत्यसत् साम्य- तुरीयनैज्यगन्निवृत्तिरूपाणि विरच्य खेलकः । सदा स्वयं योगमयेन भाति तं नमाम्यतोऽहं त्वथ ब्रह्मणस्पतिम् ॥३७॥ अमंगलं विश्वमिदं सहात्मभिरयोगसंयोगयुतं प्रणश्वरम् । ततः परं मंगलरूपधारकं नमामि मांगल्यपतिं सुशांतिदम् ॥३८॥ सर्वत्र मान्यं सकलावभासकं सुज्ञैः शुभादावशुभादिपूजितम् । पूज्यं न तस्मान्निगमादिसंमतं तं सर्वपूज्यं