मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
खं. ८ अ. ४९ | पान ११३ प्रकीर्तिता गणेशमेकं प्रणमाम्यहं परम् ॥२०॥ मायास्वरूपं तु सदैकवाचकं दंतः परो मायिकरूपधारकः । योगे तयोरेकरदं सुमानिनि धीस्थं नतोऽहं जनभक्तिलालसम् ॥२१॥ चित्तप्रकाशं विविधेषु संस्थं लिप्तं न लेपादि विवर्जितं तम् । भोगैर्वि- हीनं त्वथ भोगकारं चिंतामणिं तं प्रणमामि नित्यम् ॥२२॥ विनायकं नायकवर्जितं प्रिये विशेषतो नायकमीश्वरात्मनाम् । निरंकुशं तं प्रणमामि सर्वदं सदात्मकं भावयुतेन चेतसा ॥२३॥ वेदाः पुराणानि महेश्वरादिकाः शास्त्राणि योगेश्वर- देवमानवाः। नागासुरा ब्रह्मगणाश्च जंतवो ढुंढंति वंदे त्वथ ढुंढिराजकम् ॥२४॥ मायार्थवाच्यो हि मयूरभावो नाना भ्रमार्थं प्रकरोति तेन । तस्मान् मयूरेशमथो वदंति नमामि मायापतिमासमंतात् ॥२५॥ यस्योदराद्विश्वमिदं प्रसूतं ब्रह्माणि तद्गज्जठरे स्थितानि । अनंतरूपं जठरं हि यस्य लंबोदरं तं प्रणतोऽस्मि नित्यम् ॥२६॥ जगद्गलाधो गणनायकस्य गजात्मकं ब्रह्मशिरः परेशम् । तयोश्च योगे प्रवदंति सर्वे गजाननं तं प्रणमामि नित्यम् ॥२७॥ दीनार्थवाच्यस्त्वथ हेर्जगद्द्रो ब्रह्मार्थ- वाच्यो निगेमषु रंबः । तत्पालकत्वाच्च तयोः प्रयोगे हेरंबमेकं प्रणमामि नित्यम् ॥२८॥ विश्वात्मकं यस्य शरीरमेकं तस्माच्च वक्रं परमात्मरूपम् । तुंडं तदेवं हि तयोः प्रयोगे तं वक्रतुंडं प्रणमामि नित्यम् ॥२९॥ माता पिताऽयं जगतां परेषां तस्याऽपि माता जनकादिकं न । श्रेष्ठं वदंते निगमाः परेशं तं ज्येष्ठराजं प्रणमामि नित्यम् ॥३०॥ नाना चतुःस्थं विविधात्मकेन संयोगरूपेण निजस्वरूपम् । पूर्णस्य सा पूर्णसमाधिरूपा स्वानंदनाथं प्रणमामि चातः ॥३१॥ मनोरथान् पूरयतीह गंगे चराचराणां जगतां परेषाम् । अतो गणेशं प्रवदंति चाशाप्रपूरकं तं प्रणमामि नित्यम् ॥३२॥ वरैः समास्थापितमेव सर्वं विश्वं तथा ब्रह्मविहारिणा च । अतः परं विप्रमुखा वदंति वरप्रदं तं वरदं नतोऽस्मि ॥३३॥ मायामयं सर्वमिदं विभाति मिथ्यास्वरूपं भ्रमदायकं च । तस्मात् परं ब्रह्म वदंति सत्यमेनं परेशं विकटं नमामि ॥३४॥ चित्तस्य प्रोक्ता मुनिभिः पृथिव्यो नानाविधा योगिभिरेव गंगे । तासां सदा धारक एक एव वंदे च धरणीधरमादिभूतम् ॥३५॥ विश्वात्मिका ब्रह्ममयी हि बुद्धिस्तस्या विमोहप्रदिका च सिद्धिः । ताभ्यां सदा खेलति योगनाथस्तं सिद्धिबुद्धीशमथो नमामि ॥३६॥ असत्यसत् साम्य- तुरीयनैज्यगन्निवृत्तिरूपाणि विरच्य खेलकः । सदा स्वयं योगमयेन भाति तं नमाम्यतोऽहं त्वथ ब्रह्मणस्पतिम् ॥३७॥ अमंगलं विश्वमिदं सहात्मभिरयोगसंयोगयुतं प्रणश्वरम् । ततः परं मंगलरूपधारकं नमामि मांगल्यपतिं सुशांतिदम् ॥३८॥ सर्वत्र मान्यं सकलावभासकं सुज्ञैः शुभादावशुभादिपूजितम् । पूज्यं न तस्मान्निगमादिसंमतं तं सर्वपूज्यं
[पान १२४]
प्रणतोऽस्मि नित्यम् ॥३९॥ भुक्तिं च मुक्तिं प्रददाति तुष्टो भक्तिप्रियो यो निजविग्रहा च । भक्त्या विहीनाय ददाति विघ्नांस्तं विघ्नराजं प्रणमामि नित्यम् ॥४०॥ नामार्थयुक्तं कथितं प्रिये ते विघ्नेश्वरस्यैव परं रहस्यम् । त्रिः सप्त नाम्नां हृदयं नरो यो ज्ञात्वा परं ब्रह्ममयो भवेदिह ॥४१॥ गंगोवाच । नाम्नां यत् हृदयं प्रोक्तं त्वया ब्रह्मपदं परम् । न तत्रानुभवो मे तु तदर्थं वद शंकर ॥४२॥ शंकर उवाच । मंत्रं गृह्य गणेशस्य पुरश्चरणमार्गतः । भज तं तेन ते ज्ञानं भविष्यति न संशयः ॥४३॥ हृदयं मंत्रराजस्य कथयामि समासतः । मंत्र एव गणेशानो न भिन्नस्तत्र वर्तते ॥४४॥ गकारो ब्रह्मदेवश्चाऽकारो विष्णुः प्रकीर्तितः । बिंदुः शिवस्तथा भानुरनुनासिकसंज्ञितः ॥४५॥ तेषां संधिर्महाशक्तिरेभिर्मंत्रः स उच्यते । देवता गणनायस्तु तेषां संयोगकारकः ॥४६॥ तेभ्यस्तारमयं विश्वं समुत्पन्नं प्रिये पुरा । अतस्तारयुतो मंत्रो गणेशैकाक्षराकृतिः ॥४७॥ तारः स षड्विधः प्रोक्तस्तं निबोध सरिद्वरे । अकारोकारकौ प्रोक्तौ मकारो नादबिंदुकौ ॥४८॥ शून्यं विद्धि महामाये तत्र भेदं वदाम्यहम् । शून्यं देहिस्वरूपं तु बिंदुर्देह इति स्मृतः ॥४९॥ ताभ्यां चतुर्विधं विश्वं स्थूलादिभेदकारकम् । एतादृशं विजानीहि मंत्रराजं गजाननम् ॥५०॥ आगमोक्तविधानेन कृत्वा न्यासादिकं पुरा । ततो गणेश्वरं पूज्य जपं कुर्याद्विचक्षणः ॥५१॥ तद्दशांशेन होमं वै कुर्यादागममार्गतः । तद्दशांशामितं प्रोक्तं तर्पणं गणपस्य च ॥५२॥ तद्दशांशमितं देवि मार्जनं तद्दशांशतः । विप्राणां भोजनं प्रोक्तमेवं पंचांगमुच्यते ॥५३॥ यथाविधि कृतं चैतत् सद्यो हि फलदं भवेत् । अतस्त्वं मंत्रराजस्य पंचकं तत् समाचर ॥५४॥ एवमुक्त्वाऽददात्तस्यै मंत्रं विधिसमन्वितम् । गणेशस्य प्रणम्यैव मां ययौ सा तपोर्थतः ॥५५॥ मयूरेशं समासाद्य चकार तपमुत्तमम् । गंगा तत्रैव विप्रेशा मंत्रध्यानपरायणा ॥५६॥ पुरश्चरणमेकं सा चकार सरितां वरा । ततः प्रसन्नतां यातो गणेशो भक्तवत्सलः ॥५७॥ तस्यैव कृपया तस्या हृदि ध्यानं बभूव ह । तेनैक- विंशतिनाम्नार्थज्ञा तत्क्षणादभूत् ॥५८॥ ततो हर्षयुता देवी तत्र वासं चकार सा । नित्यं भक्तिसमायुक्ताऽभजत्तं गणनायकम् ॥५९॥ सनकाद्या ऊचुः । ब्रह्मभूता सरिच्छ्रेष्ठा मयूरेशं कथं प्रभो । अभजत्तस्य मार्गं नो ब्रूहि नाथ नमोऽस्तु ते ॥६०॥ शिव उवाच । ब्रह्मभूतो नरो योगी गणेशमभजत् सदा । नवधा भक्तिभावेन तत्परश्च महर्षयः ॥६१॥ पुत्रः कलत्रं जनकौ सुहृद्गणो द्रव्यं सखा वृत्तिजविद्यया युतम् । स्वर्गस्तु मोक्षो विविधं त्वमेव मे स्वामी गुरुर्विघ्नपतिः परात्परः ॥६२॥ सांसर्गिकं कायिकवाचिकं परं कर्माऽचरं मानसजं त्रिदेहतः । ज्ञानं हृदिस्थं च मया परात्परं विघ्नेश्वरायेति
