भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 942, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 942

संशयः। तदेव क्षिप्तसंज्ञं त्वं चित्तं जानीहि मानद ॥१३॥ केचित् स्वल्पज्ञकास्तेषु केचिज्ज्ञानाधिका मताः। मध्यमाः केचिदेवं तु नानाभेदाश्रिता नराः ॥१४॥ त्रिविधेषु विभागेषु स्थिता नानाविभेदतः। नानाज्ञानयुतास्तेषां रूपं न कथितुं क्षमम् ॥१५॥ लक्षचतुरशीतिषु जंतवो विविधात्मकाः। व्यष्टिस्थाः सर्वकार्येषु ज्ञानहीना भवंति ये ॥१६॥ ते मूढाः कथ्यते लोकैर्विषये चतुरैः सदा। तेषु नानाविधा भेदा अल्पाधिकसुमध्यमाः ॥१७॥ तेषां प्रकाशकं चित्तं नानामूढ- स्वभावगम्। तदेव मूढसंज्ञाख्यं चित्तं ज्ञातव्यमंजसा ॥१८॥ परैः संबोधितो जंतुर्न बुबोध विचारतः। कार्यं नानाविधं तस्य चित्तं मूढं प्रकीर्तितम् ॥१९॥ व्यष्टिस्था ये नरा दक्ष स्वधर्मनिरताः सदा। नानातपःपरा भूत्वा मुक्तिमिच्छंति शाश्वतीम् ॥२०॥ विषयेषु विरज्यैव सदा ब्रह्मपरायणाः। कुर्वंति विविधं कर्माऽहर्निशं मुक्तिकारणात् ॥२१॥ तदपि ब्रह्म हृदये न दृष्टं तैर्महात्मभिः। न संसारसुखे चित्तं तेषां रमति कर्हिचित् ॥२२॥ अतो विक्षिप्तचित्तास्ते मता योगि- जनैः पुरा। ब्रह्मार्पणक्रियाः सर्वाः कुर्वंत्यंतरबाह्यजाः ॥२३॥ विशेषेणैव क्षिप्तोऽहं संसारे मायया सदा। विगतक्षेपणं सर्वे नानासाधनभावतः ॥२४॥ तेषां मुक्त्यर्थमत्यंतं प्रकाशयति भावनाम्। चित्तं क्रियात्मिकां तेन विक्षिप्तं तत्प्रकीर्ति- तम् ॥२५॥ तत्र नानाक्रियायाश्च सामर्थ्येन विमोहितः। जानाति देवतां तुष्टां ममोपरि न संशयः ॥२६॥ कदा देव- प्रसादादि गृह्य विक्षेपसंयुतः। अनाधारां क्रियां कुर्याद्देवाज्ञावशगो मुधा ॥२७॥ स्वप्नेषु विविधान् भावान् पश्यति तद्गतचेतसा। सत्यं स्वप्नं मदीयं तु मान्यं तादृशजं चरेत् ॥२८॥ एवं विक्षिप्तभावेन मोहितः स कदाचन। अनाधारं करोत्येव नानातपःप्रभावतः ॥२९॥ समष्टिव्यष्टिसंस्थं यच्चित्तं वैराटगं परम्। तेन व्यष्टिं समाव्याप्य भुंक्ते स विविधं सुखम् ॥३०॥ वैराटस्य क्रिया प्रोक्ता व्यापिका शास्त्रसंमते। तत्र व्यापकभावस्य चित्तं प्रकाशदं मतम् ॥३१॥ तत्त्वेषु विविधेष्वेव स्थूलसूक्ष्मादिगेषु च। व्यापकभावकाशत्वाच्चित्तं तेषु स्थितं मतम् ॥३२॥ समष्टिव्यष्टिसंयोगेऽन्नं ब्रह्म स्थूलगं परम्। तथा स्वप्नगतं सूक्ष्मं सौषुप्तं समसंस्थितम् ॥३३॥ चेतनाभावगं पूर्णं तद्ब्रह्मादात्मकं मतम्। अस्मिताख्यं परं ब्रह्म तेषु चित्तं प्रकीर्तितम् ॥३४॥ समष्टिव्यष्टिभागस्य तयोरैक्यस्य च प्रभो। प्रकाशकारकं विद्धि चित्तमेकाग्रसंज्ञितम् ॥३५॥ समष्टिव्यष्टिभावेषु न भिन्नं भवतीत्यहो। तेनैकाग्रं समाख्यातं चित्तं तज्ज्ञानकारकम् ॥३६॥ देहश्चतुर्विधः प्रोक्तः स्थूलः सूक्ष्मः समात्मकः। अस्मिताख्यश्चतुर्थश्च तेषु देही स्थितो मतः ॥३७॥ देहेषु मोहितो देही जीव इत्यभिधीयते।