भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 949, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 949

खं. ९ अ. ६ | पान २१ भवरूपकम् । कथयामि महाप्रीत्या येन योगी भवेन्नरः ॥६७॥ नाहं सर्वात्मको दक्ष नाहमात्मात्मकः कदा । आनंदोऽहं तयोः साम्ये ब्रह्मणि ब्रह्मभावतः ॥६८॥ मया मायाबलेनैव सर्वात्मकं प्रतिष्ठितम् । एकमेवाद्वितीयाख्यं तयोः साम्येऽहमा- स्थितः ॥६९॥ ब्रह्मणि सर्वभावश्च भावहीनं कुतो भवेत् । अमृतं मृतमूलं यन्नास्त्येव मयि सर्वदा ॥७०॥ अनंतलीलया युक्तं लीलाहीनं न विद्यते । मयि लीलायुतं हीनं वर्तते पश्य मे महः ॥७१॥ अखंडरूपभावेन संस्थितोऽहं सदाऽमलः । नानाविकारहीनत्वाद् द्वाभ्यां हीनोऽहमंजसा ॥७२॥ ब्रह्मणि सर्वभावश्च वर्तते नात्र संशयः । सदात्मभावस्तत्रैव साम्यं वेदे ततः स्मृतम् ॥७३॥ यद्यत् संकथ्यते वेदे तेषु ब्रह्म स्थितं मतम् । न वर्ण्यते तथा तत्र न तद्ब्रह्ममयं किल ॥७४॥ अतः समं समाख्यातं ब्रह्म वेदविवादतः । आनंदमुभयानंदादासमंताद्विचारय ॥७५॥ आनंदोऽहं न संदेहो ब्रह्म ब्रह्मसु संस्थितम् । अनेनानुभवेनैव शांतियुक्तो नरो भवेत् ॥७६॥ अतस्ते व्यक्तसंज्ञस्थं कथयामि प्रजापते । ब्रह्मानुभवमाहात्म्यं येन योगी भवेन्नरः ॥७७॥ अहमव्यक्तरूपश्च त्रिभिर्हीनः सदा मतः । त्रिषु मोहविहीनोऽहं त्रिनेतिकारकः परः ॥७८॥ सर्वात्मकं मयि नास्ति तथाऽमृतमयं न च । साम्यं स्वाधीनसंज्ञेऽथ ब्रह्मणि नंदनात्मकम् ॥७९॥ उत्थानयुक्तहीनाख्यो मोहः सर्वमये स्थितः । सदाऽमृतमयो मोहोऽखंडब्रह्मणि कथ्यते ॥८०॥ नंदनं सर्वभावेषु समत्वान्मोहरूपकम् । सदा स्वाधीनता तेषु कुतस्त्रिषु भवेत् किल ॥८१॥ त्रिभिर्युक्तोऽहमत्यंतं तदपि त्रिविमोहतः । भिन्नः सदा त्रयाणां तु नेति कर्ता- हऽमंजसा ॥८२॥ नानाभावसमायुक्तं भावहीनं ततः परम् । साम्यमुभयगं तेभ्यः परोऽव्यक्तस्ततः स्मृतः ॥८३॥ सृष्ट्वाऽहं त्रिविधां मायां तत्र खेलकरो मुदा । मोहहीनोऽहं तदपि मायायाः स्वप्रभावतः ॥८४॥ मदाज्ञया त्रयं नित्यं चलत्यत्र न संशयः । स्वस्वव्यापारसंयुक्तं स्वाधीनोऽहं प्रभावतः ॥८५॥ त्रयाणामंतरे प्रज्ञस्तिष्ठाम्यत्र न संशयः । ममांतरे कोऽपि न वै प्रेरकः साधुसत्तम ॥८६॥ स्वस्वभावेषु नित्यं तु प्रेरकस्त्रिषु संस्थितः । तथापि नैव मे मोहो नाहं प्रेरक उच्यते ॥८७॥ अहमव्यक्तरूपश्च वेदे संकथितो मतः । नेह नानास्तिभावाख्यः सदा नानात्रिवर्जितः ॥८८॥ नेह नानाप्रमाणेनाऽव्यक्तं ब्रह्म सनातनम् । तदेवाहं सुखे सक्तः सदा ब्रह्मणि योगतः ॥८९॥ सर्वेषां नेति कर्ताऽहं महादंडधरः प्रभुः । नेति कर्ता नास्ति मे कस्तेनाव्यक्तोऽहमंजसा ॥९०॥ मनोवाणीविहीनोऽहमव्यक्तः परमो मतः । अनेनानुभवेनैव शांतिं प्राप्नोति मानवः ॥९१॥ अथ पूर्णनिजानंदानुभवं शृणु सौख्यदम् । येन स्वानंदसंयुक्तो भविष्यसि महामते ॥९२॥ अहं ब्रह्ममयः