ख. ८ अ. ४९ पान १९५ ॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐ समर्पितं किल ॥६३॥ योगाकारेण विघ्नेश एकानेकादिसंश्रितः । भुंक्ते स विविधान् भोगान् शुभाशुभसमाश्रितान् ॥६४॥ नाहं नरः स्वयं साक्षात् क्रीडति गणनायकः । स्वामिसेवकभावेन रतो ब्रह्मणि शोभते ॥६५॥ अनेन विधिना विप्रा भजंते गणनायकम् । योगिनः शुकमुख्याश्च मुद्गलाद्या महर्षयः ॥६६॥ एतत्सर्वं समाख्यातं गुह्यं गणपतेर्मया । हृदयं तेन विघ्नेशं तोषयध्वं महर्षयः ॥६७॥ यथा देहेंद्रियायेषु मुख्यं स्वहृदयं स्मृतम् । यत्र जीवस्वरूपेण तिष्ठति गणनायकः ॥६८॥ तथा गणपतेरेतत् हृदयं परिकीर्तितम् । अत्र योगपतिः साक्षात्तिष्ठति ब्रह्मनायकः ॥६९॥ अनेन गणनाथं तु यस्तोष्यति नरोत्तमः । स भुक्त्वा सकलान् भोगानंते योगमयो भवेत् ॥७०॥ एवं मदीयवाक्यं ते श्रुत्वा ब्रह्मसुताः परम् । प्रणम्य मां ययुः सर्वे सनकाद्यास्तपोवनम् ॥७१॥ एकाक्षरस्य मंत्रस्य पंचकं सेव्य योगिनः । गणेशहृदयं ज्ञात्वा गाणपत्या बभूविरे ॥७२॥ ततो नित्यं गणेशस्य हृदयं ते महर्षयः । जपंति भक्तिसंयुक्ता भ्रमंति स्वेच्छयेरिताः ॥७३॥ अतस्त्वमपि भावेन गणेशहृदयं परम् । सेवस्व गाणपत्येषु तथा मुख्यो भविष्यसि ॥७४॥ मुद्गल उवाच । एवमुक्त्वा महानागं शेषाय प्रददौ शिवः । मंत्रमेकाक्षरं सांगं स ययौ तं प्रणम्य च ॥७५॥ साधयित्वा यथान्यायं हृदयज्ञो बभूव ह । नित्यं हृदयकेनैव तुष्टाव द्विरदाननम् ॥७६॥ गणेशहृदयं पुण्यं शृणुयाच्छ्रावयेन्नरः । ईप्सितं प्राप्नुयादंते ब्रह्मभूतो भवेदिदम् ॥७७॥ नित्यं पठेन्नरश्चेदं हृदयं गणपस्य यः । स गणेशो न संदेहो दर्शनात् सिद्धिदो भवेत् ॥७८॥ पुत्रपौत्रकलत्रादि लभते पाठतो नरः । धनं सुविपुलं धान्यमारोग्यमचलां श्रियम् ॥७९॥ एकविंशतिवारं यो दिवसानेकविंशतिम् । पठेद्गणपतिं चिंत्यं स लभेदीप्सितं फलम् ॥८०॥ असाध्यं साधयेन् मर्त्यो गणेशहृदयेन यत् । राजबंधात्रिकालेषु मोचयेत् पाठतो विधे ॥८१॥ मारणोच्चाटनादीनि वश्यमोहादिकानि तु । अनेन साधयेन्मर्त्यः परकृत्यं प्रणाशयेत् ॥८२॥ संग्रामे जयमाप्नोति वीरश्रीसंयुतो भवेत् । अस्य पाठेन भो दक्ष न किंचिद् दुर्लभं भवेत् ॥८३॥ विद्यामायुर्यशः प्रज्ञामंगहीनोऽंगमाप्नुयात् । यं यं चिंतयते मर्त्यस्तं तं प्राप्नोति निश्चितम् ॥८४॥ नानेन सदृशं किंचित् शीघ्रसिद्धिकरं भवेत् । साक्षाद्गणपतेः प्रोक्तं हृदयं ते मया विधे ॥८५॥ गणेशभक्तिहीनाय दुर्विनीताय विद्विषे । न देयं गणराजस्य हृदयं वै कदाचन ॥८६॥ गणेशभक्तियुक्ताय साधवे च प्रयत्नतः । दातव्यं तेन विघ्नेशः सुप्रसन्नो भविष्यति ॥८७॥ महासिद्धिप्रदं तुभ्यं कथितं गणपस्य च । हृदयं किं पुनः श्रोतुमिच्छसि त्वं प्रजापते ॥८८॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते गणेशहृदयकथनं नामैकोनपंचाशत्तमोऽध्यायः ॥ ॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐ
[Header] खं. ८ अ. ५० पान ११६
॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । योगिध्येयं गणेशस्य रूपं सर्वत्र संमतम् । ध्यातुं त्वयोगिभिः शक्यं प्रत्यक्षं नाऽत्र संशयः ॥१॥ कथं वेदादिषु प्रोक्तं योगिध्येयमनुत्तमम् । वद तत् कारणं विप्र संशयस्यापनुत्तये ॥२॥ मुद्गल उवाच । अयोगिनो गणेशानं पंचभूतमयं प्रभुम् । जानंति सर्वतुल्यं तं देहधारिणमंजसा ॥३॥ न तेषां हृदये दक्ष रूपं योगमयं परम् । शोभते गणराजस्य योगाकारमपि स्फुटम् ॥४॥ योगिनस्तं विशेषेण जानंति योगरूपिणम् । तत्र भेदं प्रवक्ष्यामि शृणुष्वैकाग्र- मानसः ॥५॥ समष्टिव्यष्टिरूपाख्यं ब्रह्म वेदे प्रकीर्तितम् । कुंभस्थले गणेशस्य पश्यंति तन्मये च ते ॥६॥ त्रिविधं विविधं दक्ष त्रिनेत्रे संगतं महः । पश्यंति योगिनस्तस्य गणेशस्य महात्मनः ॥७॥ महाकारणरूपा तु शुंडा तस्य प्रकीर्तिता । बिंदुः कंठस्तथा दंतः सोऽहं मात्रात्मकः स्मृतः ॥८॥ बोधरूपं गणेशस्य जठरं सांख्यवाचकौ । कर्णौ चतुर्विधं ब्रह्म चतुर्भुजमयं स्मृतम् ॥९॥ मायामोहयुतं ब्रह्म मोहहीनं सुसाक्षिकम् । द्वौ पादौ गणराजस्य पश्यंति योगिनः किल ॥१०॥ संहारारूयं च यद्ब्रह्म परशुस्तस्य शोभनः । नियंतारूयं तथा दक्ष अंकुशश्च महात्मनः ॥११॥ कमलं सृष्टिरूपाख्यं पाशं मोहमयं परम् । बंधमोक्षात्मकं हंत दुष्टनाशकरं मुदा ॥१२॥ अभयं भक्तजातिभ्यो रक्षकं वाञ्छितप्रदम् । वरं सकामकानां तु कामदं तं वदंति ते ॥१३॥ चिंतामणिं मणिं तत्र भुक्तिमुक्तिप्रदं परम् । अक्षीणतेजसं चंद्रममृतं ब्रह्म निश्चितम् ॥१४॥ स्वानंदारूयं परं ब्रह्म तदेव नगरं प्रभोः । इक्षुसागररूपं च रसाणां ब्रह्म कथ्यते ॥१५॥ पंचचित्तमयी बुद्धिस्तत्रैश्वर्य- भ्रमात्मिका । सिद्धिर्माये वदंत्येव योगिनो योगभावतः ॥१६॥ मूषकं व्यापकारूयं च परं पश्यंति वाहनम् । धर्माधर्मौ गणेशयोरःपृष्ठे पार्श्वगे किल ॥१७॥ शुभाशुभेऽथ रोमाणि ओषध्यश्च प्रकीर्तिताः । कल्पा उन्मेषणं तस्य निमेषणं प्रजापते ॥१८॥ लक्षलाभौ सुतौ तस्य सर्वकार्यप्रवर्तकौ । यादृशं क्रियते लक्ष्यं तादृशं फलमश्नुते ॥१९॥ इत्यादि विविधं तस्य ब्रह्माकारं न संशयः । सर्वं तेन गणाध्यक्षो ब्रह्मणस्पतिरुच्यते ॥२०॥ योगिनः शुकमुख्यास्तं ध्यायन्ते देहधारिणम् । ब्रह्मरूपं सुसाकारं निराकारमयं विभुम् ॥२१॥ सगुणं कंठपर्यन्तं निर्गुणं गजवाचकम् । मस्तकं च तयोर्योगे योगं जानंति विप्रपम् ॥२२॥ योगिध्येयमतो वेदादिषु संकथितं विधे । रूपं गणपतेः प्रोक्तं योगाकारं स्वभावतः ॥२३॥ दक्ष उवाच । मूषको वाहनं तस्य कथं बभूव विप्रप । तन्मे ब्रूहि विशेषेण सर्वज्ञोऽसि कृपानिधे ॥२४॥ मुद्गल उवाच । मायया व्यापकं ब्रह्मा मोह्य नानाजनान् परान् । भुंक्ते भोगांस्तत्कृतांस्तच्छुभाशुभविवर्जितम्
खं. ८ अ. ५० | पान ११७
