भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 952, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 952

सुखम्। यज्ज्ञात्वा ब्रह्मभूतः स तिष्ठत्यत्र न संशयः ॥१४०॥ शृणुयाद्यः पठेद्वाऽपि योगानुभवरूपगम् । माहात्म्यं स लभेत् सर्वं वाञ्छितं शांतिमाप्नुयात् ॥१४१॥ ॥ ॐ तत्सदिति श्रीमद्दांत्ये पुराणोपनिषदि श्रीमद्मौद्गले महापुराणे नवमे खंडे योगचरिते मुद्गलदक्षसंवादे योगामृतार्थशास्त्रे चित्तभूमिनिरोधेन योगिचित्तानुभबशांतिसुखवर्णनयोगो नाम षष्ठोऽध्यायः ॥ ॥ इति योगगीतासूपनिषत्सु सुगमासु द्वितीयोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । स्थितिं वद महायोगिन् जीवन्मुक्तस्य सौख्यदाम् । शुभाशुभकृतं तेन कुत्र गच्छति तत्परम् ॥१॥ कायिकं वाचिकं मानसिकं सांसर्गिकं प्रभो । कर्म योगिकृतं सर्वं कीदृशं तस्य का गतिः ॥२॥ मुद्गल उवाच । जीवन्मुक्तः स्वयं योगी स्वेच्छाचारी भवेत् सदा । प्रारब्धप्रेरितः साक्षाद् वर्तते नित्यमादरात् ॥३॥ स्वयं ब्रह्मणि संस्थश्च बिंबं चित्ते प्रतिष्ठति । योगिनस्तत्कृतं सर्वं न कदा बंधदं भवेत् ॥४॥ नरवत् सर्वकर्ताऽपि तथाऽपि दोषवर्जितः । ब्रह्मणि ब्रह्मभूतत्वाच्छुभाशुभविवर्जितः ॥५॥ प्रारब्धेन स्वयं योगी प्रेरितः पुण्यमाचरेत् । तीर्थयात्रादिकं सर्वं यज्ञदेवार्चना- दिकम् ॥६॥ सदा शौचसमायुक्तो नित्यं धर्मपरायणः । तथापि पुण्यजं भोगं भुनक्ति नैव निश्चितम् ॥७॥ अथवा पूर्वजेनैव प्रारब्धेन नियंत्रितः । पापानि नित्यमानंदात् प्रकुर्याद्विविधानि सः ॥८॥ ब्रह्महत्यादिकं सर्वं मातृगमनकादिकम् । मद्य- पानादिकं चौर्यं प्रकुर्याद् दैवयोगतः ॥९॥ एवं पापसमाचारो यदि तिष्ठति मानवः । योगी पापफलं नैव भुनक्ति नरवत् कदा ॥१०॥ पूर्वजन्मार्जितेनैव प्रारब्धेन प्रजापते । कारितं योगिना तत्र तेन किंचित् कृतं न च ॥११॥ मरणे या मतिः प्राप्ता तादृशीं लभते गतिम् । नरो ह्ययोगयुक्तो यो योगी ब्रह्मैव जायते ॥१२॥ इदं संशयनाशार्थं कथितं ब्रह्मणः सुत । योगिनां कर्मजं सर्वं माहात्म्यं लेशतो मया ॥१३॥ योगी योगसमायुक्तो न पापानि कदाचन । चरति धर्मनिष्ठः स भवत्यत्र न संशयः ॥१४॥ लोकोद्धारकराः सर्वे योगिनः परिकीर्तिताः । नाचदंति कदा पापमहिंसादिसमन्विताः ॥१५॥

मुद्गल पुराण (अष्टावतार चरितम्) · पृष्ठ 952, कुल 1023 में से · BharatKosha