मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 962, कुल 1023 में से
संदर्भ में पढ़ेंख. ९ अ. ९ पान ३४ चक्राणि तत्र पश्येद्गजाननम् ॥५१॥ तत्र क्रमेण वायुं संस्थापयेत् सुसमाधिना । वायुना संयुतस्तिष्ठेत् पश्यन् विघ्नेश्वरं परम् ॥५२॥ क्रमाद्वायुबलेनैवं शुद्धचित्तो भविष्यति । पश्येत् सर्वत्र भावेषु स्थितं ब्रह्म सनातनम् ॥५३॥ ततः स्वाधीनता- युक्तः प्रभवेत् स्वेन तेजसा । यं यमिच्छेत् स तं तं तु सद्यो वै सफलं भवेत् ॥५४॥ किंचिदिच्छेन्न यो योगी तदा योगमवाप्नुयात् । नो चेच्छंदरतो भूत्वा भोगयुक्तः पुनः पतेत् ॥५५॥ साधनं द्विविधं प्रोक्तं क्रियारूपं प्रजापते । बाह्यं कर्मस्वरूपाख्यं तपोयुक्तं स्वधर्मजम् ॥५६॥ आन्तरं वायुरोधाख्यं सर्वसिद्धिप्रदायकम् । ताभ्यां चित्तं विनिगृह्य स्ववशं कारयेन्नरः ॥५७॥ बाह्यकर्मरताज्जंतोरांतरं शीघ्रसिद्धिदम् । सहस्राधिकभावाख्यं प्रोक्तं योगींद्रमुख्यकैः ॥५८॥ अतः परं तृतीयं ते साधनं कथयाम्यहम् । येन योगींद्रसेव्यः स ध्रुवं भवति मानवः ॥५९॥ चित्तशुद्धेश्च कार्यार्थं कर्म द्विविधमुच्यते । शुद्धचित्तो नरः पश्चात् संपश्येद्ब्रह्म शाश्वतम् ॥६०॥ सर्वत्र पूर्णभावेन संस्थितं परमव्ययम् । अवयवादिभिर्हीनं तत्र लीनो भवेत् स्वयम् ॥६१॥ एतावान् फलादाताऽयं क्रियायोगः प्रकीर्तितः । बाह्यांतरात्मकः पूर्णस्ततोऽन्यत् साधनं चरेत् ॥६२॥ चित्तं रसयुतं कुत्र जायते योगिनः परम् । तज्जयेद्ब्रह्मभावेन शमदमपरायणः ॥६३॥ स्वधर्मसंयुक्तो भूत्वा देहनिर्वाहकं चरेत् । देहस्य शमनं तच्च जायते स दमः स्मृतः ॥६४॥ विषयार्थं मनस्तस्य संकल्पं यत् समाचरेत् । तन्नेच्छेच्चित्तमागृह्य कुर्याद्ब्रह्मपरायणम् ॥६५॥ अयं शमः समाख्यातस्तेन चित्तं भवेत् परम् । स्वाधीनं सर्वभावं च त्यक्त्वा ब्रह्मपरो भवेत् ॥६६॥ शनैः शनैरुपरमेद्विषयेभ्यो महात्मवान् । धृतिं योगमयीं धृत्वा भवेद्योगी स मानवः ॥६७॥ कर्ममार्गं परित्यज्य द्विविधं योगिसत्तमः । ध्यानयोगपरो भूत्वा तिष्ठेन्नित्यं वदामि तम् ॥६८॥ मनोवाणीविहीनं यद्ब्रह्म तत्र समाचरेत् । ध्यानं संकल्पत्यागाख्यं विषयेषु निरंतरम् ॥६९॥ यो यश्चित्तेन संकल्पः क्रियते विषयेषु च । तत्तत्संकल्पहीनं स कारये- द्योगतत्परः ॥७०॥ एवं चित्तं नरस्यैव स्वाधीनं जायते सदा । यदा धर्तुं स नो शक्तस्तदान्यदाचरेद्बुधः ॥७१॥ देहेंद्रियाणि संगृह्य तिष्ठेद्भूतौ महायशाः । न चलेत् स्थाणुवत् सोऽपि क्रियां नैव समाचरेत् ॥७२॥ तत्र यन्मिलितं चान्नं जलपानादिकं चरेत् । परेच्छया समायुक्तः सदा तिष्ठेन् महायशाः ॥७३॥ केनापि जलपानादि न दत्तं तादृशो वसेत् । न तदर्थं भ्रमेत् सोऽपि नेच्छेत् प्रारब्धधारकः ॥७४॥ सर्पवृश्चिकव्याघ्राद्यैः पीडितो यदि मानवः । नानाप्रहारयोगैश्च मानवादिभिरेव वा ॥७५॥ तथापि न चलेत् सोऽपि स्वस्थानाज्डवत्परः । देहप्रारब्धमाश्रित्य न तेषु क्रोधमाचरेत् ॥७६॥ पूर्वजन्मकृतं कर्म