॥२५॥ मुषस्तेये समाख्यातो धातुः स एव मूषकः। व्यापकश्चौरवत् सर्वान् भुंक्ते मोह्य हृदि स्थितः ॥२६॥ तपसाऽऽराधित- स्तेन व्यापकेन गजाननः। प्रसन्नो वाहनं चक्रे तत्प्रीतिवर्धनार्थतः ॥२७॥ एतत्सर्वं समाख्यातं धूम्रवर्णचरित्रकम् । नानाख्यानसमायुक्तं सर्वसिद्धिप्रदायकम् ॥२८॥ य इदं श्रावयेद्दक्ष शृणुयाद्वा पठेन्नरः। स सर्वसुखसंयुक्तोऽन्ते ब्रह्मणि गतो भवेत् ॥२९॥ नानेन सदृशं किंचित् सर्वसिद्धिकरं परम् । यत्र साक्षाद्गणेशानः कीर्त्यते धूम्रवर्णकः ॥३०॥ यं यमिच्छति तं तं स लभेदनेन निश्चितम् । श्रवणेन न संदेहो मानवः शुभमश्नुते ॥३१॥ लेखयित्वा गृहे यस्तु पूजयेत् पुस्तकं नरः । न तत्र राक्षसादिभ्यो भयं भवति कर्हिचित् ॥३२॥ भोगान् भुक्त्वा स विविधान् पुत्रपौत्रसुहृद् वृतः । अंते सानंदगो भूत्वा गणेशे तन्मयो भवेत् ॥३३॥ धर्मार्थकाममोक्षाणां दायकः श्रवणेन च। पठनेन न संदेहः खंडोऽयं धूम्रवर्णकः ॥३४॥ तीर्थानि विविधान्येव तपः कुर्यान्नरोत्तमः। विविधं तत् फलं सद्य अस्य श्रवणतो लभेत् ॥३५॥ इष्टापूर्तादिकं यस्तु कुर्यात् यात्रादिकार्चनम् । विविधं स लभेत् पुण्यमस्य श्रवणतो नरः॥३६॥ बहुनाऽत्र किमुक्तेन नानेन सदृशं परम्। किंचिन्नाना- विधेष्वेव साधनेषु प्रजापते ॥३७॥ यत्र योगपतिः साक्षाद्वर्ण्यते धूम्रवर्णकः। तेन किं तुल्यतां यांति विचारय महामते ॥३८॥ सर्वसिद्धिकरं पूर्णं कथितं ते चरित्रकम् । धूम्रवर्णस्य संक्षेपाद्यथामति प्रमाणतः ॥३९॥ विस्तरेण शिवाद्याश्च वेदा योगिन एव च। न समर्था भवंतीह तत्र कोऽहं प्रजापते ॥४०॥ अधुना त्वं गणेशानं भज यत्नपरायणः । अथवा श्रोतुमिच्छा ते वदतां कथयाम्यहम् ॥४१॥ सूत उवाच। एवमुक्त्वा महायोगी तूष्णीं मुद्गल आदधे । दक्षो हृष्टमनास्तं तु प्रणाम कृतांजलिः ॥४२॥ धूम्रवर्णचरित्रं तु कथितं ते महामुने । यथा दक्षाय तेनैव कथितं तादृशं परम् ॥४३॥ सर्वसिद्धिकरं चित्रं नानाख्यानसमन्वितम् । श्रुतं त्वया महाभाग किं भूयः श्रोतुमिच्छसि ॥४४॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे अष्टमे खंडे धूम्रवर्णचरिते फलश्रुतिवर्णनं नाम पंचाशत्तमोऽध्यायः ॥ ॥ इति श्रीमुद्गलपुराणे अष्टमः खंडः समाप्तः ॥ ॥ श्रीगजाननार्पणमस्तु ॥
॥ इति श्रीमुद्गलपुराणे अष्टमः खंडः समाप्तः ॥
॥ अथ श्रीमुद्गलपुराणे नवमः खंडः प्रारभ्यते ॥
खं. ९ अ. १ पान १ ॥ श्रीगणेशाय नमः ॥ श्रीगणेशशारदागुरुभ्यो नमः ॥ शौनक उवाच । धूम्रवर्णावतारस्य श्रुत्वा चरितमुत्तमम् । नानाख्यान- समायुक्तं न तृप्तोऽहं महामते ॥१॥ अधुना वद दक्षस्य संवादं मुद्गलस्य च । पुनः किं पृष्टवान् दक्षो मुद्गलाय महर्षये ॥२॥ सूत उवाच । श्रुत्वा माहात्म्यमुख्यं स धूम्रवर्णात्मकं परम् । हृष्टरोमा प्रजानाथः पुनः पप्रच्छ तं मुनिम् ॥३॥ दक्ष उवाच । धन्योऽहं सर्वभावैश्च त्वत्तः श्रुत्वा महाद्भुतम् । चरितं धूम्रवर्णस्य सर्वसिद्धिप्रदायकम् ॥४॥ अधुना वद विप्रेश योगं पूर्णपदप्रदम् । अष्टौ विनायकाः प्रोक्तास्तेषां योगे स्वरूपकम् ॥५॥ स्वानंदः कीदृशो योगोऽयोगस्तथैव कीदृशः । सुशांतिदः पूर्णयोगस्तेषां रूपं सुविस्तरात् ॥६॥ सूत उवाच । एवं पृष्टो महायोगी दक्षेण हर्षसंयुतः । तं जगाद शृणुष्व त्वं द्विजैः शौनक सौख्यदम् ॥७॥ मुद्गल उवाच । स्वानंदात् स्वेच्छया दक्ष ब्रह्माणि निःसृतानि तु । असत् सत् समनेतीति चत्वारि मायया प्रभोः ॥८॥ एकैकाश्रितभावेन सृष्टं तैः सौख्यरूपकम् । ततो बोधस्ततः सोऽहं ततो बिंदुर्महामते ॥९॥ ततश्चतु- र्विधं विश्वं स्थूलं सूक्ष्मं समात्मकम् । नाद एतानि ब्रह्माणि मीलितानि परस्परम् ॥१०॥ निजसत्ताविहीनानि जातानि दैवयोगतः । स्वस्वव्यापारजं भोगं लेभिरे न कदाचन ॥११॥ ततस्तैश्च तपस्तप्तं घोरं चित्तैकभावतः । यस्मै कस्मै नमश्चोक्त्वा मूलभूताय सर्वपैः ॥१२॥ दिव्यवर्षसहस्रेण प्रसन्नो गणपोऽभवत् । हृदिस्थं दर्शयामास मंत्रमेकाक्षरं स्वकम् ॥१३॥ तं दृष्ट्वा हर्षयुक्तानि जेपुर्मंत्रं ततः परम् । गते वर्षशते पूर्णे दर्शयामास स्वं वपुः ॥१४॥ नरकुंजररूपं तु दृष्ट्वा विस्मितमानसैः । सद्यस्तत्कृपया ज्ञानं प्राप्तं तद्रूपबोधकम् ॥१५॥ ज्ञात्वा स्वानंदनाथं तं ब्रह्माणि हर्षतः परम् । तमेव हृदये ध्यात्वा जेपुर्मंत्रं सुसिद्धये ॥१६॥ वर्षेणैकेन विघ्नेशः सुप्रसन्नो बभूव ह । आययौ वरदानार्थं पुरस्तेषां प्रतापवान् ॥१७॥ तं दृष्ट्वा तानि ब्रह्माणि तुष्टुवुः पूज्य विघ्नपम् । बद्ध्वा करपुटं दक्ष स्वस्वसामर्थ्यसिद्धये ॥१८॥ ब्रह्माण्यूचुः । नमस्ते परेशाय विघ्नाधिपाय परेषां सदा सौख्यदात्रे हिताय । स्वसंवेद्यरूपाय चानंददाय निजानंदयोगाय ढूंढे नमस्ते ॥१९॥ अनाथाय नाथाय सर्वात्मनां ते सदा मोहहीनाय नेतिधराय । शिवायाथ त्रैविध्यभावप्रदात्रे निजा- नंदयोगाय ढूंढे नमस्ते ॥२०॥ समायाथ मायास्वरूपाय द्वंद्वप्रकाशाय सर्वात्मकार्यायैव विष्णो । महानंदरूपाय सर्वातिगाय निजानंदयोगाय ढूंढे नमस्ते ॥२१॥ सदा सत्यरूपाय सर्वात्मने ते विकारैर्विहीनाय सूर्याय भूम्ने । अनंताय भेदादिभि- र्वर्जिताय निजानंदयोगाय ढूंढे नमस्ते ॥२२॥ अपारस्वरूपाय नानामयाय विहारेषु सक्ताय पूर्णात्मकाय । महाशक्तये
खं. ९ अ. १ पान २
शक्तिरूपाय मोहिन् निजानंदयोगाय ढुंढे नमस्ते ॥२३॥ निरोधस्वरूपां समास्थाय बुद्धिं निजानंदभ्रांतिप्रदां सिद्धिरूपाम्। प्रविश्यैव तुर्येषु बिंबात्मकाय निजानंदयोगाय ढुंढे नमस्ते ॥२४॥ ततः सांख्यरूपं विनिर्माय तुर्यैस्तदाकाररूपाय वै बोध- काय। सदा स्वात्मनिष्ठाय संकल्पहंत्रे निजानंदयोगाय ढुंढे नमस्ते ॥२५॥ ततो बोधरूपं विनिर्माय बोधस्वरूपाय माया- मयाकारधाम्ने। सदा खेलकायाथ नानाप्रचारिन्निजानंदयोगाय ढुंढे नमस्ते ॥२६॥ ततो देहिरूपाय निर्माय तं वै सदैक- प्रबोधाय भ्रांतेर्धराय। स्वतो भ्रांतिहीनाय सोऽहंप्रदाय निजानंदयोगाय ढुंढे नमस्ते ॥२७॥ ततो बिंदुमात्राय निर्माय बिंदुं चतुर्धा चतुष्पादरूपेण खेलिन्। अनंतस्वरूपाय देहप्रचार निजानंदयोगाय ढुंढे नमस्ते ॥२८॥ ततो नादरूपं विनिर्माय नादस्वरूपाय तत्स्थाय चैतन्यदाय। अजायथ त्रैविध्यदेहस्थिताय निजानंदयोगाय ढुंढे नमस्ते ॥२९॥ समास्थाय बाह्यांतरे संस्थिताय विनिर्माय सौषुप्तरूपं परात्मन्। तदाकाररूपेण चानंददाय निजानंदयोगाय ढुंढे नमस्ते ॥३०॥ सदा स्वप्न- रूपाय सर्वांतरस्थाय सूक्ष्माय सत्त्वात्मने खेलकाय। विनिर्माय सूक्ष्मं त्रिधा संस्थिताय निजानंदयोगाय ढुंढे नमस्ते ॥३१॥ नमस्ते प्रभो स्थूलरूपाय तन्न विनिर्माय जागृत्तदाकाररूप। सदा ह्यन्नभूताय बाह्यात्मकाय निजानंदयोगाय ढुंढे नमस्ते ॥३२॥ गणांस्ते गणेशात्मरूपेण सृष्टांस्तवांशांश्च तान् रक्ष ब्रह्मेश दासान्। सदा पादपद्मे रतांस्ते कुरुष्व निजानंदयोगाय ढुंढे नमस्ते ॥३३॥ गजाकारतुंडाय लंबोदराय चतुर्बाहवे शूर्पकर्णाय तुभ्यम्। त्रिनेत्राय पाशांकुशाद्यैर्युताय निजानंद- योगाय ढुंढे नमस्ते ॥३४॥ नराकाररूपाय कंठादधस्तात्तथा ह्येकदंताय रक्तांबराय। महाऽऽखुध्वजायाऽऽखुवाहाय नित्यं निजानंदयोगाय ढुंढे नमस्ते ॥३५॥ अनंतप्रसूतिश्च ते वामभागे महासिद्धिरूपा तथा दक्षिणांगे। धृते पूर्णमाये परे देव- देव निजानंदयोगाय ढुंढे नमस्ते ॥३६॥ स्वसंवेद्यनाम्नि पुरे संस्थिताय प्रमोदादिभिः सेव्यमानाय तुभ्यम्। तथैक्षोः समुद्रे सुलीलाकराय निजानंदयोगाय ढुंढे नमस्ते ॥३७॥ समाधिस्वरूपं गणेशं स्तुवीमः कथं ब्रह्मणो ब्रह्मभूतं महात्मन्। तथापि स्वबुद्ध्या प्रमाणैः स्तुतोऽसि निजानंदयोगाय ढुंढे नमस्ते ॥३८॥ वयं धन्यरूपा गणाधीश ते वै स्तवेनाऽथ पूजादिना दीनबंधो। नमस्ते नमस्ते प्रसीदाऽऽशु भूमन् निजानंदयोगाय ढुंढे नमस्ते ॥३९॥ मुद्गल उवाच। एवं स्तुत्वा गणा- धीशं प्रणेमुस्तं प्रजापते। ब्रह्माणि तान्यथोवाच हर्षितः स गजाननः ॥४०॥ श्रीगणेश उवाच। वरान् ब्रूत हृदिस्थान् वै ब्रह्माणि तुष्टिमागतः। दास्याम्यनेन स्तोत्रेण तपसा दुर्लभानपि ॥४१॥ भवत्कृतमिदं स्तोत्रं मम संतोषकारकम्। भविष्यति न
यहाँ पृष्ठ का सम्पूर्ण पाठ देवनागरी लिपि में पंक्ति-दर-पंक्ति प्रस्तुत है:
खं. ९ अ. २ पान ३ संदेहः सर्वसिद्धिप्रदायकम् ॥४२॥ यः पठेत् पाठयेद्वाऽपि श्रावयेन्मानवोत्तमः । स भुक्त्वा ह्यखिलान् भोगानंते स्वानंदगो भवेत् ॥४३॥ विजयप्रदमेतद्धि पुत्रपौत्रप्रदं भवेत् । धनधान्यपशूनां तु दायकं प्रभविष्यति ॥४४॥ अंगहीनजनानां तु स्वंगदं रोगनाशनम् । अलक्ष्मीसंकटस्यैव दहनं पाठकारिणाम् ॥४५॥ विद्या ज्ञानादिकं सर्वं लभतेऽनेन निश्चितम् । भुक्तिं मुक्तिं ब्रह्मभूयं पठनात् श्रवणात् किल ॥४६॥ षट्कर्मसाधने सिद्धं परकृत्यविनाशनम् । राजबंधहरं चैव भविष्यति सुसेविनाम् ॥४७॥ एकविंशतिवारं चैकविंशति दिनानि यः । पठते स लभेत् सर्वमीप्सितं नात्र संशयः ॥४८॥ एवं गणपतेर्वाक्यं श्रुत्वा ब्रह्माणि विन्नपम् । प्रणम्य हर्षयुक्तानि जगुस्तं च प्रजापते ॥४९॥ ब्रह्माण्यूचुः । वरदोऽसि गणाधीश तदा ते भक्तिमुत्तमाम् । देहि यया महामोहो नश्यत्यत्र न संशयः ॥५०॥ निजव्यापारजं देहि बोधं कथय सर्वप । कार्यं तच्च करिष्यामस्त्वदाज्ञावशगानि भोः ॥५१॥ सदाऽस्मन्निकटे नाथ तिष्ठ स्वभक्तकारणात् । निर्विघ्नं कुरु सर्वत्र गजानन नमोऽस्तु ते ॥५२॥ त्वत्समानि कुरुष्व त्वमस्मान् पादाश्रितानि ते । भजतां सर्वदातृप्तिं त्वत्प्रसादान्नमोऽस्तु ते ॥५३॥ यद्यदिच्छामहे नाथ तत्तत्तु सफलं भवेत् । सत्यसंकल्पजं सौख्यं देहि नो गणनायक ॥५४॥ एवं तेषां वचः श्रुत्वा भक्तिभावेन तोषितः । तथेति तान्योक्तवासावंतर्धानं चकार ह ॥५५॥ अष्टौ विनायकाः प्रोक्तास्तद्रूपेण गजाननः । तेषां सामीप्यगो भूत्वाऽतिष्ठत् सर्वार्थसिद्धये ॥५६॥ एतत् सर्व समाख्यातं स्वसंवेद्यस्य चेष्टितम् । श्रवणात् पठनान्नृणां सर्वसिद्धिप्रदायकम् ॥५७॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते स्वसंवेद्यस्वरूपवर्णनं नाम प्रथमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । अधुना शृणु दक्ष त्वं निवृत्तिरूपधारिणः । चरितं गणनाथस्य ब्रह्मभूतपदप्रदम् ॥१॥ स्वानंदः सकलाधारो नानाब्रह्मसु संस्थितः । जगत्सु योगभावेन संयोगेन तदात्मकः ॥२॥ स नानामायया युक्तो नानाभाव- परायणः । भावाभावादिहीनत्वाच्छोभते नित्यमंजसा ॥३॥ अनंतकल्पकाले तु गते संतोषमादधे । निवृत्तिमिच्छति
[Header] खं. ९ अ. २ पान ४
प्राज्ञो मायाहीनत्वकारणात् ॥४॥ जगद्भिर्ब्रह्मभिः सार्धं गणेशमभजत्ततः । संयोगभावनाशार्थं सर्वतो भक्तिसंयुतः ॥५॥ एकाक्षरविधानेन पूजयामास तं विभुम् । मंत्रं जजाप सर्वेशो ध्यात्वा हृदि गजाननम् ॥६॥ दक्ष उवाच । स्वसंवेद्यात्मकः प्रोक्तो मंत्र एकाक्षरो महान् । अयोगगणनाथस्य प्रीतिदः स कथं वद ॥७॥ मुद्गल उवाच । शब्दशब्दार्थसंयुक्तो मंत्रो गणपतेः स्मृतः । स्वसंवेद्यात्मकः प्राज्ञैः सर्वशास्त्रेषु संमतः ॥८॥ नामैकदेशमात्रत्वात् स एवायॊगवाचकः । न तत्र शब्दशब्दार्थौ तयोर्भोगादिकं कदा ॥९॥ गते वर्षशते तत्र प्रसन्नो गणनायकः । आययौ तं वरान् दातुं निजभक्तसुख- प्रदः ॥१०॥ दृष्ट्वा गजाननं दक्ष प्रहृष्टः सर्वसंयुतः । स्वानंदः प्रणनामाथ पूपुजे भक्तिसंयुतः ॥११॥ दक्ष उवाच । सगुणो देह एतस्य निर्गुणं मस्तकं परम् । तयोर्भेदभावेऽयं गजाननो निजात्मकः ॥१२॥ अयोगे सगुणं नैव निर्गुणं नैव वर्तते । तयोः संयोगरूपं यन्नैव योगींद्रसत्तम ॥१३॥ कथं गजाननश्चायमयोगे वाचकोऽभवत् । छिंधि मे संशयं पूर्णं वचसा योगभाविना ॥१४॥ मुद्गल उवाच । सिद्धिर्देहमयी माया बभूवे तस्य भो विधे । नानाश्रमं परित्यज्य लीना जाता शरीरके ॥१५॥ नानाज्ञानप्रभावं तु त्यक्त्वा बुद्धिः शिरोऽभवत् । भ्रांतिधारकभावं सा तल्लीना संबभूव ह ॥१६॥ तयो- र्योगे स्वसंवेद्यं ब्रह्म संयोगधारकम् । गजाननाकृतिस्थं तद् बभूवे लीनभावतः ॥१७॥ सिद्धिवुद्धिविहीनोऽयमयोगे वाचको- ऽभवत् । गणेशो गजवक्त्रादिचिह्नयुक्तो न संशयः ॥१८॥ शब्दशब्दार्थसंयोगैस्त्रिभिर्हीनो गजाननः । अयोगे शोभते दक्ष मायाभ्यां वर्जितः सदा ॥१९॥ अथो शृणु चरित्रं त्वं प्रकृतं शांतिदायकम् । स्वसंवेद्यः प्रतुष्टाव गणेशं हर्षसंयुतः ॥२०॥ ससर्वस्वानंद उवाच । अजं पुराणं परमव्ययं तं निवृत्तमात्रं ह्यसमाधिसंस्थम् । अयोगरूपं गणनाथमाद्यं नमामि निर्मायिकाम- प्रमेयम् ॥२१॥ न जारजं स्वेदजमंडजं न न चोद्भिदं स्थावरजंगमं न । अनादिमध्यांतममोघरूपं नमामि निर्मायिकम- प्रमेयम् ॥२२॥ न भूस्वरूपं न जलं प्रकाशं न वायुरूपं न खमेव ढुंढिम् । न राजसं सत्त्वतमोयुतं न नमामि निर्मायिकम- प्रमेयम् ॥२३॥ न जागृतं स्वप्नगतं न देवं सौषुप्तकं नैव तुरीयसंस्थम् । न बिंदुमात्रं न च सोऽहमेव नमामि निर्मायिकम- प्रमेयम् ॥२४॥ न बोधगं नैव विबोधरूपं न मोहयुक्तं न च मोहहीनम् । न निर्गुणं नो सगुणं तथा तं नमामि निर्मा- यिकमप्रमेयम् ॥२५॥ न कर्मरूपं न च ज्ञानरूपं समं न चाधीनतमं सदा न । न स्वात्मगं सर्वविकारहीनं नमामि निर्मायिकमप्रमेयम् ॥२६॥ असत्स्वरूपं न च सत्स्वरूपं समानरूपं न च नेतिगं तम् । निजात्मरूपं विविधेषु नैव
