मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 963, कुल 1023 में से
संदर्भ में पढ़ेंमया तेन प्रबोधितः । इमे संपीडयंत्येवमेषां दोषो न विद्यते ॥७७॥ अथवा सात्त्विकैस्तत्र पूजितः सर्वभावतः । नित्यं नानाजनैः सोऽपि सेवितो न चलेत्तदा ॥७८॥ पूर्वजन्मकृतं कर्म प्रेरितास्तेन मानवाः । मया मां पूजयंत्येव गुण एषां न विद्यते ॥७९॥ एवं मनसि संधार्य तेषां नेच्छेच्छुभं कदा । द्वंद्वमेवं परिगृह्य तिष्ठेन्नित्यं महायशाः ॥८०॥ अनेन विधिना सोऽपि स्वल्पकालेन भो विधे । चित्तं जयेन्न संदेहः शांतिं पूर्णामवाप्नुयात् ॥८१॥ नान्यत् किंचिच्चरेत् कर्म न ध्यानादिक- मादरात् । एवं शमदमौ धृत्वा भवेद्योगी स मानवः ॥८२॥ विचारं ब्रह्मणस्तत्र कुर्यान्नित्यं विशेषतः । कीदृशं ब्रह्म हृत्स्थं मे वेदायैः प्रतिपादितम् ॥८३॥ पंचभूमिमतिक्रम्य तिष्ठेत् क्रमेण मानवः । नानाब्रह्माणि पश्यन् सन्नंते शांतिमवाप्नुयात् ॥८४॥ शांतियुक्तो नरः पश्चात् संत्यजेत्तां महाद्भुताम् । जडावस्थां पुनः सोऽपि यथेच्छाचारगो भवेत् ॥८५॥ हृदि चिंतामणिं दृष्ट्वा पंचभूमिप्रचालकम् । शांत्या युक्तो भवेन्नित्यं स्वाधीनहृदयः परः ॥८६॥ दृष्ट्वा ब्रह्म स्वयं योगी रसहीनो भवेन् मुदा । सर्वत्र नात्र संदेहः शांत्या सर्वं समाचरेत् ॥८७॥ अनेन विधिना दक्ष ज्ञानी पापपरायणः । क्रमेण साधयेद्योगं स योगी संभवोत् परः ॥८८॥ एवं कर्तुमशक्तश्चेत्तदा श्रुत्वा महामतिः । इमं योगं स्वयं तत्र निष्ठायुक्तो भवेत् सदा ॥८९॥ स्वधर्मनिरतो भूत्वा योगमिच्छेन्निरंतरम् । निंद्यभोगान् प्रसुंजन् सन्नंते स्वानंदगो भवेत् ॥९०॥ गणेश्वरं तत्र दृष्ट्वा योगयुक्तो भविष्यति । ज्योतिर्देहधरो भूत्वा प्रभजेद्गणनायकम् ॥९१॥ ब्रह्म कल्पमयं स्थित्वा कालं तत्र महामतिः । तद्देहे लीनतां प्राप्य ब्रह्मभूतो भविष्यति ॥९२॥ एवं कर्तुमशक्तश्चेत्तदा स धर्मसंयुक्तः । कर्माचरेत् प्रजानाथ ब्रह्मार्पणविधानतः ॥९३॥ तेनैव शुक्लगत्या स ब्रह्मीभूतो नरो भवेत् । निःकामयोगमार्गेण सदा ब्रह्मणि तत्परः ॥९४॥ एवं कर्तुमशक्तश्चेत्तदाऽहं ब्रह्मभावतः । त्रिविधं फलमुत्सृज्य कर्मजं योगमाप्नुयात् ॥९५॥ कर्मत्यागबले- नैवाहं ब्रह्म निश्चयेन सः । क्रमेण कर्मसंयुक्तो भविष्यत्यन्यजन्मनि ॥९६॥ निःकामकर्मकर्ता स पुनरन्यभवे नरः । योगरससमायुक्तो भवेद्विषयनिंदकः ॥९७॥ एवं क्रमेण शांतिं स लभेत् पूर्णां न संशयः । क्रमार्थं रचितं सर्वं नानामतसमन्वितम् ॥९८॥ सुगमं सर्वभावेषु गणेशभजनं परम् । तेन योगी भवेन्नूनं सर्वशास्त्रेषु संमतम् ॥९९॥ यत्किंचिद् गणराजस्य व्रतपूजादिकं प्रभोः । कीर्तनश्रवणायं तु ब्रह्मीभूतप्रदायकम् ॥१००॥ नानाविषयसंयुक्तो नरः स्मरेद्गणाधिपम् । अहर्निशं तदास्यांते गणेशस्मरणं भवेत् ॥१॥ तेन स्वानंदगो भूत्वा योगमभ्यस्य तन्मयः । ब्रह्मकल्पांत-