मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 943, कुल 1023 में से
संदर्भ में पढ़ेंमोहहीनः स एवाऽपि शिवः प्रोक्तो मनीषिभिः ॥३८॥ जीवशिवात्मिका संज्ञा देहिनो भ्रममात्रतः । सदैकात्मस्वभावत्वात्तत्र भेदो न विद्यते ॥३९॥ तत्र जीवशिवाकारभावप्रकाशकारकम् । चित्तमेकाग्रसंज्ञाख्यं तिष्ठति देहिसंश्रितम् ॥४०॥ सास्मिताच्च परं चित्तमेकाग्रं विद्यते न वै । देहदेहिमयं चित्तमेकाग्रं योगिनां मते ॥४१॥ चतुर्णां वपुषां यत्र ब्रह्माकारेण जायते । संयोगो बिंदुरूपं तज्ज्ञातव्यं ब्रह्म सर्वगम् ॥४२॥ चतुष्पदं बुधैः प्रोक्तं चतुर्भिर्वर्जितं सदा । देहानां ब्रह्म विख्यातं नानादेहस्वभावगम् ॥४३॥ तत्र चतुष्पदाकारभावप्रकाशकारकम् । चतुर्भिर्वर्जितस्यैव चित्तं तिष्ठति तद्गतम् ॥४४॥ देहेषु न भवेद्भिन्नं सर्वगमात्मभावतः । निरोधं कथ्यते चित्तं बिंदुधर्मप्रकाशकम् ॥४५॥ जीवशिवात्मभावस्थं मोहहीनं सदात्मकम् । ब्रह्म सोऽहं समाख्यातं सदा भ्रांतिविवर्जितम् ॥४६॥ तत्र जीवशिवाकारमोहहीनप्रकाशकम् । चित्तमात्म- स्वरूपस्थं निरोधं कथ्यते बुधैः ॥४७॥ देहदेहिसमायोगे स्वत उत्थानमुच्यते । बोधाख्यं द्वंद्वभावेन ब्रह्म खेलकरं सदा ॥४८॥ तत्र निरोधकं चित्तं तस्य रूपं वदाम्यहम् । संक्षेपेण प्रजानाथ शृणु भावसमन्वितः ॥४९॥ बाह्यं स्थूलं समाख्यातंमांतरं सूक्ष्मगं मतम् । बाह्यांतरैकभावस्थमानंददेहगं परम् ॥५०॥ त्रिभिर्हीनं त्रयाणां च चालकं ह्यस्मितात्मकम् । अहमानु- भवेनैतज्ज्ञातव्यं योगिनां हृदि ॥५१॥ तेषां संयोगभावे यच्चतुर्णां वपुषां परम् । सर्वात्मकं भवेद्ब्रह्म पंचमं बिंदुसंज्ञितम् ॥५२॥ चतुर्विधा नरस्यैव कल्पना हृदि संस्थिता । अतः परं न भेदोऽस्ति भवेद्येनास्य कल्पना ॥५३॥ बिंदुत्यागे निरालंबं चित्तं भवति सर्वदा । सततं तत् समाख्यातं ब्रह्म ध्यातृविहीनतः ॥५४॥ न किंचिज्जायते यत्र भेदहीनप्रभावतः । सोहं मात्रात्मकं चित्तं निरालंबसमाधिदम् ॥५५॥ अवलंबनगं चित्तं चतुर्धा देहिसंश्रितम् । अवलंबनहीनं तद्देहिंगं चिन्मयं भवेत् ॥५६॥ निरालंबपरित्यागेऽधिकसंरोधनं भवेत् । चित्तस्य देहदेहिभ्यां हीनत्वान्नात्र संशयः ॥५७॥ मनोवाणीविहीनं तच्चित्तं ज्ञातव्यमादरात् । अस्तिनास्तिविहीनत्वादाधाराधेययोगतः ॥५८॥ अवलंबनयोगो न पंचधा योगिनां हृदि । निरालंबनकं तस्मान् मनोवाणीविवर्जितम् ॥५९॥ बोधेन बुद्ध्यते सर्वं निरालंबं समाधिना । अवलंबनकं तद्गद्बोधबोधो न विद्यते ॥६०॥ एवं बोधात्मकं ब्रह्म देहदेहिसमाधिदम् । देहदेहिसमायोगप्रकाशं चित्तमुच्यते ॥६१॥ देहसौख्यं प्रजानाति देहिसौख्यं निरंतरम् । तयोर्योगे च यत् सौख्यं जानाति ब्रह्म बोधगम् ॥६२॥ पदानां बोधभावेन पदार्थानां विशेषतः । उत्थानं जायते तस्मात् स्वत उत्थानमुच्यते ॥६३॥ सुखं ज्ञात्वा समुत्थानं स्वयमेव करोति यः । देहदेहि च सृष्ट्वा स खेलति ब्रह्म-