खं. ९ अ २ पान ५ नमामि निर्मायिकमप्रमेयम् ॥२७॥ अनंतरूपं न तथैकरूपं समं न तुर्यं न च पंचमं तम् । सदा गणेशाकृतिरूपधारं नमामि निर्मायिकमप्रमेयम् ॥२८॥ न चागतं नैव गतं गणेशमयोगरूपं प्रवदंति वेदाः । सदा निवृत्तिमयमासमंतान्नमामि निर्मायिकमप्रमेयम् ॥२९॥ वचोभिरारात् कथितुं कदाचिदयोगभावान्न मनसो न शक्यम् । कदा तमप्राप्य वदामि देवं नमामि निर्मायिकमप्रमेयम् ॥३०॥ न सिद्धियुक्तं न च बुद्धियुक्तं न मायिकं ब्रह्ममयं परेशम् । अनंतपारं गजवक्त्र- धारं नमामि निर्मायिकमप्रमेयम् ॥३१॥ त्रिनेत्रधारं गजवक्त्रयुक्तं चतुर्भुजं चैकरदं महांंतम् । महोदरं वाहनहीनगं तं नमामि निर्मायिकमप्रमेयम् ॥३२॥ न योगनिष्ठं न विहारयुक्तं निजात्मनाम्नि नगरे न संस्थम् । निजे समुद्रे न विहारकारं नमामि निर्मायिकमप्रमेयम् ॥३३॥ न भक्तभक्तिप्रियमैव देवं तथापि योगेन निवृत्तिदं तम् । अपारमायामयपाशहारं नमामि निर्मायिकमप्रमेयम् ॥३४॥ अहं विकारेण विमोहितोऽतो भ्रमन् गणेशाधिपते महात्मन् । जगत्सु नानाविध- ब्रह्मसु प्रभो नमामि निर्मायिकमप्रमेयम् ॥३५॥ समाधिरूपोऽहमचिंत्यभावः सर्वात्मकः सर्वविवर्जितोऽहम् । भ्रमामि मां रक्ष निवृत्तिदातंर्नमामि निर्मायिकमप्रमेयम् ॥३६॥ सुसिद्धिबुद्धिप्रद मोहयुक्तो विभज्य नानाविधमात्मरूपम् । चतुः पदार्थेषु चरामि भ्रांत्या नमामि निर्मायिकमप्रमेयम् ॥३७॥ सुखेलयुक्तोऽहमथो सुखेनेतरेण योगेन तदात्मना वै । न शांतिजं सौख्यमणु ह्यविंदं नमामि निर्मायिकमप्रमेयम् ॥३८॥ अनंतभावेन विमोहितं मां रक्षस्व ते पादप्रियं गणेश । निवृत्तिकां देहि परार्थभूतां नमामि निर्मायिकमप्रमेयम् ॥३९॥ नमो गणेशाय निवृत्तिधारिणे नमः परेशाय सुखान्धि- वासिने । नमश्च हेरंब महोदराय ते नमो नमो ब्रह्मपते सुशांतये ॥४०॥ अयोगरूपं गणनायकं तं प्रवेशहीनात् कथमेव ढुंढे । दयापरं स्तौम्यधुना च तारय नमो नमो विघ्नपते नमस्ते ॥४१॥ मुद्गल उवाच । एवं स्तुत्वा गणेशानं स्वानंदः प्रणनाम तम् । भक्त्या हर्षेण संयुक्तस्तमुवाच गजाननः ॥४२॥ श्रीगणेश उवाच । वरं वृणु महाभाग सर्वं दास्यामि चेप्सितम् । माया- मायिकभेदैस्त्वं दुःखितोऽसि न संशयः ॥४३॥ त्वया कृतमिदं स्तोत्रं सर्वशांतिप्रदं भवेत् । न मायासंभवं दुःखं प्रलभेत् पाठतो नरः ॥४४॥ यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठतः । असाध्यं साधयेन् मर्त्यः श्रवणेन निजप्रदम् ॥४५॥ एवं श्रुत्वा गणेशस्य वचनं स्वस्वरूपकम् । जगाद तं प्रणम्यादौ कृत्वा करपुटं विधे ॥४६॥ ससर्वस्वानंद उवाच । यदि तुष्टोऽसि विघ्नेश तदा देहि निवृत्तिजम् । सुखं नान्यं वरं भ्रांतिं मायामेतां निवारय ॥४७॥ तथेति तमुवाचैव गणेशोऽंतर्दधे ततः ।
स्वानंदः खिन्नभावेन स्वस्थाने संस्थितोऽभवत् ॥४८॥ सस्मारायोगनाथं तं ततश्चित्रं बभूव ह । विश्वानि ब्रह्ममुख्यानि स्वानंदे लयमाययुः ॥४९॥ ततः स्वयं निजानंदो नष्टस्तत्र बभूव ह । मायाहीनप्रभावेणायोगस्थः शुशुभे मुदा ॥५०॥ संयोगमायया हीनो न ददर्श स किंचन । स्वात्मानं वाऽपरं मुख्यं अयोगं गणनायकम् ॥५१॥ सर्वबंधविनिर्मुक्तं बभूव स्वस्वरूपकम् । एतत् सर्वं समाख्यातमयोगस्य चरित्रकम् ॥५२॥ अयोगे दक्ष नैवास्ति त्वमहं ब्रह्म शाश्वतम् । न गणेशः स्वसंवेद्यं तेन निर्वृतिमाप्नुयात् ॥५३॥ यः पठेच्छृणुयाद्वा यो ह्ययोगस्य चरित्रकम् । स भुक्त्वा सकलान् भोगानंते निर्वृतिमाप्नुयात् ॥५४॥ ॥ ओमिति श्रीमदंन्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते अयोगचरितकथनं नाम द्वितीयोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच ॥ अधुना शृणु दक्ष त्वं पूर्णशांतिप्रदायकम् । चरितं गणनांथस्य नानायोगेश्वरस्य यत् ॥१॥ अयोगो मायया हीनः सदा बंधविवर्जितः । निमग्नश्च ब्रह्मसुखे तिष्ठ नित्यं विशेषतः ॥२॥ स्वानंदाख्यं परं ब्रह्म नष्टं गाणेशयोगतः । पुनः सृष्टं गणेशेन पूर्णयोगस्वरूपिणा ॥३॥ एवं पुनः प्रनष्टं तत् कालेन बहुना विधे । पुनः सृष्टं पुनर्नष्टं कल्पा एवं गता बहु ॥४॥ नित्यं त्वयोगसंस्थः स गणेशो ब्रह्मनायकः । विचारमकरोचित्ते दृष्ट्वा स्वानंदजं भ्रमम् ॥५॥ अहो मायाप्रभावेण ब्रह्म स्वानंदधारकम् । नानाभावयुतं भूत्वा पुनर्भवति नश्यति ॥६॥ मायाविहीनभावेनाऽहं सदा मोहवर्जितः । अखंडयोगसंयुक्तोऽतिष्ठं ब्रह्मपरायणः ॥७॥ अविनाशिपदं दत्तं मह्यं केन महात्मना । न ब्रह्म नाशसंयुक्तमविनाशि न विद्यते ॥८॥ दक्ष उवाच । अविनाशि समाख्यातं देहिरूपं पुरा त्वया । स्वत उत्थानकेनैव सृष्टं तदेव निश्चितम् ॥९॥ स्वसंवेद्यात् परं ब्रह्मायोगरूपं प्रकीर्तितम् । तदेव केन योगीश विनाशि कथ्यते त्वया ॥१०॥ मुद्गल उवाच । नाशाऽनाशादिभेदाश्च स्वानंदात् संभवंति च। भेदाऽभेदादिहीनं तत् स्वसंवेद्यं प्रकीर्तितम् ॥११॥ शिष्यस्य बोधदानार्थं योगिनस्तं वदंति च । कथितुं नैव शक्यत्वात् किंचिद्भेदं प्रजापते ॥१२॥ अयोगमविनाशाख्यं कथयाम्यधुना
