मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 935, कुल 1023 में से
संदर्भ में पढ़ेंपरम् । नाशरूपं खसंवेद्यं बोधार्थं नात्र संशयः ॥१३॥ अयोगश्चिंतयाऽऽविष्टो बभूवे बंधहानतः । निवृत्तिजं सुखं तुच्छं मानयामास चेतसा ॥१४॥ सदा मायाविहीनत्वं ममास्त्यत्र न संशयः । मायायुक्तविहीनत्वं नैव ब्रह्मणि विद्यते ॥१५॥ विचार्य खेदसंयुक्तो योगमार्गपरोऽभवत् । अयोगो हृदि संचिंत्य तपस्तताप दारुणम् ॥१६॥ दशवर्षैर्गणाध्यक्षः प्रसन्नो हृदि संस्थितः । दर्शयामास मंत्रं स एकाक्षरं स्वकीयकम् ॥१७॥ दृष्ट्वा योगो जजापाऽतिहर्षितो मंत्रमुत्तमम् । ध्यात्वा मंत्रस्वरूपस्थं गणेशं शांतिदायकम् ॥१८॥ ततः स्वल्पेन कालेन रूपं गणपतेः शुभम् । ददर्श गजवक्त्रादि चिह्नयुक्तं महाप्रभुः ॥१९॥ ततोऽतिविस्मितो भूत्वा विचारमकरोत् हृदि । कोऽयं गजाननो देवः स्त्रीभ्यां संशोभते हृदि ॥२०॥ गणेशकृपया ज्ञानं बभूव तस्य शाश्वतम् । तेन सर्वमयोगेन ज्ञातं विघ्नेशचेष्टितम् ॥२१॥ ततोऽतिहर्षितो भूत्वा ध्यात्वा देवं गजाननम् । मंत्रं जजाप योगज्ञः शांतिप्राप्त्यर्थमादरात् ॥२२॥ स्वयं स्वल्पेन कालेन पुरो ययौ गजाननः । वरदो भक्तवात्सल्यान् महाभक्तस्य भो विधे ॥२३॥ दक्ष उवाच । आश्चर्यं विप्र वदसि ज्ञायते न मया परम् । रहस्यं तेऽद्य वाक्यस्य योगग्रथितकस्य च ॥२४॥ अष्टौ विनायकाः प्रोक्तास्ते सर्वे गजवक्त्रिणः । एकदंतादिचिह्नैश्च संयुक्ता गणपाः किल ॥२५॥ संयोगस्थं गणेशानं भजंतेऽनन्यमानसाः । तेषां हृदि गणेशानः प्रकटो जायते यदा ॥२६॥ तदा ते विस्मिता भूत्वा न जानंति स्वरूपकम् । नित्यं गजाननाः प्राज्ञा गजाननं कथं मुने ॥२७॥ एकाक्षररहस्यं ते न जानंति कथं प्रभो । एकाक्षरस्य भावेन संस्थिता नित्यमंजसा ॥२८॥ तथा संयोगरूपस्थो गणेशो गणनायकम् । मंत्रयुक्तं न जानाति मंत्राकृतिधरः कथम् ॥२९॥ अयोगगणनाथोऽयं गजाननाकृतिं धरन् । समंत्रो मंत्रयुक्तं तं न जानाति गणेश्वरम् ॥३०॥ कीदृशो गणनाथस्तु पूर्णयोगप्रवाचकः । यं न जानंति विघ्नेशास्तदाकृतिधरा अपि ॥३१॥ संयोगे गणनाथोऽपि सिद्धिवुद्धिसमन्वितः अयोगे सिद्धिबुद्धिभ्यां हीन एव स वर्ण्यते ॥३२॥ पूर्णयोगे गणेशानः संयोगायोगवर्जितः । मायाभ्यां संयुतः प्रोक्तः कथं वद रहस्यकम् ॥३३॥ मुद्गल उवाच । सम्यक् पृष्टं त्वया दक्ष रहस्यं परमाद्भुतम् । योगिनां सुखदं पूर्णं शांतिदं भावितात्मनाम् ॥३४॥ एकाग्रचित्तभावेन शृणु तस्य चरित्रकम् । अन्यथा भ्रांतिसंयुक्तो भविष्यसि निरंतरम् ॥३५॥ यथा विश्वमिदं नित्यं ब्रह्माकारं प्रवर्तते । तथापि ब्रह्मरूपं तन्न जानाति हृदि स्थितम् ॥३६॥ नामरूपविहीनत्वान् मंत्रस्तस्य न विद्यते । तपसा युक्तभावेन प्रणवं पश्यति प्रभुम् ॥३७॥ सर्वाकारं महाबीजं प्रणवाकृतिरूपिणम् । दृष्ट्वा