मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 936, कुल 1023 में से
संदर्भ में पढ़ेंविस्मयभावेन विचारमकरोत् हृदि ॥३८॥ तपसा योगभावेन चतुष्पादं जगन्मयम् । जानाति कृपया तस्य मंत्रराजं जगद्यथा ॥३९॥ ततो योगप्रभावेण प्रणवार्थस्वरूपिणम् । देवं सर्वात्मभावस्थं पश्यति विश्वमंजसा ॥४०॥ दृष्ट्वाऽतिविस्मितं भूत्वा विचारयति चेतसि । तपसा योगभावेन तं जानाति महाप्रभुम् ॥४१॥ ततो योगप्रभावेण शांतिस्थं गणनायकम् । पश्यति वक्रतुंडाख्यं ब्रह्म स्वानंदगं परम् ॥४२॥ प्रणवो देहरूपश्चेत् प्रणवार्थो गजाकृतिः । शिरस्तयोश्च संयोगे गणेशो योगरूपधृक् ॥४३॥ योगाकारं महद्रूपं दृष्ट्वा विस्मितमानसम् । विश्वं भक्तिसमायुक्तं भजनार्थं मनो दधे ॥४४॥ एतादृशं सुशांतिस्थं ब्रह्म देहधरं कथम् । भवति तस्य सेवा वै कुर्वे नित्यं महात्मनः ॥४५॥ हृदि स्थितं तस्य भावं ज्ञात्वा रूपधरः प्रभुः । गजाननो बभूवापि पुनर्हृष्ट्वाऽतिविस्मितम् ॥४६॥ तं पश्यति प्रजानाथ कोऽयं भिन्नस्वरूपधृक् । तस्तस्तं तस्य जानाति कृपया योगसेवया ॥४७॥ गणेशानं मूर्तिधरं भजेतेऽनन्यभावतः । मंत्रादिना रहस्येन जानीहि विश्वमादरात् ॥४८॥ तथा गणेश्वराः प्रोक्ता अष्टौ योगप्रवाचकाः । तेषां हृदि स्थितं ब्रह्म स्वसंवेद्यं न संशयः ॥४९॥ महैश्वर्यप्रसंयुक्ता न जानंति कदाचन । वयं ब्रह्मस्वरूपाश्च प्रत्येकं मानयंति ते ॥५०॥ न मत्तः परमं किंचिज्ज्ञात्वा मोहसमन्विताः । विश्वात्मनि च विश्वस्मिन् क्रीडायुक्ता बभूविरे ॥५१॥ कृत्वा नानाविधं खेलं नानाकल्पपरायणाः । एवं बहौ गते काले शांतिमिच्छंति शाश्वतीम् ॥५२॥ ततः क्रीडां विहायैव स्वमहिम्न्यभवन् स्थिताः । तथापि ते पुनर्विश्वप्रवशाः ससृजुः स्वयम् ॥५३॥ ततस्ते खेदसंयुक्ता विचारं कुर्वते परम् । केन स्म प्रेरिता विश्वं सृजामो विविधं वयम् ॥५४॥ अतः स्वाधीनता नो न विद्यतेऽपि कदाचन । वयं न ब्रह्मरूपाश्च मायामोहयुताः सदा ॥५५॥ एवं मनसि संधार्य तपश्चेरुः समाधिदम् । तपसा योगसंयुक्ता बभूवुर्नात्र संशयः ॥५६॥ क्रमेण गणपाः सर्वे पूर्णयोगस्वरूपिणि । लयं ययुः सुशांतिस्थाः शांतस्वरूपे प्रजापते ॥५७॥ तत्र विधिं प्रवक्ष्यामि शृणु संशयनाशकम् । योगोऽष्टधा समाख्यातस्तत् स्वरूपं सुयोगदम् ॥५८॥ शमो दम आसनं च प्राणायामश्चतुर्थकः । प्रत्याहारो धारणा वै ध्यानं समाधिरष्टमः ॥५९॥ स्वधर्मयुक्तभावेन मनो नियम्य यत्नतः । यतते ब्रह्मप्राप्त्यर्थं स शमः परिकीर्तितः ॥६०॥ स्वधर्मस्थितिमास्थाय नियमादिखभावतः । दमेद्देहं सुशांत्यर्थं दमस्तेन प्रकथ्यते ॥६१॥ स्वस्तिकादीनि भो दक्ष आसनानि विशेषतः । साधयित्वा समातिष्ठेद्योगार्थमासनं स्मृतम् ॥६२॥ प्राणायामं ततोऽभ्यस्य लघ्वादिकं क्रमेण च । योगार्थं साधयेद्वायुं स प्राणायाम उच्यते ॥६३॥ नानाविषयभोगार्थं गच्छंतींद्रियकाणि तु । तेभ्यस्तानि समागृह्य योग-