परम् । नाशरूपं खसंवेद्यं बोधार्थं नात्र संशयः ॥१३॥ अयोगश्चिंतयाऽऽविष्टो बभूवे बंधहानतः । निवृत्तिजं सुखं तुच्छं मानयामास चेतसा ॥१४॥ सदा मायाविहीनत्वं ममास्त्यत्र न संशयः । मायायुक्तविहीनत्वं नैव ब्रह्मणि विद्यते ॥१५॥ विचार्य खेदसंयुक्तो योगमार्गपरोऽभवत् । अयोगो हृदि संचिंत्य तपस्तताप दारुणम् ॥१६॥ दशवर्षैर्गणाध्यक्षः प्रसन्नो हृदि संस्थितः । दर्शयामास मंत्रं स एकाक्षरं स्वकीयकम् ॥१७॥ दृष्ट्वा योगो जजापाऽतिहर्षितो मंत्रमुत्तमम् । ध्यात्वा मंत्रस्वरूपस्थं गणेशं शांतिदायकम् ॥१८॥ ततः स्वल्पेन कालेन रूपं गणपतेः शुभम् । ददर्श गजवक्त्रादि चिह्नयुक्तं महाप्रभुः ॥१९॥ ततोऽतिविस्मितो भूत्वा विचारमकरोत् हृदि । कोऽयं गजाननो देवः स्त्रीभ्यां संशोभते हृदि ॥२०॥ गणेशकृपया ज्ञानं बभूव तस्य शाश्वतम् । तेन सर्वमयोगेन ज्ञातं विघ्नेशचेष्टितम् ॥२१॥ ततोऽतिहर्षितो भूत्वा ध्यात्वा देवं गजाननम् । मंत्रं जजाप योगज्ञः शांतिप्राप्त्यर्थमादरात् ॥२२॥ स्वयं स्वल्पेन कालेन पुरो ययौ गजाननः । वरदो भक्तवात्सल्यान् महाभक्तस्य भो विधे ॥२३॥ दक्ष उवाच । आश्चर्यं विप्र वदसि ज्ञायते न मया परम् । रहस्यं तेऽद्य वाक्यस्य योगग्रथितकस्य च ॥२४॥ अष्टौ विनायकाः प्रोक्तास्ते सर्वे गजवक्त्रिणः । एकदंतादिचिह्नैश्च संयुक्ता गणपाः किल ॥२५॥ संयोगस्थं गणेशानं भजंतेऽनन्यमानसाः । तेषां हृदि गणेशानः प्रकटो जायते यदा ॥२६॥ तदा ते विस्मिता भूत्वा न जानंति स्वरूपकम् । नित्यं गजाननाः प्राज्ञा गजाननं कथं मुने ॥२७॥ एकाक्षररहस्यं ते न जानंति कथं प्रभो । एकाक्षरस्य भावेन संस्थिता नित्यमंजसा ॥२८॥ तथा संयोगरूपस्थो गणेशो गणनायकम् । मंत्रयुक्तं न जानाति मंत्राकृतिधरः कथम् ॥२९॥ अयोगगणनाथोऽयं गजाननाकृतिं धरन् । समंत्रो मंत्रयुक्तं तं न जानाति गणेश्वरम् ॥३०॥ कीदृशो गणनाथस्तु पूर्णयोगप्रवाचकः । यं न जानंति विघ्नेशास्तदाकृतिधरा अपि ॥३१॥ संयोगे गणनाथोऽपि सिद्धिवुद्धिसमन्वितः अयोगे सिद्धिबुद्धिभ्यां हीन एव स वर्ण्यते ॥३२॥ पूर्णयोगे गणेशानः संयोगायोगवर्जितः । मायाभ्यां संयुतः प्रोक्तः कथं वद रहस्यकम् ॥३३॥ मुद्गल उवाच । सम्यक् पृष्टं त्वया दक्ष रहस्यं परमाद्भुतम् । योगिनां सुखदं पूर्णं शांतिदं भावितात्मनाम् ॥३४॥ एकाग्रचित्तभावेन शृणु तस्य चरित्रकम् । अन्यथा भ्रांतिसंयुक्तो भविष्यसि निरंतरम् ॥३५॥ यथा विश्वमिदं नित्यं ब्रह्माकारं प्रवर्तते । तथापि ब्रह्मरूपं तन्न जानाति हृदि स्थितम् ॥३६॥ नामरूपविहीनत्वान् मंत्रस्तस्य न विद्यते । तपसा युक्तभावेन प्रणवं पश्यति प्रभुम् ॥३७॥ सर्वाकारं महाबीजं प्रणवाकृतिरूपिणम् । दृष्ट्वा
विस्मयभावेन विचारमकरोत् हृदि ॥३८॥ तपसा योगभावेन चतुष्पादं जगन्मयम् । जानाति कृपया तस्य मंत्रराजं जगद्यथा ॥३९॥ ततो योगप्रभावेण प्रणवार्थस्वरूपिणम् । देवं सर्वात्मभावस्थं पश्यति विश्वमंजसा ॥४०॥ दृष्ट्वाऽतिविस्मितं भूत्वा विचारयति चेतसि । तपसा योगभावेन तं जानाति महाप्रभुम् ॥४१॥ ततो योगप्रभावेण शांतिस्थं गणनायकम् । पश्यति वक्रतुंडाख्यं ब्रह्म स्वानंदगं परम् ॥४२॥ प्रणवो देहरूपश्चेत् प्रणवार्थो गजाकृतिः । शिरस्तयोश्च संयोगे गणेशो योगरूपधृक् ॥४३॥ योगाकारं महद्रूपं दृष्ट्वा विस्मितमानसम् । विश्वं भक्तिसमायुक्तं भजनार्थं मनो दधे ॥४४॥ एतादृशं सुशांतिस्थं ब्रह्म देहधरं कथम् । भवति तस्य सेवा वै कुर्वे नित्यं महात्मनः ॥४५॥ हृदि स्थितं तस्य भावं ज्ञात्वा रूपधरः प्रभुः । गजाननो बभूवापि पुनर्हृष्ट्वाऽतिविस्मितम् ॥४६॥ तं पश्यति प्रजानाथ कोऽयं भिन्नस्वरूपधृक् । तस्तस्तं तस्य जानाति कृपया योगसेवया ॥४७॥ गणेशानं मूर्तिधरं भजेतेऽनन्यभावतः । मंत्रादिना रहस्येन जानीहि विश्वमादरात् ॥४८॥ तथा गणेश्वराः प्रोक्ता अष्टौ योगप्रवाचकाः । तेषां हृदि स्थितं ब्रह्म स्वसंवेद्यं न संशयः ॥४९॥ महैश्वर्यप्रसंयुक्ता न जानंति कदाचन । वयं ब्रह्मस्वरूपाश्च प्रत्येकं मानयंति ते ॥५०॥ न मत्तः परमं किंचिज्ज्ञात्वा मोहसमन्विताः । विश्वात्मनि च विश्वस्मिन् क्रीडायुक्ता बभूविरे ॥५१॥ कृत्वा नानाविधं खेलं नानाकल्पपरायणाः । एवं बहौ गते काले शांतिमिच्छंति शाश्वतीम् ॥५२॥ ततः क्रीडां विहायैव स्वमहिम्न्यभवन् स्थिताः । तथापि ते पुनर्विश्वप्रवशाः ससृजुः स्वयम् ॥५३॥ ततस्ते खेदसंयुक्ता विचारं कुर्वते परम् । केन स्म प्रेरिता विश्वं सृजामो विविधं वयम् ॥५४॥ अतः स्वाधीनता नो न विद्यतेऽपि कदाचन । वयं न ब्रह्मरूपाश्च मायामोहयुताः सदा ॥५५॥ एवं मनसि संधार्य तपश्चेरुः समाधिदम् । तपसा योगसंयुक्ता बभूवुर्नात्र संशयः ॥५६॥ क्रमेण गणपाः सर्वे पूर्णयोगस्वरूपिणि । लयं ययुः सुशांतिस्थाः शांतस्वरूपे प्रजापते ॥५७॥ तत्र विधिं प्रवक्ष्यामि शृणु संशयनाशकम् । योगोऽष्टधा समाख्यातस्तत् स्वरूपं सुयोगदम् ॥५८॥ शमो दम आसनं च प्राणायामश्चतुर्थकः । प्रत्याहारो धारणा वै ध्यानं समाधिरष्टमः ॥५९॥ स्वधर्मयुक्तभावेन मनो नियम्य यत्नतः । यतते ब्रह्मप्राप्त्यर्थं स शमः परिकीर्तितः ॥६०॥ स्वधर्मस्थितिमास्थाय नियमादिखभावतः । दमेद्देहं सुशांत्यर्थं दमस्तेन प्रकथ्यते ॥६१॥ स्वस्तिकादीनि भो दक्ष आसनानि विशेषतः । साधयित्वा समातिष्ठेद्योगार्थमासनं स्मृतम् ॥६२॥ प्राणायामं ततोऽभ्यस्य लघ्वादिकं क्रमेण च । योगार्थं साधयेद्वायुं स प्राणायाम उच्यते ॥६३॥ नानाविषयभोगार्थं गच्छंतींद्रियकाणि तु । तेभ्यस्तानि समागृह्य योग-
खं. ९ अ. ३ पान ९
युक्तानि कारयेत् ॥६४॥ स मनांसि सुशांत्यर्थं हृत्वा हृत्वा पुनः पुनः। इंद्रियाणि नरः कुर्यात् प्रत्याहारः स वै स्मृतः ॥६५॥ महावाक्यादिभिः प्रोक्तं ब्रह्म शब्दार्थभावतः। संधार्य स श्रमे दक्ष धारणा सा प्रकीर्तिता ॥६६॥ हृदि ब्रह्मावबोधश्च जायते ऐक्यभावतः। स्वस्य तेन समाख्यातं ध्यानं ब्रह्म सुखप्रदम् ॥६७॥ ततो ब्रह्मणि सोऽप्येवं लीनः संजायते परे। न ब्रह्म न स्वयं तत्र समाधिः परिकीर्तितः ॥६८॥ इदं योगाष्टकं प्रोक्तं योगप्राप्त्यर्थमादरात्। सेविनां ब्रह्मदं पूर्णं भविष्यति न संशयः॥६९॥ तत्र मायायुता जीवा भिन्नदेहधरा मताः। तेषामष्टकमेवं तद्वर्तते साधनात्म कम् ॥७०॥ ब्रह्माकाराणि प्रोक्तानि तत्त्वानि विविधानि तु। विश्वरूपाणि सर्वाणि ब्रह्माण्यन्नमुखानि च ॥७१॥ तेषां योगः समाख्यातस्त्रिविधो नाऽत्र संशयः। देहादिभावशून्यत्वात् तच्छृणुष्व सुखप्रदम् ॥