मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 950, कुल 1023 में से
संदर्भ में पढ़ेंखं. ९ अ. ६ पान २२ साक्षात् मयि मोहविवर्जितम् । कुतो मोहयुतं ब्रह्म निजरूपे भवेत् कदा ॥९३॥ महावाक्ययुता वेदा यदा लीनाः समाधिना । तदा स्वानंदगाः प्रोक्ताः पश्य वेदे महात्मभिः ॥९४॥ अहंभावयुतो जंतुर्मायया तुर्यभावया । मोहहीनश्च युक्तश्च भवति भ्रमभावतः ॥९५॥ चतुर्विधं मया सृष्टं नानाभावपरायणम् । भावहीनं समानं चाव्ययं तेषु स्थितेन वै ॥९६॥ ब्रह्मदोषविहीनं तु दोषयुक्तं प्रकीर्तितम् । साम्यं नेतिमयं वेदे चतुर्हीनपरं भवेत् ॥९७॥ स्वानंदे तन्मयो योगी भवते यः समाधिना । न पश्यति पुनर्ह्यत्र चतुर्षु मोहितात्मसु ॥९८॥ समाधिना युतो योगी निजरूपे लयं गतः । न पुनर्दर्शनं तस्य तेषां तत्र प्रवर्तते ॥९९॥ कीदृशोऽहमिमां मायां यस्त्यक्त्वा योगसंयुतः । ब्रह्मणि ब्रह्मभूतः स भवति स्वस्वरूपिणि ॥१००॥ यदा ब्रह्मणि योगेन तन्मयो भवति स्वयम् । स्वपरादिकमेवेदं पुनर्वद कुतः प्रभो ॥१॥ अहं ब्रह्मेति यत् प्रोक्तं पश्य वेदे विचारतः । तेनैव कृतकृत्यः स भवति योगसेवया ॥२॥ एवं संयोगयोगेन भवेत् ब्रह्मणि तन्मयः । शांतियुक्तः स वै साक्षात् वर्तते शांतिधारकः ॥३॥ अतः परमयोगाख्यं वदामि योगमुत्तमम् । तत्रानुभवमात्रेण शांतियुक्तो नरो भवेत् ॥४॥ अहं ब्रह्मेति यत् प्रोक्तं कुतस्तत्र भवेदिदम् । तन्मयत्वं प्रजानाथ ब्रह्म ब्रह्मणि संस्थितम् ॥५॥ ब्रह्म वाणीविहीनं च मनोगतिविवर्जितम् । तदेव नागतं कुत्र न ब्रह्मणि गतं पुनः ॥६॥ यदा भिन्नं विहारेषु संसक्तं जायते परम् । तदा योगेन स्वानंदयुक्तं भवति नान्यथा ॥७॥ ब्रह्म ब्रह्मणि संस्थं च नागतं न गतं मतम् । कुतो योगेन तत्रैव तन्मयो जायते नरः ॥८॥ सदाऽहं ब्रह्मरूपश्च न मायासंगुतः कदा । भ्रांत्या मां नैव जानंति स्वमहिम्नि स्थितं परम् ॥९॥ सर्वसंयोगयोगाख्या माया नानाभ्रमात्मिका । मयि ब्रह्मणि सा कुत्र तिष्ठति ब्रह्मवर्जिता ॥११०॥ यथा मरीचिसंस्थं च तोयं व्यर्थभ्रमप्रदम् । तथा मयि महामाया व्यर्था संयोगधारिका ॥११॥ ब्रह्मदोषविहीनं तु वेदे संकथितं पुरा । तदेव मायया युक्तं कथं भवति मोहितम् ॥१२॥ भ्रांतियुक्तं सुयोगेन भ्रांतिहीनं भवेत् कथम् । ब्रह्ममायायुता मूर्खा वदंति ब्रह्मवर्जिताः ॥१३॥ अतोऽहं नागतः पश्य जगत्सु ब्रह्मसु प्रभुः । न ब्रह्मणि गतस्तत्र पुनर्योगस्य सेवया ॥१४॥ ब्रह्मणि विविधाकारा माया नैव प्रतिष्ठति । मायायां नैव तद्ब्रह्म ह्यपवादप्रभावतः ॥१५॥ अयोगस्त्रिविधः प्रोक्तो मृदुमध्याधिमात्रतः । तेषां भेदं प्रवक्ष्यामि मायामूलनिकृंतनम् ॥१६॥ स्वतोत्थानभ्रमं त्यक्त्वाऽहं ब्रह्म ह्यपवादतः । यस्तिष्ठति नरः सोऽपि मृदुयोगयुतो मतः ॥१७॥ परतोत्थानजं दक्ष भ्रमं त्यक्त्वा ह्ययोगतः । तिष्ठति