भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 951, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 951

[Header] खं. ९ अ. ६ पान २३

[Main Text] मध्यगः सोऽपि मतो योगस्य सेवया ॥१८॥ स्वतः परत उत्थानहीनं संयोगधारकम् । ब्रह्म तस्य भ्रमं त्यक्त्वा तिष्ठति सोऽधिमात्रगः ॥१९॥ नाऽऽगतोऽहं यदा भ्रांत्या जगत्सु ब्रह्मसु भ्रमन् । तदा मे गमनं कुत्र योगेनैव भविष्यति ॥२०॥ ब्रह्मभूतस्वभावेन स तिष्ठति नरोत्तमः । निवृत्तियोगमाश्रित्य सदा शांत्या प्रवर्तते ॥२१॥ अधुना पूर्णयोगस्यानुभवं ते वदाम्यहम् । योगी येन नरो भूत्वा तिष्ठति गणपप्रियः ॥२२॥ नाहं न ब्रह्म वेदेषु कथितं भेदभ्रांतिदम् । ब्रह्मणि द्विविधं दक्ष कुतो भवति चित्तगम् ॥२३॥ अहं चित्तमयश्चैव ब्रह्म चित्तमयं तथा । चित्तं पंचविधं त्यक्त्वा योगी भवति मानवः ॥२४॥ जगद्रूपं महच्चित्तं ब्रह्मरूपं तथा मतम् । जगतां ब्रह्मणां संयोगायोगं चित्तमुच्यते ॥२५॥ भ्रांतियुक्तं भवेच्चित्तं नानामायाविमोहितम् । योगसेवापरं चित्तं भ्रांतिहीनं तथा भवेत् ॥२६॥ अहं कुतस्तथा ब्रह्म कुतस्तयोश्च योगतः । अभेदः सर्वगं चित्तं क्रीडत्यत्र न संशयः ॥२७॥ नाहं सर्वत्र योगेन संयोगाभेदभावतः । तिष्ठामि चित्तमोहेन वदंत्ययोगिनो मुधा ॥२८॥ ब्रह्म ब्रह्मणि संस्थं यन्नागतं न गतं कदा । अयोगधारकोऽहं न चित्तं तदेव संमतम् ॥२९॥ धर्ममिच्छति चित्तं च भ्रमयुक्तं तथार्थकम् । कामं मोक्षं ब्रह्मभूतं पंचभूमिप्रभावतः ॥३०॥ चित्तं त्यक्त्वा महायोगी पंच- रूपं सुशांतिगः । ब्रह्मभूतो भवेन्नूनं चिंतामणिः प्रकथ्यते ॥३१॥ चित्तरूपा महाबुद्धिस्तत्र भ्रांतिप्रदायिका । सिद्धिस्तयोः पतिः साक्षात् क्रीडति स्वेच्छयाऽपरः ॥३२॥ तं ज्ञात्वा ब्रह्मभूतश्च भवत्यत्र न संशयः । सिद्धिबुद्धिमयं सर्वं त्यक्त्वा योगी प्रजापते ॥३३॥ नैव ब्रह्मणि संयोगो नायोगो वर्तते कदा । सिद्धिबुद्धिभ्रमेणैव परं वाञ्छति तत्पतिः ॥३४॥ गणेशोऽहं न संदेहो कुतो मयि भवेदिदम् । सिद्धिबुद्धिकृतं सर्वं तेन योगी स जायते ॥३५॥ सिद्धिबुद्धिसमायुक्तो ब्रह्मभूतो नरो भवेत् । शांतियोगेन शांतिस्थो वर्तते नित्यमादरात् ॥३६॥ ब्रह्मणि योगभावेन मायायुक्तविहीनता । शांतिं प्राप्तः स्वयं त्यक्त्वा योगं योगी स जायते ॥३७॥ एतादृशभवेनैवानुभवेन युतं परम् । चित्तं भ्रांतिभवं सर्वं रसं त्यक्त्वा सुतिष्ठति ॥३८॥ योगे रससमायुक्तं सदा भवति तत्परम् । निश्चलं शांतिसंयुक्तं मायामलविवर्जितम् ॥३९॥ एतत्ते कथितं सर्वमनुभवभवं