७२॥ धारणाध्यानके दक्ष समाधिः परिकीर्तितः। त्रिभिर्योगं समाराध्य शांतिगानि भवंति तु ॥७३॥ स्वस्वब्रह्मणि ये संति भोगा ब्रह्मसुखात्मकाः। तांस्त्यक्त्वा धारयेद्ब्रह्म तपस्तदेव कथ्यते ॥७४॥ पूर्णशांत्यर्थमत्यंतं ब्रह्माणि संभवंति चेत्। त्यक्त्वा भोगांस्तपस्तेषां ज्ञातव्यं विबुधैः परम् ॥७५॥ मनो- वाणीविहीनं न मनोवाणीमयं न च। ब्रह्म वेदेषु विख्यातं तदेव गणनायकः ॥७६॥ न तत्र सगुणं दक्ष निर्गुणं नैव वर्तते। गणेशो पश्य वेदेषु योगरूपस्ततः स्मृतः ॥७७॥ ब्रह्माणि खेदयुक्तानि पराधीनतया यदा। तपश्चेरूस्तदा तानि विचार्य ब्रह्मप्राप्तये ॥७८॥ अतितपोबलेनैव हृदि स्फूर्तिः प्रजायते। योगस्य मंत्रराजं तं जानीहि ब्रह्मणां विधे ॥७९॥ ततो हर्षयुतान्येवानुभवं सस्मरुस्तदा। जपस्तदेव तेषां वै ब्रह्मणां भवति प्रभो ॥८०॥ हृदि संस्थं ततो योगं ददृशुस्तानि सर्वदा। तदेव गणराजस्य रूपं तत्र प्रकीर्तितम् ॥८१॥ ततस्तल्लीनभावेन तिष्ठंति ब्रह्मकानि वै। गणेशस्य कृपा ज्ञेया तत्र सा कथ्यते बुधैः ॥८२॥ योग एतादृशं ब्रह्म यदि देहयुतं भवेत्। तदा तं प्रभजिष्यामो नित्यमिच्छंति तानि तु ॥८३॥ ब्रह्मदेहधरः सोऽपि बभूव भक्तिमोहितः। आययौ वरदानार्थं तेषामग्रे गजाननः ॥८४॥ ब्रह्माकाराणि चिह्नानि कथितानि पुरा मया। गणेशस्य स्वरूपे तु तान्यपश्यंश्च तादृशम् ॥८५॥ ततस्तानि प्रणेमुस्तं पुपूजुस्तं च नित्यशः। अंते योगमयान्येव बभूवुर्नात्र संशयः ॥८६॥ एतत्सर्वं समाख्यातं ब्रह्मणां चरितं मया। तपोयोगादिकाचारमन्यच्छृणु प्रजापते ॥८७॥ वक्रतुंडो गणेशानो यदि खेदसमन्वितः। पराधीनतया दक्ष शांतियोगपरोऽभवत् ॥८८॥ तदा तपोयुतः सोऽपि त्रेधा योगार्थमादरात्। आभ्येत्तेन हृदिस्थं तं लोकयेदेकदंतकम् ॥८९॥ देहेषु ब्रह्मभावेन वक्रतुंडः स्थितोऽभवत्। तस्माद्देही
स्थितः श्रेष्ठो भिन्नाकारः प्रकीर्तितः ॥९०॥ अतोऽयं वक्रतुंडस्तं गजाननं परात्परम् । एकदंतं न जानाति तत्र भेदं वदाम्यहम् ॥९१॥ त्रिगुणाकारदेहश्च तुरीयं मस्तकं मतम् । वक्रतुंडस्तयोर्योगे बिंदुब्रह्मप्रवाचकः ॥९२॥ चतुर्विधेषु देहेषु मोहयुक्तं च यत् स्मृतम्। सदा भेदविहीनं तज्जीवसंज्ञं प्रकथ्यते ॥९३॥ मोहहीनं सदा साक्षिरूपं परात्मधारकम् एकदंतस्तयोर्योगे सोऽहंमात्रात्मकः स्मृतः । ॥९४॥ जीवो देहस्वरूपस्थः परमात्मा शिरः स्मृतम् । गजाकारं न संदेह एकदंतस्य नित्यदा ॥९५॥ जीवात्मा परमात्मानौ दृष्ट्वा भेदविवर्जितौ । विस्मितः स भवेत्तत्र वक्रतुंडो गजाननः ॥९६॥ नानाभेदसमायुक्तो वक्रतुंडो मयोदितम् । भेदहीनमेकदंतं दृष्ट्वा पप्रच्छ तं पुनः ॥९७॥ हृदिस्थं सोऽहमादौ यद्ब्रह्माकारं प्रकथ्यते । बिंदोस्तदेकदंताख्यं न देहादियुतं कदा ॥९८॥ सेवार्थं वक्रतुंडेन प्रार्थितं हृदि संगतम् । ब्रह्म तदेव भो दक्ष एकदंतो बभूव ह ॥९९॥ यथा जगदिदं सर्वं ब्रह्माकारं प्रकीर्तितम् । तथा ज्ञेयं वक्रतुंडोऽपि ह्येकदंतस्वरूपधृक् ॥१००॥ सगुणं नरसंज्ञस्थं निर्गुणं गजवाचकम् । तयोर्योगे परं ब्रह्म गजाननः प्रकथ्यते ॥१॥ सेवार्थं प्रार्थितं सर्वैस्तदेव देहवान्भूत् । गणेशो ब्रह्मरूपाख्यो नानाब्रह्मसु संस्थितः ॥२॥ अतो गणेश्वरं दक्ष न जानाति गणेश्वरः । नानामोहसमायुक्तो भ्रांति- भावात् सुशांतिदम् ॥३॥ स्वत उत्थान भावे तु देहो बिंदुमयः स्मृतः । सोऽहं शिरो गजाकारं तयोर्योगे महोदरः ॥४॥ एवं नानाविभेदैश्च नानाब्रह्मपरायणः । गणेश्वरः स्थितस्तेषु गजाननादिचिह्नितः ॥५॥ संयोगे गणनाथास्य स्वत उत्थानकं वपुः । उत्थानं परतस्तस्य मस्तकं नात्र संशयः ॥६॥ अयोगे बुद्धिहीनं तु मस्तकं सिद्धिवर्जितम् । वपुस्तयोर्न संयोगे गणेशः परिकीर्तितः ॥७॥ पूर्णयोगे शरीरं तु मतं संयोगवाचकम् । अयोगवाचकं तस्य मस्तकं तु गजाकृति ॥८॥ अविनाशार्थसंयुक्तो गजशब्दः प्रकीर्तितः । अयोगान्न परं ब्रह्माविनाशाख्यं प्रकथ्यते ॥९॥ संयोगायोगभावाख्या भ्रांतिः सर्वत्र पठ्यते । निरोधचित्ताग दक्ष सा सिद्धिः परिकीर्तिता ॥११०॥ संयोगायोगभावस्था बुद्धिर्भ्रांतिधरा मता । तयोः स्वामी गणाध्यक्षः पूर्णयोगप्रवाचकः ॥११॥ अहं गणेशरूपश्चैतत् संयोगायोगकौ मम । कुतो मायाप्रभावाख्यौ तेन शांतिं लभेन्नरः ॥१२॥ सर्वत्राऽभेदभावेन संयोगात्मा गजाननः । तिष्ठत्यत्र न संदेहो युतः संयोगमायया ॥१३॥ सर्वत्राऽभेदहीनश्च योगरूपो गजाननः । अयोगमायया युक्तस्तिष्ठति व्यतिरेकतः ॥१४॥ यदि सर्वात्मकं योगं वदामि गणनायकम् । नानाब्रह्मसुसंस्थं तमन्वयाख्यं तदा विदुः ॥१५॥ नागतं न गतं योगं कदाचिद्वेद्धजाननम् । नानाब्रह्मसु मुक्तं तं व्यति-
खं. ९ अ. ४ पान ११ रेकात्मकं जगुः ॥१६॥ अतश्चित्तलयेनैवाहं गणेशो न संशयः । चित्तपंचकसमुत्सृज्य पूर्णयोगमवाप्नुयात् ॥१७॥ तत्र समाधिजं सौख्यं वदामि युक्तिभावतः । गणेशोऽहं तदाकारो भवामि यदि योगतः ॥१८॥ तदा संयोगजः प्रोक्तोऽनुभवो योगिनां हृदि । यदाऽहं गणनाथाश्चेन्नागतो न गतः कदा ॥१९॥ तदा ह्ययोगशः प्रोक्तोऽनुभवः शांतिदायकः । अतोऽयोग- मयो योगः कथं तत्र प्रवर्तते ॥२०॥ चित्तं नानाविधं दक्ष संयोगायोगधारकम् । योगे योगात्मकोऽहं च तदा शांतिः प्रलभ्यते ॥२१॥ शांतीनां शांतिरूपा सा योगशांतिः प्रजापते । तस्मात् परं विद्यते न ब्रह्म योगात् सुनिश्चितम् ॥२२॥ अतोऽयं गणनाथस्तु ब्रह्मणस्पतिरुच्यते । संयोगाऽयोगकादीनां ब्रह्मणां पातृभावतः ॥२३॥ एतत् सर्वं समाख्यातं रहस्यं परमाद्भुतम् । गजाननस्य ते दक्ष प्रकृतं शृणु सांप्रतम् ॥२४॥ ॥ ओमिति श्रीमदाद्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरित्रे गणेशस्वरूपवर्णनं नाम तृतीयोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ तपसा भक्तिभावेनागतं दृष्ट्वा गजाननम् । अयोगो हर्षितोऽत्यंतमुत्थाय प्रणनाम तम् ॥ १॥ ततः पूज्य गणेशानं प्रभुं नानोपचारकैः । पुनः प्रणम्य विघ्नेशं तुष्टाव करसंपुटः ॥२॥ अयोग उवाच । शांतिस्वरूपाय सुशांतिदाय वाणीमनोहीनतमाय ढुंढे । वाणीमनोयुक्तविचारिणे वै योगाय योगाधिपते नमस्ते ॥३॥ वाणीमनोयुक्त- मयं वदामि नो विश्वरूपोऽसि कथं स्तवीमि । नित्यं गणेशाय नमो महात्मन् योगाय योगाधिपते नमस्ते ॥४॥ वाणी- मनोहीनमयं कथं त्वां ब्रुवेऽद्य संयोगमयं कदा च । नो योगरूपं त्वथ ते नमो वै योगाय योगाधिपते नमस्ते ॥५॥ त्वत्तः प्रसूतानि महानुभाव ब्रह्माणि विश्वानि पराणि भूयः । त्वय्येव लीनानि ह्यभिन्नभावायोगाय योगाधिपते नमस्ते ॥६॥ नित्यं ह्ययोगाय निवृत्तिदाय मायाविहीनाय गणाधिपाय । वाणीमनोहीनतया सुलभ्य योगाय योगाधिपते नमस्ते ॥७॥ स्वानंदस्वरूपाय सुशांतिदाय सिद्ध्या च बुद्ध्या सह खेलकाय । वाणीमनोहीन निजात्मलभ्य योगाय योगाधिपते नमस्ते ॥८॥ अव्यक्तरूपाय च साहजाय मोहेन हीनाय सदा शिवाय । त्रैविध्यनाथाय च नेति कर्त्रे योगाय योगाधिपते नमस्ते ॥९॥ सामान्यरूपाय त्रयीमयाय द्वंद्वप्रकाशाय च विष्णवे ते । आनंदनाथाय सुखेलकाय योगाय योगाधिपते नमस्ते
॥१०॥ आत्मस्वरूपाय सदाऽमृतस्थयोगेन संलभ्यतमाय भानो। भेदैर्विहीनाय च जीवनाय योगाय योगाधिपते नमस्ते ॥११॥ नानाप्रभेदेषु च तन्मयाय सर्वस्वरूपाय च शक्तये ते। आनंत्यभावैश्च सुमोहदाय योगाय योगाधिपते नमस्ते ॥१२॥ साक्षि- स्वरूपाय च सांख्ययोगलभ्यस्वरूपाय सदात्मसंस्थ । बोधेन हीनाय परात्पराय योगाय योगाधिपते नमस्ते ॥१३॥ बोधस्वरूपाय संख्याविहारकर्त्रे सदा पालकभावधारिन् । त्रैविध्यनाथाय महोदराय योगाय योगाधिपते नमस्ते ॥१४॥ सोहंस्वरूपाय च चिन्मयाय मोहेन युक्ताय च हीनकाय । देहिस्वरूपेण विहारकर्त्रे योगाय योगाधिपते नमस्ते ॥१५॥ बिंदुप्रचुराय चतुष्पदाय चतुर्विधेषु प्रभवाय तुभ्यम् । आनंत्यतत्त्वाय च देहभोक्त्रे योगाय योगाधिपते नमस्ते ॥१६॥ तुर्यात्मदेहाय लयात्मकाय कालस्वरूपाय गणेश्वराय । नादात्मकायाऽथ त्रिदेहगाय योगाय योगाधिपते नमस्ते ॥१७॥ आनंदकोशात्मकसंस्थिताय प्राज्ञाय सौषुप्तमयाय तुभ्यम् । नित्येश्वरायैव तयोः प्रचारिन् योगाय योगाधिपते नमस्ते ॥१८॥ सर्वांतरस्थाय च सूक्ष्मकाय स्वप्नप्रचुराय च तैजसाय । हिरण्यगर्भाय तयोः प्रचारिन् योगाय योगाधिपते नमस्ते ॥१९॥ बाह्य- स्थितायान्नमयाय विश्ववैश्वानरायैव तयोः प्रचारिन् । स्थूलस्वरूपाय च जाग्रदास्थ योगाय योगाधिपते नमस्ते ॥२०॥ विश्वस्य द्वैविध्यमयाय तुभ्यं नानांडरूपाय च खेलकाय । शक्ते च धात्रे हरये शिवाय योगाय योगाधिपते नमस्ते ॥२१॥ एते गणेशाधिपते कलांशा विघ्नेश्वरास्ते गणनायकाय । न त्वं सदैतैः सहितो हि तुभ्यं योगाय योगाधिपते नमस्ते ॥२२॥ स्तुमः कथं नाथ गणेशरूपं संयोगहीनं च ह्ययोगहीनम् । तादात्म्यरूपं भव तुष्टचित्तं योगाय योगाधिपते नमस्ते ॥२३॥ मुद्गल उवाच । एवं स्तुत्वा गणेशानं प्रणनाम कृतांजलिः । अयोगस्तं गणाधीशो जगाद घननिःस्वनः ॥२४॥ गणेश उवाच । वरान् वृणु महाभाग मनसीप्सितरूपकान् । दास्यामि भक्तितुष्टोऽहं स्तोत्रेणानेन योगप ॥२५॥ त्वया कृतमिदं स्तोत्रं योगशांतिपदप्रदम् । पठतां शृण्वतां नित्यं नानासिद्धिप्रदं भवेत् ॥२६॥ यं यमिच्छसि तं तं वै दास्यामि स्तोत्र- पाठतः । मयि प्रीतिकरं चास्तु भक्तिभावप्रदं तथा ॥२७॥ एकविंशतिवारं चैकविंशति दिनावधि । पठते तस्य सर्वं च दास्यामि दुर्लभं हि चेत् ॥२८॥ एवमुक्त्वा गणेशानः सस्वजे तं गणाधिपम् । अयोगरूपिणं हर्षसंयुक्तं प्रचकार ह ॥२९॥ ततोऽयोगो गणाध्यक्षं प्रणम्य च पुनः पुनः । जगाद भक्तिसंयुक्तो हृष्टरोमा सुहर्षितः ॥३०॥ अयोग उवाच । यदि ढुंढे वरान् मे त्वं दास्यसि भक्तिमोहितः । तदा ते पादयुग्मे मे भक्तिं देहि दृढां पराम् ॥३१॥ पूर्णयोगस्वरूपस्थं मां
कुरुष्व गजानन । सुखं मुक्तस्वरूपस्थं नाथ नेच्छामि ते नमः ॥३२॥ मुद्गल उवाच । अयोगगणराजस्य श्रुत्वा वचनमुत्तमम् । जगाद तं गणेशानस्तथेत्यंतर्हितोऽभवत् ॥३३॥ अयोगस्तं हृदि स्थाप्य भजतेऽनन्यमानसः । अंते योगमयः सोऽपि बभूवे मोक्षनायकः ॥३४॥ इति ते सर्वमाख्यातं चरितं गणपस्य यत् । पूर्णयोगधरस्यापि समासेन प्रजापते ॥३५॥ अतस्त्वं गणराजं तं भजस्व भक्तिसंयुतः । तेन यज्ञमिमं पूर्णं करिष्यसि न संशयः ॥३६॥ अंते योगयुतश्चैव ब्रह्मभूतो भविष्यसि । आज्ञां देहि गमिष्यामि त्वदातिथ्यसुतोषिताः ॥३७॥ रहस्यं गणनायस्य कथितं सकलं मया । नान्यत् किंचिदतो दक्ष परं वेदादिसंमतम् ॥३८॥ शृणुयाद्यः पठेद्वाऽपि स सर्वं प्राप्नुयाच्छुभम् । अंते योगमयो भूत्वा संतिष्ठेत् गणपात्मकः ॥३९॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे योगचरिते नवमे खंडे पूर्णयोगचरितवर्णनं नाम चतुर्थोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । धन्योऽहं कृतकृत्योऽहं कृतस्त्वया महामुने । येन गणेशमाहात्म्यं श्रावितं योग- दायकम् ॥१॥ गणेशगीतानासारादि कथितं तु विशेषतः । ज्ञानं योगप्रदं पूर्णं संक्षेपेण त्वया परम् ॥२॥ तन्न बुद्धं मया सर्वमतः सौलभ्यतो वद । योगं क्रमयुतं पूर्णं येन योगी नरो भवेत् ॥३॥ सूत उवाच । एवं पृष्टो महायोगी मुद्गलस्तमुवाच यत् । हर्षेण महता युक्तस्तत्तेऽहं कथयामि तु ॥४॥ मुद्गल उवाच । धन्योऽसि कृतकृत्योऽसि साक्षाद्गणपतेः किल । विभूति- वाचकस्तत्र न चित्रमिदमुत्तमम् ॥५॥ त्वया पृष्टं महाभाग लोकोपकारकम् । सर्वेषां सुलभत्वेन योगशांतिपदप्रदम् ॥६॥ कथयामि च ते प्रीत्या गुह्यं वेदरहस्यकम् । शृणुष्वैकमना दक्ष योगं शांतिप्रदायकम् ॥७॥ चित्तं पंचविधं प्रोक्तं तेषु पंचविधो रसः । सरसं चित्तमुत्सृज्य योगी भवति मानवः ॥८॥ क्षिप्तं मूढं च विक्षिप्तमेकाग्रं च निरोधकम् । चित्तं पंचविधं विद्धि जगत्सु ब्रह्मसु स्थितम् ॥९॥ व्यष्टिभावे स्थिता ये तु जंतवो विविधात्मकाः । लक्षचतुरशीतिषु योनिषु संभवाः किल ॥१०॥ देहभोगादिमार्गेषु कुशलाः संभवंति ये । तेषु स्वस्वप्रपंचेषु नानाकार्यपरायणाः ॥११॥ तैः क्षिप्तं कार्यसिद्ध्यर्थं चित्तं कार्येषु नित्यदा । तत्तत्कार्यप्रकाशेन प्रकाशयति तान हृदि ॥१२॥ तेन कार्येषु दक्षास्ते भवंत्यत्र न